हेलेन् केलर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हेलेन् केलर्
Helen Keller
एका महिला, यस्याः कृष्णकेशाः, लम्बमानानि कृष्णवस्त्राणि सन्ति, तस्याः आसन्दे विद्ममानायाः महिलायाः आंशिकरूपरेखात्मं चित्रम् । तस्याः तनु कण्ठाभरणं, तस्याः हस्ते विद्यमानं कनकचम्पापुष्पं (magnolia), घाढकृष्णपर्णैः आच्छादितं तत् श्वेतपुष्पम् ।
कनकचम्पापुष्पं (magnolia) धृतवती हेलेन केलर (१९२०)
जननम् हलेन् एड्मन्स् केलर्
(१८८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२७)२७, १८८०
तुस्कम्बिया, अलाबामा, यु एस् ए
मरणम् १, १९६८(१९६८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-०१) (आयुः ८७)
एस्टोन्, कनेक्टिकट्, यु एस् ए
वृत्तिः लेखिका, राजनीतिज्ञा, प्राध्यापिका
विद्याभ्यासः रेड्क्लिफ् कॉलेज्

हस्ताक्षरम्

हेलेन एड्मन्स् केलर ( /ˈhɛlən kɛlər/) (हिन्दी: हेलेन् केलर्, आङ्ग्ल: Hellen Keller) अन्धा, बधिरा, मूका चासीत् । परन्तु सा अन्येभ्यः मूकबधिरान्धेभ्यः, सामान्यनागरिकेभ्यश्च प्रेरणायाः स्रोतः आसीत् । यतो हि ज्ञानेन्द्रियविहीना हेलेन केलर स्वप्रयत्नैः, अविरतकार्यैः च विश्वस्मिन् अनेकानि कठिनतमानि कार्याणि अकरोत् [१]

अमेरिका-देशीया हेलेन केलर लेखिका, राजनीतिज्ञा, प्राध्यापिका चासीत् । सा प्रप्रथमा मूका, बधिरा च व्यक्तिः आसीत्, यया स्नातकपदवी प्राप्ता [२][३]तुस्कुम्बिया-नगरस्य पश्चिम-भागे यत्र हेलेन इत्यस्याः जन्म अभवत्, तत्र सद्यः एकः सङ्ग्रहालयः (museum) वर्तते [४] । हेलेन केलर इत्यस्याः जन्मदिने जून-मासस्य सप्तविंशतितमे (२७) दिनाङ्के अमेरिका-देशस्य पेन्सिलवेनिया-राज्ये हेलेन केलर-दिनस्य आचरणं भवति । हेलेन केलर-दिनस्य आधिकारिकघोषणा जिम्मि कार्टर्-आख्येन राष्ट्रपतिना १९८० तमे वर्षे कृता, तत् वर्षं हेलेन केलर इत्यस्याः जन्मशताब्दीवर्षम् आसीत् ।

उत्तमा लेखिका केलर् बहुयात्रिणी, मुखरा, दृढमनस्विनी चासीत् । सोसियलिस्ट् पार्टि ऑफ् अमेरीका-पक्षस्य, इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्-संस्थायाः सदस्या सा महिलामताधिकाराय, कर्मकराधिकाराय, समाजवादाय च अभियानानि अकरोत् । १९१७ तमे वर्षे सा Alabama Women's Hall of Fame इत्स्याः संस्थायाः सदस्या अभवत् [५]

जन्म, बाल्यञ्च[सम्पादयतु]

१८८८ तमस्य वर्षस्य जुलाई-मासे हेलेन केलर इतीयम् अन्नी सलीबान् इत्यनया सह अवकाशस्य दिनेषु

१८८० तमस्य वर्षस्य जून-मासस्य सप्तविंशतितमे (२७/६/१९८०) दिनाङ्के अमेरिका-संयुक्तराष्ट्रस्य अलाबामा-राज्यस्य तुस्कम्बिया-नगरे हेलेन केलर इत्यस्याः जन्म अभवत् [१][६]

दशवर्षेभ्यः प्राक् हेलन इत्यस्याः पितामही 'ल्वि ग्रीन्'-आख्यस्य गृहस्य निर्माणम् अकारयत् [७] । तस्मिन् गृहे एव हेलन् इत्यस्याः परिवारः निवसति स्म [८] । तस्याः चत्वारः बान्धवाः आसन् । तेषु द्वौ अनुजौ, द्वौ अग्रजौ च । अनुजयोः नाम क्रमेण मिल्ड्रेड् केम्बल्, फिलिप् ब्रूक्स् च आसीत् । तस्याः विमातुः (तस्याः पितुः पूर्वपत्नी) द्वौ पुत्रौ अर्थात् तस्य अग्रजौ जेम्स्, विलियम् च [९]

तस्याः पिता आर्थर् एच् केलर,[१०] तुस्कुम्बिया-राज्ये सम्पादकत्वेन कार्यं करोति स्म । सः अमेरिका-देशस्य सेनायाम् अपि दायित्वं स्वीकृतवान् आसीत् [७] । हेलेन इत्यस्याः पितामह्याः पितृव्यपुत्री रॉबर्ट् ई. ली आसीत् [११] । हेलेन इत्यस्याः माता केट् एडम्स्[१२] चार्लेस् एडम्स् इत्यस्य पुत्री आसीत् [१३] । अमेरिका-देशस्य गृहयुद्धकाले अमेरिका-देशस्य सैन्यबले चार्लेस् एडम्स् नियुक्तः आसीत् । सः गृहयुद्धं शमयितुं युद्धम् अपि अकरोत् । सेनायां तस्य योग्यतायाः आधारेण सः उच्चपदं प्रापत् । सः ब्रिगेडियर् जनरल् इति पदमारूढः आसीत् ।


यदा हेलेन केलर् इत्यस्याः जन्म अभवत्, तदा सा श्रोतुं, द्रष्टुं च शक्नोति स्म । शैशवावस्थायाम् एव हेलन स्वतीक्ष्णबुद्ध्याः परिचयम् अकरायत् । यदा सा षण्मासीया आसीत्, तदारभ्य एव सा वचनम् आरब्धवती । प्रप्रथमजन्मदिवसे एव सा चलनम् अपि आरभत [१४] । परन्तु यदा सा एकोनविंशतिमासीया अभवत्, तदा सा अज्ञात-रोगेण ग्रस्ता [१] । रोगस्य विषये वैद्यानां कथनम् आसीत् यत्, "उदरे, मस्तिष्के च एकस्य तीव्रभारस्य आघातः अभवत्", तेन मस्तिष्कावरणे शोथः (swelling) अभवत् । सः रोगः स्कार्लेट्-ज्वरः आसीत् [१५] । यद्यपि सः रोगः अत्यन्तः घातकः आसीत्, तथापि तस्याः जीवनस्य रक्षणम् अभवत् । परन्तु जीवने रक्षिते सत्यपि तस्याः जीवनस्य आधारः तु रोगेण नाशितः । यदा रोगाघातः अभवत्, तदा सा मार्थर् वॉशिङ्गटन् इत्यनेन सह संवादरता आसीत् ।

यावत् हेलेन षड्वर्षीया अभवत्, तावत् तस्याः जीवने अन्धकारस्य स्थितिः आसीत् । १८८६ तमे वर्षे हेलेन् इत्यस्याः माता चार्ल्स् डिकेन्स्-नामकस्य लेखकस्य 'एमेरिकन् नोट्स्'-नामकं पुस्तकम् अपठत् । तस्मिन् पुस्तके उल्लिखितम् आसीत् यत्, लौरा ब्रिजमैन्-नामिका बालिका मूका, नेत्रहीना चास्ति, तथापि सा शिक्षणं प्राप्तुं शक्नोति इति । अतः सा स्वपतिना सह हेलेन इतीमां जे जुलियन् चिसोल्म्-आख्यस्य चिकित्सकस्य समीपं बाल्टिमोर-महानगरं प्रैषयत् । सः चिकित्सकः नेत्र-कर्ण-नासिका-कण्ठसम्बद्धानां रोगाणां विशेषज्ञः आसीत् [१६] । जुलियन् चिसोल्म् केलर इतीमां एलेक्झान्डर् अब्राहम् बेल् इत्येतस्य समीपं प्रैषयत् । यतो हि अब्राहम् बेल् तस्मिन् काले बधिरबालकेभ्यः निदानकार्यं करोति स्म । बेल् न्यवेदयत् यत्, एतस्याः बालिकायाः कृते भवान् 'पर्किझ् स्कूल् फॉर् द ब्ल्यैण्ड्'-आख्यं विद्यालयं गच्छतु इति । तस्य विद्यालयस्य प्रबन्धकः माईकल् एनोगस् यदा कैलर् इत्यस्याः विषये अजानात्, तदा सः विंशतिवर्षीयाम् अन्नी सलीबान्-आख्यां शिक्षिकाम् अपृच्छत्, "भवती एतां पाठयिष्यति किम् ?" ततः सा केलर् इत्यस्याः गृहं गत्वा पाठयितुम् उद्यता अभवत् । एवं ४९ वर्षं यावत् लम्बमानस्य सम्बन्धस्य आरम्भः तदा अभवत् । यतो हि सलीबान् इत्येषा केलर् इत्यस्याः शिक्षिकात्वेन ४९ वर्षाणि कार्यम् अकरोत् ।

अन्नी सलीबान् १८८७ तमस्य वर्षस्य मार्च-मासे केलर् इत्यस्याः गृहं प्राप्तवती । यस्मिन् दिने सा तस्याः गृहं प्राप्तवती, तस्माद्दिनादेव केलर इत्यस्याः अध्ययनं प्रारब्धम् । प्रप्रथमे दिने सलीबान् हेलेन इत्यस्याः हस्ते "d-o-l-l" इति लिखित्वा तत्क्षणं पाञ्चालिकां (doll) तस्याः हस्ते अस्थापयत् । सा पाञ्चालिका सलीबान् इत्यस्याः पक्षतः केलर् इत्यस्यै उपहारः आसीत् । यतो हि केलर् कस्यचिद् वस्तुनः स्पर्शे कृते सत्यपि ज्ञातुं न शक्नोति स्म; सा अवसादवशा (frustrated) अभवत् । सलीबान् यदा चषकशब्दं पाठयितुं प्रयासं करोति स्म, तदा हेलेन् चषकम् एव अत्रोटयत् [१७] । एकमासं यावत् सलीबान् नितरां प्रयासान् अकरोत् । ततः अप्रैल-मासे हेलेन इत्यस्याः किञ्चिद् ज्ञानम् अभवत् । तया शिक्षिकायाः चेष्टायाः माध्यमेन ज्ञातं यत्, शिक्षिका तस्याः हस्ते किमपि लिखन्ती अस्ति इति । ततः शिक्षिका एकस्मिन् हस्ते जलधारं करोति स्म, अपरस्मिन् हस्ते "water" इति लिखित्वा बोधयितुं प्रयासं करोति स्म ।

परन्तु एतत् सर्वम् एतावत् सरलं नासीत् । रोगस्य कारणेन हेलेन इत्यस्याः स्वभावः हठी जातः आसीत् । लघ्वीषु घटनासु अपि सा क्रोधं करोति स्म । अन्यस्य कथनानुसारं तु सा कदापि न करोति स्म । हेलेन रोगग्रस्ता आसीत्, अतः पितरौ अपि तां किमपि न कथयतः स्म । यदा कस्मिँश्चित् विषये हेलेन क्रोधं करोति स्म, तदा तस्याः माता येन केन प्रकारेण तां प्रसन्नां कर्तुं यतते स्म । एवं हेलेन इत्यस्याः स्वभावः अतिक्रोधी, हठी च अभवत् । सा कदापि चमसेन भोजनं न करोति स्म, अपि तु हस्तेनैव भोजनं करोति स्म । यदि कोऽपि चमसेन भोजनं कर्तुं कथयति स्म, तर्हि सा चमसमेव क्षिपति स्म । यदि कोऽपि अधिकम् आग्रहं कुर्यात्, तर्हि सा भूमौ अधिशायनं (लेट कर) कृत्वा दीर्घकालं यावत् रोदिति स्म [१८]

एवं सलीबान् इत्यस्याः कार्यम् अतिकठिनम् आसीत् । परन्तु सा प्रप्रथमात् दिनादेव हेलेन इत्येतस्यै आज्ञापालनस्य शिक्षणं यच्छति स्म । हेलेन इत्यस्याः क्रियाकलापान् सा मनोवैज्ञानिकदृष्ट्या पश्यन्ती आसीत् । अतः सा मनोवैज्ञानिकरीत्या एव हेलेन इत्यस्याः व्यवहारपरिवर्तनाय प्रयत्नं करोति स्म । एवं शनैः शनैः हेलेन इत्यस्याः ज्ञानम् अभवत् यत्, आविश्वं विभिन्नैः वस्तुभिः परिपूर्णम् अस्ति । तथा च सर्वेषां वस्तूनां यत्किमपि नाम अवश्यं भवति इति ।

अनौपचारिकं शिक्षणम्[सम्पादयतु]

हेलेन केलर् यदा सलीबान् इत्यनया सह अनुकूला अभवत्, तदारभ्य तस्याः अनौपचारिकशिक्षणस्य आरम्भः अभवत् । मनोविज्ञानस्य ज्ञात्री सलीबान् जानाति स्म यत्, प्राकृतिके वातावरणे हेलेन केलर् आनन्देन पठितुं शक्नोति इति । अतः सा बहुधा नदीतटेषु, वृक्षछायायां च तां पाठयति सः । हेलेन इत्यस्यापि एतादृशे मुक्तवातावरणे मनः प्रफुल्लितं भवति स्म । शीत-ऊष्ण-वर्षाकालानां प्रशिक्षणं तया एवं प्राकृतिस्थानेषु स्थित्वैव प्राप्तम् । यदा ते पठनाय तिष्ठतः स्म, तदा सलीबान् तां परितः यत्किमपि जायमानम् आसीत्, तस्य वर्णनं हेलेन केलर् इत्यस्याः हस्ते सङ्केतमाध्येन लिखित्वा करोति स्म । ते होराः यावत् प्राकृतिकघटनायाः विषयेषु रते भवतः स्म । एवं कालान्तरे हेलेन इत्यस्याः ज्ञानम् अभवत् यत्, पक्षी स्वनीडं कथं निर्माति, तथा च पक्षी स्वोदरपोषणाय भोजनं कथं क्रोडीकरोति इत्यादि [१९]

शनैः शनैः हेलेन मुद्रणाक्षरैः (ब्रेल-लिपिः) लेखनम् अपि आरब्धवती । सा स्वमित्राणि पत्राणि लिखति स्म । आरम्भकाले तस्याः वाक्यानि अपूर्णानि, लघूनि च भवन्ति स्म । परन्तु वर्षाभ्यान्तरे एव तस्याः लेखनशैल्यां विकासे सति सा दीर्घपत्राणि अपि अलिखत् । अष्टवर्षीयायाः अन्धायाः, बधिरायाः, मूकायाश्च बालिकायाः पत्रलेखनादिक्रियाकलापानि जनेषु कौतुहलम् अजनयन् । भाषायाः समान्ये ज्ञाने प्राप्ते सति हेलेन अन्यविषयाणां ज्ञानं प्राप्तुं प्रयत्नम् अकरोत् । सर्वेषु विषयेषु सत्सु अपि तस्याः रुचिः गणितविषये अवर्धत । सा होराः यावत् गणनकार्ये व्यस्ता भवति स्म । एकदा एकस्य उदाहरणस्य उत्तरं बहु प्रयत्ने कृते सत्यपि सा न प्रापत् । अतः सा शिक्षिकाम् उपगम्य मार्गदर्शनम् अयाचत् । परन्तु अन्नी सलीबान् हेलेन इत्येताम् अवदत्, "त्वं स्वयमेव चिन्तय । यदि अधुना न भवति, तर्हि त्यज, पश्चात् भविष्यति" इति । शिक्षिकायाः वचनं श्रुत्वापि हेलेन इत्यस्याः मनसि सन्तोषः नाभवत् । सा होराः यावत् उदाहरणस्य उत्तरं प्राप्तुं प्रयत्नरता आसीत् । ततः उत्तरं सम्प्राप्य एव सा सन्तोषं प्रापत् [२०]

औपचारिकं शिक्षणम्[सम्पादयतु]

१८८८ तमस्य वर्षस्य मई-मासस्य आरम्भे 'पर्किझ् स्कूल् फॉर् द ब्ल्यैण्ड्'-विद्यालये हेलेन प्रवेशं प्रापत् । १८९४ तमे वर्षे हेलेन, सलीबान् च न्यू यॉर्क्-महानगरम् अगच्छताम् । तत्र चतुर्दशवर्षीयायाः हेलेन इत्यस्याः प्रवेशः 'राईट् ह्युमसन् स्कूल् फॉर् द डेफ्'-आख्ये विद्यालये अभवत् । तस्मिन् विद्यालये सा लैटिन्-भाषां, फ्रेञ्च्-भाषां, जर्मन्-भाषां च अपठत् । हेलेन् बधिरा आसीत्, अतः अन्नी सलीबान् तया सह स्थित्वैव हेलेन् इत्यस्याः पठने साहाय्यं करोति स्म । शिक्षिका यत्किमपि पाठयति स्म, तत्सर्वं अन्नी अलीबान् इत्येषा हेलेन् इत्यस्याः हस्ते लिखित्वा तां बोधयति स्म । अन्याः अध्यापिकाः अपि व्यक्तिगतरीत्या तयोः साहाय्यं कुर्न्वन्ति स्म ।

सामान्यतया बधिराः मूकाः अपि भवन्ति । यतः ते अन्येषां ध्वनिं श्रोतुं न शक्नुवन्ति । यदा ते अन्यान् वदतः पश्यन्ति, तदा ते वक्तॄणाम् ओष्ठकम्पनस्य शैलीम् अनुसृत्य वक्तुं प्रयासं कुर्वन्ति । परन्तु हेलेन् केलर् बधिरा, मूका च आसीत्, सा अन्धा अपि आसीत् । अतः सा अन्येषाम् अनुकरणं कृत्वा वदेत् इत्यस्य सम्भावना नासीत् । सा बहुवारं वक्तुं प्रयासं करोति स्म, परन्तु सर्वदा निष्फला भवति स्म । एकदा अन्नी सलीबान् ताम् अवदत्, "वक्तुं व्यर्थप्रयासं मा कुरु, तव शक्तिः तत्रैव गच्छति । अन्येषु कार्येषु ध्यानं यच्छ, यत् त्वं कर्तुं शक्नोषि" इति । शिक्षिकायाः वचनं श्रुत्वा कदाचित् हेलेन हतोत्साहिनी अपि भवेत् । परन्तु तथापि सा पौनःपुन्येन वक्तुं प्रयासं करोति स्म । तस्याः प्रयासान् दृष्ट्वा अन्नी सलीबान् तां नीत्वा 'होरस् मन् स्कूल् फोर् द डेफ्'-विद्यालयम् अगच्छत् । तत्र सराह् फुलर् इत्यनया सह तयोः सम्पर्कः अभवत् । सराह् फुलर् ओष्ठयोः कम्पनमाध्यमेन पाठयितुं निष्णाता आसीत् । सा पाठकस्य हस्तं स्वस्याः मुखमण्डले स्थापयित्वा जिह्वायाः, ओष्ठयोः च स्थितिं बोधयति स्म । जिह्व्योष्ठस्य तस्याः स्थित्याः माध्यमेन पाठकाः अक्षराणाम् उच्चारणं कर्तुं शक्नुवन्ति स्म । सराह् फुलर् इत्येषा हेलेन् केलर् इत्येताम् एकादशसु सत्रेषु प्रशिक्षणम् अयच्छत् । ततः हेलेन् लघुवाक्यं निर्माय वचनम् आरभत । तस्याः स्वप्नः आसीत् यत्, सा वदेत् इति, तत् स्वप्नं पूर्णम् अभवत् । सा आदिनं वक्तुम् अभ्यासं करोति स्म । सा षड्वर्षं यावत् सततं परिश्रमं कृत्वा, अन्ततो गत्वा योग्यरीत्या वक्तुम् अभ्यस्ता अभवत् । शनैः शनैः सा सभासु, कार्यक्रमेषु च भाषणम् अपि आरब्धवती । तया वाग्शक्तौ एतावत् नैपुण्यम् अर्जितं यत्, तस्याः वचनैः श्रोतारः मन्त्रमुग्धाः भवन्ति स्म ।

१८९६ तमे वर्षे ते मस्सक्यूसेट्स्-नगरं प्रत्यच्छताम् । तत्र केलर् 'द केम्ब्रिज् स्कूल् ऑफ् वेस्टर्न्'-नामके महाविद्यालये अभ्यासार्थं सँल्लग्ना । १९०० तमे वर्षे केलेरन् 'रेडक्लिफ्'-महाविद्यालये प्रवेशं प्रापत् । तदा सा ब्रिक्स् हॉल्-इत्यस्य साउथ् हाउस्-नामके स्थले निवसिति स्म ।

१९०२ तमे वर्षे यदा हेलेन् इत्यस्याः अध्ययनं चलदासीत्, तदैव तस्याः जीवन्याः "मम जीवनस्य कथा" इति पुस्तकं प्रकाशितम् अभवत् । आविश्वं हेलेन् इत्यस्याः पठनकलायाः, उन्नत्याः च समाचाराः प्रकाशिताः भवन्ति स्म । समाचारपत्रेषु, समाचारसंस्थासु च तस्याः जीवन्याः प्रेरककथाः मुद्रिताः भवन्ति स्म । हेलेन् इत्यस्याः व्यक्तित्वेन अनेके जनाः प्रभाविताः आसन् । तेषु महाराज्ञी विक्टोरिया, यूनान-देशस्य सम्राज्ञी अपि अन्तर्भवतः । महाराज्ञी विक्टोरिया "हेलेन्" इत्येताम् "अद्भुतबालप्रतिभा", "बॉस्टन्-नगरस्य आश्चर्यम्" इति कथयति स्म । अमेरिका-देशस्य सर्वाधिकतीक्ष्णबुद्धियुक्तासु बालिकासु सा अन्यतमा अस्ति इति आदेशं मान्यता आसीत् । हेलेन् केलर् इत्यस्याः सफलतायाः पृष्ठे तस्याः अध्यापिकायाः अन्नी सलीबान् इत्यस्याः अपि बहुधा प्रशंसा अभवत् । हेलेन् केलर् स्वाध्यापिकायाः जीवनीं लेखितुम् इच्छुका आसीत्, परन्तु द्वितीयविश्वयुद्धस्य आरम्भे सति सा सैन्यसेवायां व्यस्ता अभवत् । ततः तया समाजसेवायाः दायित्वं स्वीकृतम् [२१]

१९०४ तमे वर्षे चतुर्दशवर्षणां वयसि केलर् 'रेड्क्लिफ्'-महाविद्यालयात् स्नातकपदवीं प्रापत् । आविश्वं सा प्रप्रथमा बधिरा, अन्धा च व्यक्तिः आसीत्, यया साहित्यविषये स्नातकपदवी अर्जिता । सा ऑस्ट्रेलिया-देशस्य दार्शिनिकस्य पेड्गोग् इत्यस्य सम्पर्के आसीत् । सः प्रप्रथमवारम् अजानात् यत्, एतया महिलया साहित्यक्षेत्रे एतावत् उत्कृष्टं स्थानं प्राप्तम् अस्ति इति [२२]

महाविद्यलाये यदा केलर् अध्ययनं करोति स्म, तदा तया अनेकानि कष्टानि सोढितानि । अभ्यासक्रमस्य अनेकानि पुस्तकानि ब्रेल-लिप्याम् अनुपलब्धानि आसन् । अतः तया स्वयमेव शब्दविन्यासादिकार्याणि करणीयानि भवन्ति स्म । कठिनशब्दान् अवगन्तुं मार्गदर्शनस्य अभावः अपि आसीत् । बहुधा तु तस्याः सहविद्यार्थिन्यः बहिः क्रीडितुं गच्छन्ति स्म, तथापि हेलेन् पठने व्यस्ता भवति स्म । एवम् आवर्षं कठोरपरिश्रमं कृत्वा सा स्नातकपदवीं प्रापत् [२३]

अध्ययनक्षेत्रस्य सफलता केवलं प्रत्यक्षं साफल्यम् आसीत्, ततोऽपि अधिका सफलता हेलेन् केलर् इत्यनया प्राप्ता आसीत् । पञ्चषवर्षेषु प्राक् या बालिका न केनापि सह सम्पर्कं कर्तुं समर्था आसीत्, कानिचन वर्षाणि कठोरपरिश्रमं कृत्वा सा अन्यैः सह सुदृढं प्रत्यायनं कर्तुं समर्था अभवत् । तया बहुधा भाषणानि, अध्यापनं च कृतम् । अन्येषां जनानां वचनं सा अवच्छति स्म, यतो हि ओष्ठयोः स्थित्याः अभ्यासः बहुधा जातः आसीत् । तस्याः स्पर्शेन्द्रियम् अतिप्रबलं, सूक्ष्मज्ञानग्राहि च अभवत् । ब्रेल्-लिपिपठने सा एतावती विचक्षणा अभवत् [२४] यत्, सहसा अन्यस्य कथनम् अवगम्य प्रत्युत्तरं यच्छति स्म । स्वहस्तैः साङ्केतिकभाषायाः पठने अपि सा अति कौशल्यम् आर्जयत् । विश्वयुद्धस्य कतिचद्भ्यः दिनेभ्यः प्राक् 'झोलर् कौर्ट्ट्' इत्यस्मात् साधनात् यत् सङ्गीतं निर्गच्छति स्म, तस्य सङ्गीतस्य आनन्दं सा समीपस्थायाम् उत्पीठिकायां हस्तं संस्थाप्य स्वीकरोति स्म [२५]

सहचराः[सम्पादयतु]

अन्नी सलीबान् सर्वाधिकं हेलेन् केलर् इत्यनया सह वासम् अकरोत् । सा हेलेन् इत्येतां यावत् पाठयति स्म, तावत् तु हेलेन् इत्यनया सह आसीत्, अपि तु ततः दीर्घकालं यावत् सा हेलेन् इत्यनया सह सहचारिणीत्वेन न्यवसत् । १९०५ तमे वर्षे अन्नी सलीबान् जॉन् मस्रि-आख्येन युवकेन सह विवाहम् अकरोत् । ततः १९१४ तमे वर्षे अन्नी सलीबान् इत्येषा अपि अस्वस्थ्या अभवत् । अतः पॉलि थॉमस्-आख्या कर्मचारिणी हेलेन् इत्यस्याः सेवायां नियुक्ता [२६] । एवं हेलेन् इत्यनया सह अन्नी सलीबान्, पॉलि थॉमस् इत्येते सहचारिण्यौ आस्ताम् ।

अन्नी सलीबान्, पॉलि थॉमस् इत्येताभ्यां हेलेन् फोरेस्ट् हिल्स्-आख्यं पत्तनम् अगच्छत् । तत् पत्तनं न्यू यॉर्क्-महानगरस्य समीपे विद्यते । तत्र स्टेशन् स्क्वेर्-आख्ये गृहे निवस्य ताः मुकेभ्यः, बधिरेभ्यश्च कार्यं प्रारभन्त । तत्र हेलेन् केलर् इत्यनया "अमेरिकन् फाउन्डेशन् फॉर् द ब्लैण्ड्'-आख्यायाः संस्थायाः स्थापना कृता [२७]

१९३६ तमे वर्षे अन्नी सलीबान् इत्यस्याः मृत्युः अभवत् । अन्नी सलीबान् दीर्घमूर्च्छायाम् एव प्राणान् अत्यजत् । यदा सा शरीरम् अत्यजत्, तदा हेलेन् केलर् तस्याः हस्तं स्वहस्ते स्वीकृत्य तस्याः निकटे एव स्थिता आसीत् [२८] । ततः हेलेन्, पॉलि च कनेक्टिकट्-राज्ये स्थानान्तरम् अकुरुताम् । ते आविश्वं भ्रमित्वा (भ्रान्त्वा) अन्धेभ्यः दानं क्रोड्यकुरुताम् । १९५७ तमे वर्षे पॉलि इत्येतस्याः हृदयाघातः अभवत् । तेन आघातेन तस्य मृत्युः तु नाभवत् । परन्तु ततः तस्याः जीवनं पूर्ववत् सामान्यम् अपि नासीत् । सा दीर्घकालीनायां रुग्णावस्थायाम् अपतत् । अन्ततो गत्वा सा १९५७ तमे वर्षे शरीरम् अत्यजत् [२]

पॉलि इत्यस्याः रुग्णावस्थायाः काले वेन्नी कॉर्बि-आख्यायाः परिचारिकायाः (nurse) नियुक्तिः १९५७ तमे वर्षे अभवत् । सा एव परिचारिका पॉलि इत्यस्याः निधनानन्तरम् आजीवनं हेलेन् कलेर् इत्यस्याः सहचारिणी आसीत् [२]

राजनीतिक्षेत्रे योगदानम्[सम्पादयतु]

१९०४ तमे वर्षे हेलेन् केलर् इत्यस्याः चित्रम् । एतस्मिन् हेलेन् इत्यस्याः वामाक्षिः उत्कीर्णम् (Protruding) अस्ति । हेलेन् केलर् इत्यस्याः व्यक्तिववरणे (profile) सामान्यतया एतत् चित्रम् एव दरीदृश्यते । "सौन्दरप्रसाधकत्वेन, वैद्यकीयकारणैश्च" प्रौढावस्थायां तस्याः उभे अक्षिणी काचस्य अक्षिभ्यां परिवर्तते [२९]

वक्तृत्वेन, लेखिकात्वेन च केलर् विश्वस्तरे प्रसिद्धा अभवत् । ये जनाः अन्धजनेभ्यः कार्यम् अकुर्वन्, तेषाम् आवल्यां तस्याः नाम अन्तरभवत् । सा महिलामताधिकारस्य, शान्तेः च पक्षधरा आसीत् । सा वुडरो विल्सन्-आख्यस्य राजनीतिज्ञस्य प्रतिद्वद्विनी आसीत् । सा समाजसेवां, जनसङ्ख्यानियन्त्रस्य कृते कार्यं च करोति स्म । १९१५ तमे वर्षे ज्योर्ज् केसलर् इत्यनेन सह मिलित्वा हेलेन् केलर् इन्टर्नेशनल्-संस्थायाः स्थापनाम् अकरोत् । सा संस्था स्वास्थ्यसम्बद्धेषु विषये, दृष्टिसम्बद्धेषु विषये, पौष्टिकाहारस्य विषयेषु च संशोधनं करोति । १९२० तमे वर्षे सा 'अमेरिकन् सिविल् लिबर्टि युनियन्'-संस्थायाः रचनाकार्ये साहाय्यम् अकरोत् । सा चत्वारिशत् देशानां यात्राम् अकरोत् । सा वारं वारं जापान-देशस्य यात्राम् अकरोत् । अतः जपान्-देशीयेषु सा प्रसिद्धा अभवत् । हेलेन् केलर् संयुक्तराष्ट्र-अमेरिका-देशस्य राष्ट्रपतिभिः सह मैत्रीम् अकरोत् । अमेरिका-देशस्य अतिप्रसिद्धजनेषु अधिकतमजनैः सः तस्याः मैत्रीम् आसीत् । तेषु एलेक्झाण्डर् अब्राहम् बेल्, चार्लि चेप्लिन्, मार्क् ट्विन् अन्तर्भवन्ति । हेलेन्, मार्क् ट्विन् च विंशतितमाब्दस्य आरम्भे राजनीतिपरिवर्तकत्वेन परिगण्येते स्म [३०]

हेलेन् सोसियलिस्ट् पार्टि ओफ् अमेरिका-पक्षस्य सदस्या आसीत् । १९०९ तः १९२१ पर्यन्तं सा अनेकान् लेखान् अलिखत् । सोसियलिस्ट् पार्टि ओफ् अमेरिका-पक्षस्य एगेन् वि. डेब्स् इत्यस्य सा समर्थनम् अकरोत् [३१]

१९१२ तमे वर्षे हेलेन् केलर् इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्-संस्थया सह संल्लग्ना [३०] । १९१६-१९१८ मध्ये सा आई डब्ल्यू डब्ल्यू (इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्) कृते लेखान् अलिखत् । तेषु एकस्मिन् लेखे सा अवर्णयत् यत्, किमर्थँ सा आई डब्ल्यू डब्ल्यू-संस्थया सह संल्लग्ना अस्ति इति । तस्याः लेखस्य नाम Why I Became an IWW[३२] आसीत् । सा अवर्णयत् यत्, तस्याः अन्धत्वम् अन्यविकलाङ्गता च तस्यै प्रेरणास्रोतः अस्ति ।

लेखनम्[सम्पादयतु]

१९१२ तमे वर्षे हेलेन् केलर्

हेलेन् केलर् १२ पुस्तकानि, अनेकान् लेखान् च अलिखत् ।

  1. द फ्रॉस्ट किङ्ग : इ.स. १९८१ तमे वर्षे हेलेन् यदा ११ वर्षीया आसीत्, तदा सा 'द फ्रॉस्ट किङ्ग'-पुस्तकम् अलिखत् । एतस्याः रचनायाः कृते आरोपः अभवत् यत्, एषा कथा साहित्यिकचौर्यम् आसीत् । यतः 'द फ्रॉस्ट फेअरीज' इत्यस्य कथानकं मार्गरेट कॅनबी इत्यस्य पुस्तकात् स्वीकृतम् आसीत् । ततः अन्वेषणेन ज्ञातं यत्, मार्गरेट् कॅनबी इत्यस्य कथानकं हेलेन् इत्यस्याः अन्तर्मनसि विस्थापितम् अभवत् । तेन तस्याः मनसि कथां प्रति अभेदः समुत्पन्नः यत्, एषा कथा मम उत अन्यस्य वा इति [२]
  2. द स्टोरी ऑफ माय लाइफ : १९०३ तमे वर्षे हेलेन् केलर् यदा २२ वर्षीया आसीत्, तदा स्वस्याः आत्मकथां 'द स्टोरी ऑफ माय लाइफ'-पुस्तके अलखित् । सुलीवान इत्यस्याः कृते तस्याः पत्युः जॉन मेसी इत्यस्य साहाय्येन अलिखत् । सा आत्मकथा यदा सा २१ वर्षीया आसीत्, तदारभ्य तया लिख्यमाना आसीत् ।
  3. द वर्ल्ड आय लिव इन : १९०८ तमे वर्षे केलर यत् 'द वर्ल्ड आय लिव इन'-पुस्तकम् अलखित्, तस्मिन् सा किं चिन्तयन्ती आसीत् ? इत्यस्य वर्णनं कृतम् अस्ति । १९१३ तमे वर्षे 'आऊट ऑफ द डार्क' इत्यस्य प्रकाशनमालिकायां तत् पुस्तकं प्राकाशयत् सा ।

अकिता कूक्कूरः[सम्पादयतु]

१९३७ तमस्य वर्षस्य जुलाई-मासे यदा हेलेन् केलर् जापान-देशस्य अकिरा-आख्यं प्रभागम् (Akita Prefecture) अगच्छत्, तदा हचिको-प्रजातेः कुक्कुरम् उपहारत्वेन प्रापत् । १९३७ तमस्य वर्षस्य जुलाई-मासे यदा हेलेन् केलर् जापान-वासिना एकेन अकिता-प्रजातेः कुक्कुरः उपहारत्वेन प्रदत्तः, तदा सा हचिको इत्याख्यस्य कुक्कुरविषये अपृच्छत् । परन्तु हचिको इत्याख्यस्य कुक्कुरस्य मृत्युः १९३५ तमे वर्षे एव जातः आसीत् । सा एकं जनं न्यवेदयत् यत्, सा अपि एतादृशं कुक्कुरम् इच्छति इति । तस्याः निवेदनं सत्कृत्य कामिकाझे गो इत्याख्यः कुक्करः हेलेन् इत्यस्यै उपहारत्वेन प्रदत्तः जापान-सर्वकारेण । परन्तु विषाणुजन्यरोगेण ग्रस्तत्वात् सः कुक्कुरः स्वल्पकाले एव मृतः । १९३८ तमस्य वर्षस्य जुलाई-मासे जापान-सर्वकारः कामिकाझे गो इत्याख्यस्य कुक्करस्य ज्येष्ठसहोदरम् उपहारत्वेन हेलेन् इत्यस्यै अयच्छत् । तस्य कुक्कुरस्य नाम केन्झन गो इति आसीत् । अमेरिका-देशे हेलेन् यदा तं कुक्कुरम् अनयत्, तदा तस्मिन् देशे अकिरा-प्रजातेः कुक्कुरं प्रति जागरूकतायाः वातावरणं समुद्भूतम् ।

मृत्युः [३३][सम्पादयतु]

सा जीवनस्य चरमेषु चतुर्षु वर्षेषु अति रुग्णा आसीत् । तेषु वर्षद्वयं तु सा पर्यङ्के शयिता एव आसीत् । १९६८ तमस्य वर्षस्य जून-मासस्य सप्तदशे (१७/०६/१९६८) दिनाङ्के हृदयाघातेन तस्याः निधनम् अभवत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ १.२ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १२६. ISBN 81/7043-405-X. 
  2. २.० २.१ २.२ २.३ "The life of Helen Keller". Royal National Institute of Blind People. November 20, 2008. Archived from the original on June 7, 2007. आह्रियत January 22, 2009. 
  3. "हेलेन केलर इत्यनयाः विषये सामान्याः प्रश्नाः". Perkins School for the Blind. आह्रियत December 25, 2010. 
  4. "Helen Keller Birthplace - LW". helenkellerbirthplace.org. 
  5. "Inductees". Alabama Women's Hall of Fame. State of Alabama. आह्रियत February 20, 2012. 
  6. "जन्मस्थानम्". आह्रियत May 3, 2013. 
  7. ७.० ७.१ Nielsen, Kim E. (2007). "The Southern Ties of Helen Keller". Journal of Southern History 73 (4). 
  8. "Helen Keller Birthplace". आह्रियत May 3, 2013. 
  9. "Helen Keller Kids Museum – Ask Keller". Archived from the original on March 3, 2016. आह्रियत July 16, 2014. 
  10. "Arthur H. Keller". Encyclopedia of Alabama. Archived from the original on July 26, 2011. आह्रियत March 7, 2010. 
  11. Herrmann, Dorothy; Keller, Helen; Shattuck, Roger (2003). The Story of my Life: The Restored Classic. pp. 12–14. ISBN 978-0-393-32568-3. आह्रियत May 14, 2010. 
  12. "Kate Adams Keller". American Foundation for the Blind. Archived from the original on April 9, 2010. आह्रियत March 7, 2010. 
  13. "Charles W. Adams (1817–1878) profile". Findagrave.com. आह्रियत August 11, 2009. 
  14. Helen Keller. "The Story of My Life". Project Gutenberg. p. 11. आह्रियत March 7, 2010. 
  15. "Helen Keller Biography". American Foundation for the Blind.  Unknown parameter |access-date= ignored (help)
  16. Worthington, W. Curtis. A Family Album: Men Who Made the Medical Center (Medical University of South Carolina ed.). ISBN 978-0-87152-444-7. 
  17. Wilkie, Katherine E. Helen Keller: Handicapped Girl. Indianapolis, IN: Bobbs-Merrill. 
  18. डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १२८. ISBN 81-7043-405-X. 
  19. डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १२९. ISBN 81-7043-405-X. 
  20. डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १३०. ISBN 81-7043-405-X. 
  21. डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १३२. ISBN 81-7043-405-X. 
  22. Herbert Gantschacher "Back from History! – The correspondence of letters between the Austrian-Jewish philosopher Wilhelm Jerusalem and the American deafblind writer Helen Keller", Gebärdensache, Vienna 2009, p. 35ff.
  23. डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १३१. ISBN 81-7043-405-X. 
  24. Specifically, the reordered alphabet known as American Braille
  25. "First Number Citizens Lecture Course Monday, November Fifth", The Weekly Spectrum, North Dakota Agricultural College, Volume XXXVI no. 3, November 7, 1917.
  26. "The Life of Helen Keller". Graceproducts.com. आह्रियत August 24, 2010. 
  27. "संग्रह प्रतिलिपि". Archived from the original on 2012-12-31. आह्रियत 2015-04-17. 
  28. Herrmann, p. 255.
  29. Herrmann, Dorothy. Helen Keller: A Life. New York, NY: Knopf. ISBN 978-0-679-44354-4. 
  30. ३०.० ३०.१ Loewen, James W. (1996) [1995]. Lies My Teacher Told Me: Everything Your American History Textbook Got Wrong (Touchstone Edition ed.). New York, NY: Touchstone Books. pp. 20–22. ISBN 978-0-684-81886-3. 
  31. "Wonder Woman at Massey Hall: Helen Keller Spoke to Large Audience Who Were Spellbound.". Toronto Star Weekly. January 1914. आह्रियत 31 October 2014. 
  32. "Why I Became an IWW" in Helen Keller Reference Archive from An interview written by Barbara Bindley date=January 2013, published in the New York Tribune, January 16, 1916
  33. डॉ लालबहादूर चौहान (२००५). विश्व की गौरवशाली नारियाँ. आत्माराम एण्ड सन्स्. p. १२६-१३४. ISBN 81-7043-409-X Check |isbn= value (help). 

अधिकवाचनाय[सम्पादयतु]

  • Brooks, Van Wyck. (1956) Helen Keller Sketch for a Portrait (1956)
  • Joseph P. Lash|Lash, Joseph P. (1980) Helen and Teacher: The Story of Helen Keller and Anne Sullivan Macy . New York, NY: Delacorte Press. ISBN 978-0-440-03654-8
  • Einhorn, Lois J. (1998) Helen Keller, Public Speaker: Sightless But Seen, Deaf But Heard (Great American Orators)
  • Harrity, Richard and Ralph G. Martin. (1962) The Three Lives of Helen Keller
  • Herrmann, Dorothy (1998) Helen Keller: A Life. New York, NY: Alfred A. Knopf. ISBN 978-0-679-44354-4
  • "Keller, Helen Adams". World Encyclopedia. Philip's. Oxford Reference Online. Oxford University Press. University of Edinburgh. 2008. आह्रियत February 10, 2012. 

मुख्यस्रोतः[सम्पादयतु]

  • Keller, Helen with Anne Sullivan and John A. Macy (1903) The Story of My Life. New York, NY: Doubleday, Page & Co.
  • विश्व की गौरवशाली नारियाँ

इतिहासविद्या[सम्पादयतु]

  • Amico, Eleanor B., ed. Reader's Guide to Women's Studies ( Fitzroy Dearborn, 1998) pp328–29

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हेलेन्_केलर्&oldid=481155" इत्यस्माद् प्रतिप्राप्तम्