हेलेन् केलर्
हेलेन् केलर् Helen Keller | |
---|---|
कनकचम्पापुष्पं (magnolia) धृतवती हेलेन केलर (१९२०) | |
जननम् |
हलेन् एड्मन्स् केलर् २७, १८८० तुस्कम्बिया, अलाबामा, यु एस् ए |
मरणम् |
१, १९६८ एस्टोन्, कनेक्टिकट्, यु एस् ए | (आयुः ८७)
वृत्तिः | लेखिका, राजनीतिज्ञा, प्राध्यापिका |
विद्याभ्यासः | रेड्क्लिफ् कॉलेज् |
| |
हस्ताक्षरम् |
हेलेन एड्मन्स् केलर ( ( शृणु) /ˈhɛlən kɛlər/) (हिन्दी: हेलेन् केलर्, आङ्ग्ल: Hellen Keller) अन्धा, बधिरा, मूका चासीत् । परन्तु सा अन्येभ्यः मूकबधिरान्धेभ्यः, सामान्यनागरिकेभ्यश्च प्रेरणायाः स्रोतः आसीत् । यतो हि ज्ञानेन्द्रियविहीना हेलेन केलर स्वप्रयत्नैः, अविरतकार्यैः च विश्वस्मिन् अनेकानि कठिनतमानि कार्याणि अकरोत् [१] ।
अमेरिका-देशीया हेलेन केलर लेखिका, राजनीतिज्ञा, प्राध्यापिका चासीत् । सा प्रप्रथमा मूका, बधिरा च व्यक्तिः आसीत्, यया स्नातकपदवी प्राप्ता [२][३] । तुस्कुम्बिया-नगरस्य पश्चिम-भागे यत्र हेलेन इत्यस्याः जन्म अभवत्, तत्र सद्यः एकः सङ्ग्रहालयः (museum) वर्तते [४] । हेलेन केलर इत्यस्याः जन्मदिने जून-मासस्य सप्तविंशतितमे (२७) दिनाङ्के अमेरिका-देशस्य पेन्सिलवेनिया-राज्ये हेलेन केलर-दिनस्य आचरणं भवति । हेलेन केलर-दिनस्य आधिकारिकघोषणा जिम्मि कार्टर्-आख्येन राष्ट्रपतिना १९८० तमे वर्षे कृता, तत् वर्षं हेलेन केलर इत्यस्याः जन्मशताब्दीवर्षम् आसीत् ।
उत्तमा लेखिका केलर् बहुयात्रिणी, मुखरा, दृढमनस्विनी चासीत् । सोसियलिस्ट् पार्टि ऑफ् अमेरीका-पक्षस्य, इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्-संस्थायाः सदस्या सा महिलामताधिकाराय, कर्मकराधिकाराय, समाजवादाय च अभियानानि अकरोत् । १९१७ तमे वर्षे सा Alabama Women's Hall of Fame इत्स्याः संस्थायाः सदस्या अभवत् [५] ।
जन्म, बाल्यञ्च
[सम्पादयतु]१८८० तमस्य वर्षस्य जून-मासस्य सप्तविंशतितमे (२७/६/१९८०) दिनाङ्के अमेरिका-संयुक्तराष्ट्रस्य अलाबामा-राज्यस्य तुस्कम्बिया-नगरे हेलेन केलर इत्यस्याः जन्म अभवत् [१][६] ।
दशवर्षेभ्यः प्राक् हेलन इत्यस्याः पितामही 'ल्वि ग्रीन्'-आख्यस्य गृहस्य निर्माणम् अकारयत् [७] । तस्मिन् गृहे एव हेलन् इत्यस्याः परिवारः निवसति स्म [८] । तस्याः चत्वारः बान्धवाः आसन् । तेषु द्वौ अनुजौ, द्वौ अग्रजौ च । अनुजयोः नाम क्रमेण मिल्ड्रेड् केम्बल्, फिलिप् ब्रूक्स् च आसीत् । तस्याः विमातुः (तस्याः पितुः पूर्वपत्नी) द्वौ पुत्रौ अर्थात् तस्य अग्रजौ जेम्स्, विलियम् च [९] ।
तस्याः पिता आर्थर् एच् केलर,[१०] तुस्कुम्बिया-राज्ये सम्पादकत्वेन कार्यं करोति स्म । सः अमेरिका-देशस्य सेनायाम् अपि दायित्वं स्वीकृतवान् आसीत् [७] । हेलेन इत्यस्याः पितामह्याः पितृव्यपुत्री रॉबर्ट् ई. ली आसीत् [११] । हेलेन इत्यस्याः माता केट् एडम्स्[१२] चार्लेस् एडम्स् इत्यस्य पुत्री आसीत् [१३] । अमेरिका-देशस्य गृहयुद्धकाले अमेरिका-देशस्य सैन्यबले चार्लेस् एडम्स् नियुक्तः आसीत् । सः गृहयुद्धं शमयितुं युद्धम् अपि अकरोत् । सेनायां तस्य योग्यतायाः आधारेण सः उच्चपदं प्रापत् । सः ब्रिगेडियर् जनरल् इति पदमारूढः आसीत् ।
यदा हेलेन केलर् इत्यस्याः जन्म अभवत्, तदा सा श्रोतुं, द्रष्टुं च शक्नोति स्म । शैशवावस्थायाम् एव हेलन स्वतीक्ष्णबुद्ध्याः परिचयम् अकरायत् । यदा सा षण्मासीया आसीत्, तदारभ्य एव सा वचनम् आरब्धवती । प्रप्रथमजन्मदिवसे एव सा चलनम् अपि आरभत [१४] । परन्तु यदा सा एकोनविंशतिमासीया अभवत्, तदा सा अज्ञात-रोगेण ग्रस्ता [१] । रोगस्य विषये वैद्यानां कथनम् आसीत् यत्, "उदरे, मस्तिष्के च एकस्य तीव्रभारस्य आघातः अभवत्", तेन मस्तिष्कावरणे शोथः (swelling) अभवत् । सः रोगः स्कार्लेट्-ज्वरः आसीत् [१५] । यद्यपि सः रोगः अत्यन्तः घातकः आसीत्, तथापि तस्याः जीवनस्य रक्षणम् अभवत् । परन्तु जीवने रक्षिते सत्यपि तस्याः जीवनस्य आधारः तु रोगेण नाशितः । यदा रोगाघातः अभवत्, तदा सा मार्थर् वॉशिङ्गटन् इत्यनेन सह संवादरता आसीत् ।
यावत् हेलेन षड्वर्षीया अभवत्, तावत् तस्याः जीवने अन्धकारस्य स्थितिः आसीत् । १८८६ तमे वर्षे हेलेन् इत्यस्याः माता चार्ल्स् डिकेन्स्-नामकस्य लेखकस्य 'एमेरिकन् नोट्स्'-नामकं पुस्तकम् अपठत् । तस्मिन् पुस्तके उल्लिखितम् आसीत् यत्, लौरा ब्रिजमैन्-नामिका बालिका मूका, नेत्रहीना चास्ति, तथापि सा शिक्षणं प्राप्तुं शक्नोति इति । अतः सा स्वपतिना सह हेलेन इतीमां जे जुलियन् चिसोल्म्-आख्यस्य चिकित्सकस्य समीपं बाल्टिमोर-महानगरं प्रैषयत् । सः चिकित्सकः नेत्र-कर्ण-नासिका-कण्ठसम्बद्धानां रोगाणां विशेषज्ञः आसीत् [१६] । जुलियन् चिसोल्म् केलर इतीमां एलेक्झान्डर् अब्राहम् बेल् इत्येतस्य समीपं प्रैषयत् । यतो हि अब्राहम् बेल् तस्मिन् काले बधिरबालकेभ्यः निदानकार्यं करोति स्म । बेल् न्यवेदयत् यत्, एतस्याः बालिकायाः कृते भवान् 'पर्किझ् स्कूल् फॉर् द ब्ल्यैण्ड्'-आख्यं विद्यालयं गच्छतु इति । तस्य विद्यालयस्य प्रबन्धकः माईकल् एनोगस् यदा कैलर् इत्यस्याः विषये अजानात्, तदा सः विंशतिवर्षीयाम् अन्नी सलीबान्-आख्यां शिक्षिकाम् अपृच्छत्, "भवती एतां पाठयिष्यति किम् ?" ततः सा केलर् इत्यस्याः गृहं गत्वा पाठयितुम् उद्यता अभवत् । एवं ४९ वर्षं यावत् लम्बमानस्य सम्बन्धस्य आरम्भः तदा अभवत् । यतो हि सलीबान् इत्येषा केलर् इत्यस्याः शिक्षिकात्वेन ४९ वर्षाणि कार्यम् अकरोत् ।
अन्नी सलीबान् १८८७ तमस्य वर्षस्य मार्च-मासे केलर् इत्यस्याः गृहं प्राप्तवती । यस्मिन् दिने सा तस्याः गृहं प्राप्तवती, तस्माद्दिनादेव केलर इत्यस्याः अध्ययनं प्रारब्धम् । प्रप्रथमे दिने सलीबान् हेलेन इत्यस्याः हस्ते "d-o-l-l" इति लिखित्वा तत्क्षणं पाञ्चालिकां (doll) तस्याः हस्ते अस्थापयत् । सा पाञ्चालिका सलीबान् इत्यस्याः पक्षतः केलर् इत्यस्यै उपहारः आसीत् । यतो हि केलर् कस्यचिद् वस्तुनः स्पर्शे कृते सत्यपि ज्ञातुं न शक्नोति स्म; सा अवसादवशा (frustrated) अभवत् । सलीबान् यदा चषकशब्दं पाठयितुं प्रयासं करोति स्म, तदा हेलेन् चषकम् एव अत्रोटयत् [१७] । एकमासं यावत् सलीबान् नितरां प्रयासान् अकरोत् । ततः अप्रैल-मासे हेलेन इत्यस्याः किञ्चिद् ज्ञानम् अभवत् । तया शिक्षिकायाः चेष्टायाः माध्यमेन ज्ञातं यत्, शिक्षिका तस्याः हस्ते किमपि लिखन्ती अस्ति इति । ततः शिक्षिका एकस्मिन् हस्ते जलधारं करोति स्म, अपरस्मिन् हस्ते "water" इति लिखित्वा बोधयितुं प्रयासं करोति स्म ।
परन्तु एतत् सर्वम् एतावत् सरलं नासीत् । रोगस्य कारणेन हेलेन इत्यस्याः स्वभावः हठी जातः आसीत् । लघ्वीषु घटनासु अपि सा क्रोधं करोति स्म । अन्यस्य कथनानुसारं तु सा कदापि न करोति स्म । हेलेन रोगग्रस्ता आसीत्, अतः पितरौ अपि तां किमपि न कथयतः स्म । यदा कस्मिँश्चित् विषये हेलेन क्रोधं करोति स्म, तदा तस्याः माता येन केन प्रकारेण तां प्रसन्नां कर्तुं यतते स्म । एवं हेलेन इत्यस्याः स्वभावः अतिक्रोधी, हठी च अभवत् । सा कदापि चमसेन भोजनं न करोति स्म, अपि तु हस्तेनैव भोजनं करोति स्म । यदि कोऽपि चमसेन भोजनं कर्तुं कथयति स्म, तर्हि सा चमसमेव क्षिपति स्म । यदि कोऽपि अधिकम् आग्रहं कुर्यात्, तर्हि सा भूमौ अधिशायनं (लेट कर) कृत्वा दीर्घकालं यावत् रोदिति स्म [१८] ।
एवं सलीबान् इत्यस्याः कार्यम् अतिकठिनम् आसीत् । परन्तु सा प्रप्रथमात् दिनादेव हेलेन इत्येतस्यै आज्ञापालनस्य शिक्षणं यच्छति स्म । हेलेन इत्यस्याः क्रियाकलापान् सा मनोवैज्ञानिकदृष्ट्या पश्यन्ती आसीत् । अतः सा मनोवैज्ञानिकरीत्या एव हेलेन इत्यस्याः व्यवहारपरिवर्तनाय प्रयत्नं करोति स्म । एवं शनैः शनैः हेलेन इत्यस्याः ज्ञानम् अभवत् यत्, आविश्वं विभिन्नैः वस्तुभिः परिपूर्णम् अस्ति । तथा च सर्वेषां वस्तूनां यत्किमपि नाम अवश्यं भवति इति ।
अनौपचारिकं शिक्षणम्
[सम्पादयतु]हेलेन केलर् यदा सलीबान् इत्यनया सह अनुकूला अभवत्, तदारभ्य तस्याः अनौपचारिकशिक्षणस्य आरम्भः अभवत् । मनोविज्ञानस्य ज्ञात्री सलीबान् जानाति स्म यत्, प्राकृतिके वातावरणे हेलेन केलर् आनन्देन पठितुं शक्नोति इति । अतः सा बहुधा नदीतटेषु, वृक्षछायायां च तां पाठयति सः । हेलेन इत्यस्यापि एतादृशे मुक्तवातावरणे मनः प्रफुल्लितं भवति स्म । शीत-ऊष्ण-वर्षाकालानां प्रशिक्षणं तया एवं प्राकृतिस्थानेषु स्थित्वैव प्राप्तम् । यदा ते पठनाय तिष्ठतः स्म, तदा सलीबान् तां परितः यत्किमपि जायमानम् आसीत्, तस्य वर्णनं हेलेन केलर् इत्यस्याः हस्ते सङ्केतमाध्येन लिखित्वा करोति स्म । ते होराः यावत् प्राकृतिकघटनायाः विषयेषु रते भवतः स्म । एवं कालान्तरे हेलेन इत्यस्याः ज्ञानम् अभवत् यत्, पक्षी स्वनीडं कथं निर्माति, तथा च पक्षी स्वोदरपोषणाय भोजनं कथं क्रोडीकरोति इत्यादि [१९] ।
शनैः शनैः हेलेन मुद्रणाक्षरैः (ब्रेल-लिपिः) लेखनम् अपि आरब्धवती । सा स्वमित्राणि पत्राणि लिखति स्म । आरम्भकाले तस्याः वाक्यानि अपूर्णानि, लघूनि च भवन्ति स्म । परन्तु वर्षाभ्यान्तरे एव तस्याः लेखनशैल्यां विकासे सति सा दीर्घपत्राणि अपि अलिखत् । अष्टवर्षीयायाः अन्धायाः, बधिरायाः, मूकायाश्च बालिकायाः पत्रलेखनादिक्रियाकलापानि जनेषु कौतुहलम् अजनयन् । भाषायाः समान्ये ज्ञाने प्राप्ते सति हेलेन अन्यविषयाणां ज्ञानं प्राप्तुं प्रयत्नम् अकरोत् । सर्वेषु विषयेषु सत्सु अपि तस्याः रुचिः गणितविषये अवर्धत । सा होराः यावत् गणनकार्ये व्यस्ता भवति स्म । एकदा एकस्य उदाहरणस्य उत्तरं बहु प्रयत्ने कृते सत्यपि सा न प्रापत् । अतः सा शिक्षिकाम् उपगम्य मार्गदर्शनम् अयाचत् । परन्तु अन्नी सलीबान् हेलेन इत्येताम् अवदत्, "त्वं स्वयमेव चिन्तय । यदि अधुना न भवति, तर्हि त्यज, पश्चात् भविष्यति" इति । शिक्षिकायाः वचनं श्रुत्वापि हेलेन इत्यस्याः मनसि सन्तोषः नाभवत् । सा होराः यावत् उदाहरणस्य उत्तरं प्राप्तुं प्रयत्नरता आसीत् । ततः उत्तरं सम्प्राप्य एव सा सन्तोषं प्रापत् [२०] ।
औपचारिकं शिक्षणम्
[सम्पादयतु]१८८८ तमस्य वर्षस्य मई-मासस्य आरम्भे 'पर्किझ् स्कूल् फॉर् द ब्ल्यैण्ड्'-विद्यालये हेलेन प्रवेशं प्रापत् । १८९४ तमे वर्षे हेलेन, सलीबान् च न्यू यॉर्क्-महानगरम् अगच्छताम् । तत्र चतुर्दशवर्षीयायाः हेलेन इत्यस्याः प्रवेशः 'राईट् ह्युमसन् स्कूल् फॉर् द डेफ्'-आख्ये विद्यालये अभवत् । तस्मिन् विद्यालये सा लैटिन्-भाषां, फ्रेञ्च्-भाषां, जर्मन्-भाषां च अपठत् । हेलेन् बधिरा आसीत्, अतः अन्नी सलीबान् तया सह स्थित्वैव हेलेन् इत्यस्याः पठने साहाय्यं करोति स्म । शिक्षिका यत्किमपि पाठयति स्म, तत्सर्वं अन्नी अलीबान् इत्येषा हेलेन् इत्यस्याः हस्ते लिखित्वा तां बोधयति स्म । अन्याः अध्यापिकाः अपि व्यक्तिगतरीत्या तयोः साहाय्यं कुर्न्वन्ति स्म ।
सामान्यतया बधिराः मूकाः अपि भवन्ति । यतः ते अन्येषां ध्वनिं श्रोतुं न शक्नुवन्ति । यदा ते अन्यान् वदतः पश्यन्ति, तदा ते वक्तॄणाम् ओष्ठकम्पनस्य शैलीम् अनुसृत्य वक्तुं प्रयासं कुर्वन्ति । परन्तु हेलेन् केलर् बधिरा, मूका च आसीत्, सा अन्धा अपि आसीत् । अतः सा अन्येषाम् अनुकरणं कृत्वा वदेत् इत्यस्य सम्भावना नासीत् । सा बहुवारं वक्तुं प्रयासं करोति स्म, परन्तु सर्वदा निष्फला भवति स्म । एकदा अन्नी सलीबान् ताम् अवदत्, "वक्तुं व्यर्थप्रयासं मा कुरु, तव शक्तिः तत्रैव गच्छति । अन्येषु कार्येषु ध्यानं यच्छ, यत् त्वं कर्तुं शक्नोषि" इति । शिक्षिकायाः वचनं श्रुत्वा कदाचित् हेलेन हतोत्साहिनी अपि भवेत् । परन्तु तथापि सा पौनःपुन्येन वक्तुं प्रयासं करोति स्म । तस्याः प्रयासान् दृष्ट्वा अन्नी सलीबान् तां नीत्वा 'होरस् मन् स्कूल् फोर् द डेफ्'-विद्यालयम् अगच्छत् । तत्र सराह् फुलर् इत्यनया सह तयोः सम्पर्कः अभवत् । सराह् फुलर् ओष्ठयोः कम्पनमाध्यमेन पाठयितुं निष्णाता आसीत् । सा पाठकस्य हस्तं स्वस्याः मुखमण्डले स्थापयित्वा जिह्वायाः, ओष्ठयोः च स्थितिं बोधयति स्म । जिह्व्योष्ठस्य तस्याः स्थित्याः माध्यमेन पाठकाः अक्षराणाम् उच्चारणं कर्तुं शक्नुवन्ति स्म । सराह् फुलर् इत्येषा हेलेन् केलर् इत्येताम् एकादशसु सत्रेषु प्रशिक्षणम् अयच्छत् । ततः हेलेन् लघुवाक्यं निर्माय वचनम् आरभत । तस्याः स्वप्नः आसीत् यत्, सा वदेत् इति, तत् स्वप्नं पूर्णम् अभवत् । सा आदिनं वक्तुम् अभ्यासं करोति स्म । सा षड्वर्षं यावत् सततं परिश्रमं कृत्वा, अन्ततो गत्वा योग्यरीत्या वक्तुम् अभ्यस्ता अभवत् । शनैः शनैः सा सभासु, कार्यक्रमेषु च भाषणम् अपि आरब्धवती । तया वाग्शक्तौ एतावत् नैपुण्यम् अर्जितं यत्, तस्याः वचनैः श्रोतारः मन्त्रमुग्धाः भवन्ति स्म ।
१८९६ तमे वर्षे ते मस्सक्यूसेट्स्-नगरं प्रत्यच्छताम् । तत्र केलर् 'द केम्ब्रिज् स्कूल् ऑफ् वेस्टर्न्'-नामके महाविद्यालये अभ्यासार्थं सँल्लग्ना । १९०० तमे वर्षे केलेरन् 'रेडक्लिफ्'-महाविद्यालये प्रवेशं प्रापत् । तदा सा ब्रिक्स् हॉल्-इत्यस्य साउथ् हाउस्-नामके स्थले निवसिति स्म ।
१९०२ तमे वर्षे यदा हेलेन् इत्यस्याः अध्ययनं चलदासीत्, तदैव तस्याः जीवन्याः "मम जीवनस्य कथा" इति पुस्तकं प्रकाशितम् अभवत् । आविश्वं हेलेन् इत्यस्याः पठनकलायाः, उन्नत्याः च समाचाराः प्रकाशिताः भवन्ति स्म । समाचारपत्रेषु, समाचारसंस्थासु च तस्याः जीवन्याः प्रेरककथाः मुद्रिताः भवन्ति स्म । हेलेन् इत्यस्याः व्यक्तित्वेन अनेके जनाः प्रभाविताः आसन् । तेषु महाराज्ञी विक्टोरिया, यूनान-देशस्य सम्राज्ञी अपि अन्तर्भवतः । महाराज्ञी विक्टोरिया "हेलेन्" इत्येताम् "अद्भुतबालप्रतिभा", "बॉस्टन्-नगरस्य आश्चर्यम्" इति कथयति स्म । अमेरिका-देशस्य सर्वाधिकतीक्ष्णबुद्धियुक्तासु बालिकासु सा अन्यतमा अस्ति इति आदेशं मान्यता आसीत् । हेलेन् केलर् इत्यस्याः सफलतायाः पृष्ठे तस्याः अध्यापिकायाः अन्नी सलीबान् इत्यस्याः अपि बहुधा प्रशंसा अभवत् । हेलेन् केलर् स्वाध्यापिकायाः जीवनीं लेखितुम् इच्छुका आसीत्, परन्तु द्वितीयविश्वयुद्धस्य आरम्भे सति सा सैन्यसेवायां व्यस्ता अभवत् । ततः तया समाजसेवायाः दायित्वं स्वीकृतम् [२१] ।
१९०४ तमे वर्षे चतुर्दशवर्षणां वयसि केलर् 'रेड्क्लिफ्'-महाविद्यालयात् स्नातकपदवीं प्रापत् । आविश्वं सा प्रप्रथमा बधिरा, अन्धा च व्यक्तिः आसीत्, यया साहित्यविषये स्नातकपदवी अर्जिता । सा ऑस्ट्रेलिया-देशस्य दार्शिनिकस्य पेड्गोग् इत्यस्य सम्पर्के आसीत् । सः प्रप्रथमवारम् अजानात् यत्, एतया महिलया साहित्यक्षेत्रे एतावत् उत्कृष्टं स्थानं प्राप्तम् अस्ति इति [२२] ।
महाविद्यलाये यदा केलर् अध्ययनं करोति स्म, तदा तया अनेकानि कष्टानि सोढितानि । अभ्यासक्रमस्य अनेकानि पुस्तकानि ब्रेल-लिप्याम् अनुपलब्धानि आसन् । अतः तया स्वयमेव शब्दविन्यासादिकार्याणि करणीयानि भवन्ति स्म । कठिनशब्दान् अवगन्तुं मार्गदर्शनस्य अभावः अपि आसीत् । बहुधा तु तस्याः सहविद्यार्थिन्यः बहिः क्रीडितुं गच्छन्ति स्म, तथापि हेलेन् पठने व्यस्ता भवति स्म । एवम् आवर्षं कठोरपरिश्रमं कृत्वा सा स्नातकपदवीं प्रापत् [२३] ।
अध्ययनक्षेत्रस्य सफलता केवलं प्रत्यक्षं साफल्यम् आसीत्, ततोऽपि अधिका सफलता हेलेन् केलर् इत्यनया प्राप्ता आसीत् । पञ्चषवर्षेषु प्राक् या बालिका न केनापि सह सम्पर्कं कर्तुं समर्था आसीत्, कानिचन वर्षाणि कठोरपरिश्रमं कृत्वा सा अन्यैः सह सुदृढं प्रत्यायनं कर्तुं समर्था अभवत् । तया बहुधा भाषणानि, अध्यापनं च कृतम् । अन्येषां जनानां वचनं सा अवच्छति स्म, यतो हि ओष्ठयोः स्थित्याः अभ्यासः बहुधा जातः आसीत् । तस्याः स्पर्शेन्द्रियम् अतिप्रबलं, सूक्ष्मज्ञानग्राहि च अभवत् । ब्रेल्-लिपिपठने सा एतावती विचक्षणा अभवत् [२४] यत्, सहसा अन्यस्य कथनम् अवगम्य प्रत्युत्तरं यच्छति स्म । स्वहस्तैः साङ्केतिकभाषायाः पठने अपि सा अति कौशल्यम् आर्जयत् । विश्वयुद्धस्य कतिचद्भ्यः दिनेभ्यः प्राक् 'झोलर् कौर्ट्ट्' इत्यस्मात् साधनात् यत् सङ्गीतं निर्गच्छति स्म, तस्य सङ्गीतस्य आनन्दं सा समीपस्थायाम् उत्पीठिकायां हस्तं संस्थाप्य स्वीकरोति स्म [२५] ।
सहचराः
[सम्पादयतु]अन्नी सलीबान् सर्वाधिकं हेलेन् केलर् इत्यनया सह वासम् अकरोत् । सा हेलेन् इत्येतां यावत् पाठयति स्म, तावत् तु हेलेन् इत्यनया सह आसीत्, अपि तु ततः दीर्घकालं यावत् सा हेलेन् इत्यनया सह सहचारिणीत्वेन न्यवसत् । १९०५ तमे वर्षे अन्नी सलीबान् जॉन् मस्रि-आख्येन युवकेन सह विवाहम् अकरोत् । ततः १९१४ तमे वर्षे अन्नी सलीबान् इत्येषा अपि अस्वस्थ्या अभवत् । अतः पॉलि थॉमस्-आख्या कर्मचारिणी हेलेन् इत्यस्याः सेवायां नियुक्ता [२६] । एवं हेलेन् इत्यनया सह अन्नी सलीबान्, पॉलि थॉमस् इत्येते सहचारिण्यौ आस्ताम् ।
अन्नी सलीबान्, पॉलि थॉमस् इत्येताभ्यां हेलेन् फोरेस्ट् हिल्स्-आख्यं पत्तनम् अगच्छत् । तत् पत्तनं न्यू यॉर्क्-महानगरस्य समीपे विद्यते । तत्र स्टेशन् स्क्वेर्-आख्ये गृहे निवस्य ताः मुकेभ्यः, बधिरेभ्यश्च कार्यं प्रारभन्त । तत्र हेलेन् केलर् इत्यनया "अमेरिकन् फाउन्डेशन् फॉर् द ब्लैण्ड्'-आख्यायाः संस्थायाः स्थापना कृता [२७] ।
१९३६ तमे वर्षे अन्नी सलीबान् इत्यस्याः मृत्युः अभवत् । अन्नी सलीबान् दीर्घमूर्च्छायाम् एव प्राणान् अत्यजत् । यदा सा शरीरम् अत्यजत्, तदा हेलेन् केलर् तस्याः हस्तं स्वहस्ते स्वीकृत्य तस्याः निकटे एव स्थिता आसीत् [२८] । ततः हेलेन्, पॉलि च कनेक्टिकट्-राज्ये स्थानान्तरम् अकुरुताम् । ते आविश्वं भ्रमित्वा (भ्रान्त्वा) अन्धेभ्यः दानं क्रोड्यकुरुताम् । १९५७ तमे वर्षे पॉलि इत्येतस्याः हृदयाघातः अभवत् । तेन आघातेन तस्य मृत्युः तु नाभवत् । परन्तु ततः तस्याः जीवनं पूर्ववत् सामान्यम् अपि नासीत् । सा दीर्घकालीनायां रुग्णावस्थायाम् अपतत् । अन्ततो गत्वा सा १९५७ तमे वर्षे शरीरम् अत्यजत् [२] ।
पॉलि इत्यस्याः रुग्णावस्थायाः काले वेन्नी कॉर्बि-आख्यायाः परिचारिकायाः (nurse) नियुक्तिः १९५७ तमे वर्षे अभवत् । सा एव परिचारिका पॉलि इत्यस्याः निधनानन्तरम् आजीवनं हेलेन् कलेर् इत्यस्याः सहचारिणी आसीत् [२] ।
राजनीतिक्षेत्रे योगदानम्
[सम्पादयतु]वक्तृत्वेन, लेखिकात्वेन च केलर् विश्वस्तरे प्रसिद्धा अभवत् । ये जनाः अन्धजनेभ्यः कार्यम् अकुर्वन्, तेषाम् आवल्यां तस्याः नाम अन्तरभवत् । सा महिलामताधिकारस्य, शान्तेः च पक्षधरा आसीत् । सा वुडरो विल्सन्-आख्यस्य राजनीतिज्ञस्य प्रतिद्वद्विनी आसीत् । सा समाजसेवां, जनसङ्ख्यानियन्त्रस्य कृते कार्यं च करोति स्म । १९१५ तमे वर्षे ज्योर्ज् केसलर् इत्यनेन सह मिलित्वा हेलेन् केलर् इन्टर्नेशनल्-संस्थायाः स्थापनाम् अकरोत् । सा संस्था स्वास्थ्यसम्बद्धेषु विषये, दृष्टिसम्बद्धेषु विषये, पौष्टिकाहारस्य विषयेषु च संशोधनं करोति । १९२० तमे वर्षे सा 'अमेरिकन् सिविल् लिबर्टि युनियन्'-संस्थायाः रचनाकार्ये साहाय्यम् अकरोत् । सा चत्वारिशत् देशानां यात्राम् अकरोत् । सा वारं वारं जापान-देशस्य यात्राम् अकरोत् । अतः जपान्-देशीयेषु सा प्रसिद्धा अभवत् । हेलेन् केलर् संयुक्तराष्ट्र-अमेरिका-देशस्य राष्ट्रपतिभिः सह मैत्रीम् अकरोत् । अमेरिका-देशस्य अतिप्रसिद्धजनेषु अधिकतमजनैः सः तस्याः मैत्रीम् आसीत् । तेषु एलेक्झाण्डर् अब्राहम् बेल्, चार्लि चेप्लिन्, मार्क् ट्विन् अन्तर्भवन्ति । हेलेन्, मार्क् ट्विन् च विंशतितमाब्दस्य आरम्भे राजनीतिपरिवर्तकत्वेन परिगण्येते स्म [३०] ।
हेलेन् सोसियलिस्ट् पार्टि ओफ् अमेरिका-पक्षस्य सदस्या आसीत् । १९०९ तः १९२१ पर्यन्तं सा अनेकान् लेखान् अलिखत् । सोसियलिस्ट् पार्टि ओफ् अमेरिका-पक्षस्य एगेन् वि. डेब्स् इत्यस्य सा समर्थनम् अकरोत् [३१] ।
१९१२ तमे वर्षे हेलेन् केलर् इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्-संस्थया सह संल्लग्ना [३०] । १९१६-१९१८ मध्ये सा आई डब्ल्यू डब्ल्यू (इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्) कृते लेखान् अलिखत् । तेषु एकस्मिन् लेखे सा अवर्णयत् यत्, किमर्थँ सा आई डब्ल्यू डब्ल्यू-संस्थया सह संल्लग्ना अस्ति इति । तस्याः लेखस्य नाम Why I Became an IWW[३२] आसीत् । सा अवर्णयत् यत्, तस्याः अन्धत्वम् अन्यविकलाङ्गता च तस्यै प्रेरणास्रोतः अस्ति ।
लेखनम्
[सम्पादयतु]हेलेन् केलर् १२ पुस्तकानि, अनेकान् लेखान् च अलिखत् ।
- द फ्रॉस्ट किङ्ग : इ.स. १९८१ तमे वर्षे हेलेन् यदा ११ वर्षीया आसीत्, तदा सा 'द फ्रॉस्ट किङ्ग'-पुस्तकम् अलिखत् । एतस्याः रचनायाः कृते आरोपः अभवत् यत्, एषा कथा साहित्यिकचौर्यम् आसीत् । यतः 'द फ्रॉस्ट फेअरीज' इत्यस्य कथानकं मार्गरेट कॅनबी इत्यस्य पुस्तकात् स्वीकृतम् आसीत् । ततः अन्वेषणेन ज्ञातं यत्, मार्गरेट् कॅनबी इत्यस्य कथानकं हेलेन् इत्यस्याः अन्तर्मनसि विस्थापितम् अभवत् । तेन तस्याः मनसि कथां प्रति अभेदः समुत्पन्नः यत्, एषा कथा मम उत अन्यस्य वा इति [२] ।
- द स्टोरी ऑफ माय लाइफ : १९०३ तमे वर्षे हेलेन् केलर् यदा २२ वर्षीया आसीत्, तदा स्वस्याः आत्मकथां 'द स्टोरी ऑफ माय लाइफ'-पुस्तके अलखित् । सुलीवान इत्यस्याः कृते तस्याः पत्युः जॉन मेसी इत्यस्य साहाय्येन अलिखत् । सा आत्मकथा यदा सा २१ वर्षीया आसीत्, तदारभ्य तया लिख्यमाना आसीत् ।
- द वर्ल्ड आय लिव इन : १९०८ तमे वर्षे केलर यत् 'द वर्ल्ड आय लिव इन'-पुस्तकम् अलखित्, तस्मिन् सा किं चिन्तयन्ती आसीत् ? इत्यस्य वर्णनं कृतम् अस्ति । १९१३ तमे वर्षे 'आऊट ऑफ द डार्क' इत्यस्य प्रकाशनमालिकायां तत् पुस्तकं प्राकाशयत् सा ।
अकिता कूक्कूरः
[सम्पादयतु]१९३७ तमस्य वर्षस्य जुलाई-मासे यदा हेलेन् केलर् जापान-देशस्य अकिरा-आख्यं प्रभागम् (Akita Prefecture) अगच्छत्, तदा हचिको-प्रजातेः कुक्कुरम् उपहारत्वेन प्रापत् । १९३७ तमस्य वर्षस्य जुलाई-मासे यदा हेलेन् केलर् जापान-वासिना एकेन अकिता-प्रजातेः कुक्कुरः उपहारत्वेन प्रदत्तः, तदा सा हचिको इत्याख्यस्य कुक्कुरविषये अपृच्छत् । परन्तु हचिको इत्याख्यस्य कुक्कुरस्य मृत्युः १९३५ तमे वर्षे एव जातः आसीत् । सा एकं जनं न्यवेदयत् यत्, सा अपि एतादृशं कुक्कुरम् इच्छति इति । तस्याः निवेदनं सत्कृत्य कामिकाझे गो इत्याख्यः कुक्करः हेलेन् इत्यस्यै उपहारत्वेन प्रदत्तः जापान-सर्वकारेण । परन्तु विषाणुजन्यरोगेण ग्रस्तत्वात् सः कुक्कुरः स्वल्पकाले एव मृतः । १९३८ तमस्य वर्षस्य जुलाई-मासे जापान-सर्वकारः कामिकाझे गो इत्याख्यस्य कुक्करस्य ज्येष्ठसहोदरम् उपहारत्वेन हेलेन् इत्यस्यै अयच्छत् । तस्य कुक्कुरस्य नाम केन्झन गो इति आसीत् । अमेरिका-देशे हेलेन् यदा तं कुक्कुरम् अनयत्, तदा तस्मिन् देशे अकिरा-प्रजातेः कुक्कुरं प्रति जागरूकतायाः वातावरणं समुद्भूतम् ।
सा जीवनस्य चरमेषु चतुर्षु वर्षेषु अति रुग्णा आसीत् । तेषु वर्षद्वयं तु सा पर्यङ्के शयिता एव आसीत् । १९६८ तमस्य वर्षस्य जून-मासस्य सप्तदशे (१७/०६/१९६८) दिनाङ्के हृदयाघातेन तस्याः निधनम् अभवत् ।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणम्
[सम्पादयतु]- ↑ १.० १.१ १.२ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १२६. ISBN 81/7043-405-X.
- ↑ २.० २.१ २.२ २.३ "The life of Helen Keller". Royal National Institute of Blind People. November 20, 2008. Archived from the original on June 7, 2007. आह्रियत January 22, 2009.
- ↑ "हेलेन केलर इत्यनयाः विषये सामान्याः प्रश्नाः". Perkins School for the Blind. आह्रियत December 25, 2010.
- ↑ "Helen Keller Birthplace - LW". helenkellerbirthplace.org.
- ↑ "Inductees". Alabama Women's Hall of Fame. State of Alabama. आह्रियत February 20, 2012.
- ↑ "जन्मस्थानम्". आह्रियत May 3, 2013.
- ↑ ७.० ७.१ Nielsen, Kim E. (2007). "The Southern Ties of Helen Keller". Journal of Southern History 73 (4).
- ↑ "Helen Keller Birthplace". आह्रियत May 3, 2013.
- ↑ "Helen Keller Kids Museum – Ask Keller". Archived from the original on March 3, 2016. आह्रियत July 16, 2014.
- ↑ "Arthur H. Keller". Encyclopedia of Alabama. Archived from the original on July 26, 2011. आह्रियत March 7, 2010.
- ↑ Herrmann, Dorothy; Keller, Helen; Shattuck, Roger (2003). The Story of my Life: The Restored Classic. pp. 12–14. ISBN 978-0-393-32568-3. आह्रियत May 14, 2010.
- ↑ "Kate Adams Keller". American Foundation for the Blind. Archived from the original on April 9, 2010. आह्रियत March 7, 2010.
- ↑ "Charles W. Adams (1817–1878) profile". Findagrave.com. आह्रियत August 11, 2009.
- ↑ Helen Keller. "The Story of My Life". Project Gutenberg. p. 11. आह्रियत March 7, 2010.
- ↑ "Helen Keller Biography". American Foundation for the Blind. Unknown parameter
|access-date=
ignored (help) - ↑ Worthington, W. Curtis. A Family Album: Men Who Made the Medical Center (Medical University of South Carolina ed.). ISBN 978-0-87152-444-7.
- ↑ Wilkie, Katherine E. Helen Keller: Handicapped Girl. Indianapolis, IN: Bobbs-Merrill.
- ↑ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १२८. ISBN 81-7043-405-X.
- ↑ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १२९. ISBN 81-7043-405-X.
- ↑ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १३०. ISBN 81-7043-405-X.
- ↑ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १३२. ISBN 81-7043-405-X.
- ↑ Herbert Gantschacher "Back from History! – The correspondence of letters between the Austrian-Jewish philosopher Wilhelm Jerusalem and the American deafblind writer Helen Keller", Gebärdensache, Vienna 2009, p. 35ff.
- ↑ डॉ. लालबहादुर सिंह चौहान (२००५). गौरवशाली नारियां. आत्माराम एण्ड संस. p. १३१. ISBN 81-7043-405-X.
- ↑ Specifically, the reordered alphabet known as American Braille
- ↑ "First Number Citizens Lecture Course Monday, November Fifth", The Weekly Spectrum, North Dakota Agricultural College, Volume XXXVI no. 3, November 7, 1917.
- ↑ "The Life of Helen Keller". Graceproducts.com. आह्रियत August 24, 2010.
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2012-12-31. आह्रियत 2015-04-17.
- ↑ Herrmann, p. 255.
- ↑ Herrmann, Dorothy. Helen Keller: A Life. New York, NY: Knopf. ISBN 978-0-679-44354-4.
- ↑ ३०.० ३०.१ Loewen, James W. (1996) [1995]. Lies My Teacher Told Me: Everything Your American History Textbook Got Wrong (Touchstone Edition ed.). New York, NY: Touchstone Books. pp. 20–22. ISBN 978-0-684-81886-3.
- ↑ "Wonder Woman at Massey Hall: Helen Keller Spoke to Large Audience Who Were Spellbound.". Toronto Star Weekly. January 1914. आह्रियत 31 October 2014.
- ↑ "Why I Became an IWW" in Helen Keller Reference Archive from An interview written by Barbara Bindley date=January 2013, published in the New York Tribune, January 16, 1916
- ↑ डॉ लालबहादूर चौहान (२००५). विश्व की गौरवशाली नारियाँ. आत्माराम एण्ड सन्स्. p. १२६-१३४. ISBN 81-7043-409-X Check
|isbn=
value (help).
अधिकवाचनाय
[सम्पादयतु]- Brooks, Van Wyck. (1956) Helen Keller Sketch for a Portrait (1956)
- Joseph P. Lash|Lash, Joseph P. (1980) Helen and Teacher: The Story of Helen Keller and Anne Sullivan Macy . New York, NY: Delacorte Press. ISBN 978-0-440-03654-8
- Einhorn, Lois J. (1998) Helen Keller, Public Speaker: Sightless But Seen, Deaf But Heard (Great American Orators)
- Harrity, Richard and Ralph G. Martin. (1962) The Three Lives of Helen Keller
- Herrmann, Dorothy (1998) Helen Keller: A Life. New York, NY: Alfred A. Knopf. ISBN 978-0-679-44354-4
- "Keller, Helen Adams". World Encyclopedia. Philip's. Oxford Reference Online. Oxford University Press. University of Edinburgh. 2008. आह्रियत February 10, 2012.
मुख्यस्रोतः
[सम्पादयतु]- Keller, Helen with Anne Sullivan and John A. Macy (1903) The Story of My Life. New York, NY: Doubleday, Page & Co.
- विश्व की गौरवशाली नारियाँ
इतिहासविद्या
[सम्पादयतु]- Amico, Eleanor B., ed. Reader's Guide to Women's Studies ( Fitzroy Dearborn, 1998) pp328–29
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये Helen Keller सम्बन्धिताः सञ्चिकाः सन्ति। |
- Helen Keller International
- Helen Heller and Anne Sullivan Archive at Perkins School for the Blind
- Helen Keller at Women Film Pioneers Project
- The Story of My Life with introduction to the text
- Booknotes interview with Dorothy Herrmann on Helen Keller: A Life October 25, 1998.
- "Who Stole Helen Keller?" by Ruth Shagoury in the Huffington Post, June 22, 2012.
- Papers of Helen Adams Keller, 1898–2003 Schlesinger Library, Radcliffe Institute, Harvard University.
- Poems by Florence Earle Coates: "To Helen Keller", "Helen Keller with a Rose", "Against the Gate of Life"