अभिजित् नक्षत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ल्य्र
Lyra constellation map
ल्य्र

आकृतिः[सम्पादयतु]

अभिजित्नक्षत्रम् - त्रिकोणाकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

यस्मिन् ब्रह्माऽभ्यजयत्सर्वं
तन्नोनक्षत्रमभिजिद्विजित्य श्रियंदधातु ।।

इदं नक्षत्रं वस्तुतः नक्षत्रमण्डलं न । उत्तराषाढायाः अन्तिमभागस्य श्रवणनक्षत्रस्य आदिभागस्य च योगः अत्र दृश्यते । नक्षत्रकुलाणां गणना यद्यपि २७ तथापि सौकर्याय वैदिकऋषिभिः २८ इति निर्दिष्टा अस्ति । इदं वैदिकनक्षत्रं विद्यते । अस्मिन् विषये अथर्ववेदे एवम् उल्लिखितमस्ति - 'अभिजिन्मे रासतां पुण्यमेव' अर्थात् ब्रह्मदेवतायाः अभिजित्नक्षत्रम् अस्मान् अनुगृह्णाति । तैत्तिरीयब्राह्मणे (१-५-१) कथितम् - 'अभिजयत्परस्तादभिजितमवस्तात्' अर्थात् अभिजित्नक्षत्रम् उपरिष्टात् अधस्तात् सर्वाभ्यः दिग्भ्यः जयं प्रददाति इति । ताण्ड्यब्राह्मणे (२३-२३-३) सप्तविंशतिनक्षत्राणां विषये प्रस्तूय २८ तमस्य नक्षत्रस्य सङ्केतः दत्तः अस्ति । तैत्तिरीयब्राह्मणे (१-५-३,४) २८ नक्षत्राणां परिगणना कृता अस्ति । तैत्तिरीयब्राह्मणे (३-१-१) उक्तमस्ति यत् यस्मिन् अभिजित्नक्षत्रे ब्रह्मा सर्वान् जयति तत् नक्षत्रम् अस्मभ्यं विजयं लक्ष्मीं च प्रददातु इति ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अभिजित्_नक्षत्रम्&oldid=395107" इत्यस्माद् प्रतिप्राप्तम्