सामग्री पर जाएँ

रेवती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते रेवतीनक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् रेवतीनक्षत्रं भवति सप्तविंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

रेवतीनक्षत्रम्

आकृतिः

[सम्पादयतु]

रेवती मत्स्याकार त्रयम् - मीनाकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि

[सम्पादयतु]

दे दो चा ची - रेवतीनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

[सम्पादयतु]
पूषा रेवत्यन्वेति पन्थां पुष्टिपती पशूपा वाजवस्त्यौ ।
सुगैर्नो यानैरुपयातां रक्षतु रेवती गावोश्वात् अन्वेतु पूषा ।।

रेवतीनक्षत्रस्य स्वामी पूषा अस्ति । पूषन् इत्येतस्य शब्दस्य अर्थः अस्ति पोषणकर्ता इति । वेदे सूर्यस्य पुत्र्याः सूर्यायाः पतिः पूषा इति निर्दिष्टमस्ति । अयं पूषा सर्वेषां प्राणिनां द्रष्टा सर्वज्ञश्च वर्तते । रेवती नक्षत्रे अस्य निवासः । अस्य वाहने रथे अश्वः न विद्यते अपि तु महिषः विद्यते । पितृलोकं प्रति प्रेतात्मनां नयनम् अयमेव करोति । सर्वाणि कष्टानि अयं निवारयति । तैत्तिरीयब्राह्मणे एवम् उल्लिखितम् - पूषादेवः रेवत्या सह आगच्छन् अस्ति इति । पुष्टिपतिः पशुपतिः अन्नजन्यबलस्य च पतिः अस्ति अयम् । अयं सुमार्गेण आगत्य अस्मभ्यम् अन्नम्, गो-अश्वसम्पत्तिं यच्छति ।

आश्रिताः पदार्थाः

[सम्पादयतु]
पौष्णे सलिलजफलकुसुमलवणमणिशङ्खमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥

सलिलजानि जलोद्भवानि यानि द्रव्याणि मृणालादीनि यानि च फलानि । तथा कुसुमानि पुष्पाणि । लवणं सैन्धवम् । मणयो रत्नानि । शङ्खः प्रसिद्धः । मौक्तिकं मुक्ताफलानि । अब्जानि पद्मप्रभृतीनि । सुरभि सुगन्धद्रव्यम् । कुसुमानि । अथवा सुरभीणि सुगन्धानि कुसुमानि । गन्धाः सुगन्धद्रव्याणि । वणिजः क्रयविक्रयिणः । नौकर्णधारा नाविकाः । एते सर्व एव पौष्णे रेवत्याम् ।

स्वरूपम्

[सम्पादयतु]
स्थलजलभूषणमखिलं धामविधानं त्वमर्त्यमर्त्यानाम् ।
करपीड्नमुपनयनं मङ्गलमखिलं च पौष्णभे कार्यम् ॥

रेवतीनक्षत्रे स्थल-जल-आभूषणकर्म, गृहनिर्माणम्, देवतागृहनिर्माणम्, विवाह-उपनयनादीनि मङ्गलकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

मृदुसंज्ञकनक्षत्राणि

[सम्पादयतु]
मृदुवर्गोऽनूराधाचित्रापौष्णैन्दवानि मित्रार्थे ।
सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि ॥

अथ मृदूनि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह -
अनूराधा । चित्रा । पौष्णं रेवती । ऐन्दवं मृगशिरः । एतानि चत्वारि नक्षत्राणि मृदुवर्गः । तानि च मित्रार्थे मित्रवरणार्थं श्रवणादिप्रयोगे । सुरतविधौ सुरतकर्मणि । वस्त्रेषु वस्त्रकर्मादिषु । भूषणेष्वलङ्करणेषु । मङ्गलेषु विवाहोपनयनचूडाकरणेषु । गीते च । एतेषु च कर्मसु च हितानि श्रेष्ठानि ।

"https://sa.wikipedia.org/w/index.php?title=रेवती&oldid=364670" इत्यस्माद् प्रतिप्राप्तम्