बासमती तण्डुलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बासुमतीः भारतस्य दीर्घतमेषु तण्डुलशस्येषु  एकः उत्कृष्टः प्रकारः भवति। अस्य वैज्ञानिक नामः भवति ओराय्जा सैटिवा। इदं स्वस्य स्वतन्त्र स्वाद एवं च सुगन्धं कृते प्रसिद्धः वर्त्तते। अस्य नाम वासुमती अर्थात् सुगन्धयुक्त प्रकारः बाभवति। अस्य अपरं अर्थः कोमल मृदुल वा शस्यापि भवति। भारतं अस्य शस्यस्य सर्वेषु उत्पादकेषु बृहतमः उत्पादकः भवति। तदनन्तरं पाकिस्तानः, नेपालः एवं च बाङ्गलादेशः आगच्छन्ति। पारप्मरिक बासुमती वृक्षाः दीर्घाकृशाश्च भवन्ति। एतेषां सुगन्धयुक्तवायुः सोढुं न शक्यते। अस्मिन् अपेक्षाकृतन्यून परन्तु श्रेष्ठोत्पादः जायते। अस्य विक्रयमूल्यं अन्तराष्ट्र तथा भारतीय आपणेषु उच्चतम भवति। बासुमती शस्यस्य तण्डुलकणं अन्येषु तण्डुलकणेषु अधिकतरः दीर्घतरः भवति। पचनानन्तरं अस्य तण्डुलकणानि पृथक् पृथक् भवन्ति। इदं शस्यं प्रकारद्वये विभज्यते। श्वेत एवं च भूरा। कनाडियाई मधुमेह संघानुसारं बासुमती शस्ये मध्यम ग्लाइसेमिक सूचकांक ५६ तः ६९ मध्यवर्त्ती भवति, यः मधुमेहरोगीणां कृते अन्य शस्य तथा श्वेताटापेक्षया अधिकं श्रेयस्करं भवति।

स्वाद-गन्ध-प्रजातयश्च[सम्पादयतु]

बासुमतीतण्डुलस्य एकं स्वतन्त्रं पैण्डनयुक्तस्वादं भवति। अस्य स्वादं रसायन २-एसिटायिल-१-पायरोलाइन कारणात् भवति। बासुमतीशस्य अनेके प्रकाराः वर्त्तन्ते। पुरातनप्रकारेषु बासुमती-३७०-बासुमती-३८५-बासुमती-रणबिरसिँपुराश्च एवं अन्येषु संकरप्रकारकेषु पूस बासुमती १ आगच्छन्ति। सुगन्धयुक्तबासुमती स्टाकतः व्युत्पन्नं भवति, परन्तु तत् शुद्धबासुमतीरुपेण न मन्यते। उदाहरणार्थं पीबीर-पीबी-३ आर.एच-१० श्च। नई दिल्लीस्थितं भारतीय कृषिविज्ञान अनुसंन्धानकेन्द्र,पूसासंस्थानेन च एकं परम्परागतं बासुमती प्रकारं शोधनं कृत्वा एकं शङ्करप्रकारं निर्माणं कृतं,यस्मिन् बासुमत्याः सर्वगुणयुक्तं अपि च वृक्षं क्षुद्रं भवति। इदं बासुमती पूसा बासुमती-१ इत्युच्यते। पी.बी.-१ उत्पादः अन्यपरम्परागततण्डुलशस्यापेक्षया अपेक्षाकृतं द्विगुणं भवति। काला शाह काकु मध्ये स्थितं पाकिस्तानस्य तण्डुलानुसन्धानसंस्थानं बासुमती तण्डुलशस्ये विकासकरणाय कार्यरतः अस्ति। अस्य एकं उत्कृष्टं प्रकारं भवति सुपर बासुमती,यं डा.मजीद नाम्ना एकेन वैज्ञानिकेण १९९६ तमे वर्षे विकासनं कृतम्। इदं विश्स्यविकसित तण्डुलशस्येषु दीर्घतमं भवति,यं पाकिस्तान कर्नेल बासुमतीः इत्युच्यते।

बासुमत्याः अशुद्धीकरणबाधकाः[सम्पादयतु]

बासुमतीशस्यस्य स्वकीयदीर्घतण्डुलकणासुगन्धकारणात् च विश्वम्भरे अत्यधिकं प्रसिद्धं वर्त्तते। इदं न केवलं राष्ट्रीयं अपितु अन्तराष्टिय आपणेषु अत्यधिकं समादरं भवति। येन अरबो डालारो उपलब्धं भवति। विशुद्धं बासुमतीक्षेत्रं केवलं भारतस्य गाङ्गेयसमतलक्षेत्र-पाकिस्तानक्षेत्रेषु च भवति। एतदर्थं उपभोक्तानां आवश्यकता कारणतः,अत्र उच्चस्तरीय विदेशीमुद्रा अपि च विभिन्न क्षेत्रात् करमुक्तं करोति। कृत्रिम प्रकारकाः शस्याः व्ययवहुलक्षेत्रस्य आवश्यकं करोति अपि च तेषां गुणः,शुद्धयुक्तस्यपेक्षया न्यूनं भवति। येन कारणेन तस्य मूल्यमपि न्यूनं भवति।


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बासमती_तण्डुलम्&oldid=469037" इत्यस्माद् प्रतिप्राप्तम्