सदस्यः:Medhavini varakhed/गुरशरणसिंहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री गुरशरणसिंहस्य जन्म १९२९ सितम्बरमासे पञ्जाबदेशे अभवत्। अयं महाभागः विख्यातः नाटककारः रङ्गनिदेशकश्च। सः 'गुरुशरण भ्राजी’इति नाम्ना प्रसिद्धः आसीत्। सः सामाजिककार्यकर्त्ता अपि आसीत्। छात्रजीवने कम्युनिस्ट-आंदोलनेन प्रभावितः च आसीत्। विज्ञानस्य विद्यार्थी आसीत् गुरुशरणसिंहः। गुरुशरणः न केवलं पञ्जाबीरङ्गस्य निदेशकः अपितु लेखकश्च आसीत्।

‘जंगीराम की हवेली’, ‘हवाई गोले’, ‘हर एक को जीने का हक चाहिए’, ‘इक्कीसवीं सदी’, ‘तमाशा’, ‘गड्ढ़ा’, ‘इंकलाब जिंदाबाद’ इत्याद्याः तस्य प्रमुखकृतयः। सः दूरदर्शनधारावाहिन्यां भाईमन्नासिंहस्य पात्रम् ऊढवान्। सः ‘बाबा सोहर’ इत्यपि प्रसिद्धः। गुरशरणेन सङ्गीतनाटक-अकादम्या कालिदाससम्मान्, कलारत्तन्-इत्यादिप्रशस्तयः प्राप्ताः।

गुरुचरणः अमृतसरदेशे नाट्यकलाकेन्द्रम् आरभत। सः विख्यातः क्रान्तिकारी आसीत्। गुरुचरणः कर्मचारिणां कृते नाटकं लिखितवान्। तस्य निधनं २०११ सितम्बरमासे २७ दिनाङ्के अभवत्।