तेजस्वी सूर्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तेजस्वी सूर्यः
व्यैय्यक्तिकसूचना
Born नवम्बर् १६ १९९०
बेङ्गलूरुः, कर्णाटकम्
Political party भारतीयजनतापक्षः
Residence बेङ्गलूरुः
Alma mater न्याशनल् ला स्कूल् आफ् इण्डिया
Occupation अधिवक्ता, राजनेता, सांसदः, युवमोर्चाराष्ट्रियाध्यक्षः- भारतीयजनतापक्षः
Website http://tejasvisurya.in/

तेजस्वी सूर्यः (नवम्बर् १६ १९९०) कश्चन भारतीयः राजनेता। बेङ्गलूरुदक्षिणक्षेत्रस्य लोकसभासदस्यः। तेजस्वी सूर्यः भारतीयजनतापक्षस्य कर्णाटकराज्यस्य युवमोर्चा इत्यस्य वक्ता वर्तते। वृत्त्या च अधिवक्ता वर्तते।[१][२] तेजस्वी सूर्यः २०१९ तमे भारतीयलोकसभानिर्वाचने बेङ्गलूरु दक्षिणक्षेत्रतः भारतीयजनतापक्षस्य संसत्सदसस्यः वर्तते। सः २०१९ तमे निर्वाचने भारतीयजनतापक्षस्य वयसा कनिष्ठतमः अभ्यर्थी आसीत्।[३] [४][५].

बाल्यजीवनम्[सम्पादयतु]

तेजस्वी सूर्यः डा. सूर्यनारायणः एवं रमा दम्पत्योः पुत्रः। वासस्थानं बेङ्गलूरुनगरस्य बसवनगुडि। तस्य परिवारः पारम्परिकः। बाल्यकाले संस्कृतबालकेन्द्रे अपि प्रशिक्षितः।[६][७] तस्य शिक्षणं तु कुमारन्स् शालायां, जयनगरस्य न्याशनल् कालेज् मध्ये, न्याशनल् ला कालेज् मध्ये च अभवत्।[८][९]

राजनैतिकजीवनम्[सम्पादयतु]

तेजस्वी सूर्यः बाल्यकालादपि सङ्घस्य स्वयंसेवकः आसीत्। महाविद्यालयाध्ययनकाले अखिलभारतीयविद्यार्थिपरिषदः राज्यकार्यदर्शी च आसीत्।[१०]२०१३-१०१४ वर्षयोः इण्डियाफाक्ट् इति पत्रिकायाः अङ्कणकारः अपि आसीत्। ३७० विधिः, त्रिप्पल् तलाख्, देशस्य भद्रता इत्यादिषु विषयेषु निपुणः वक्ता च ।[११][१२]

माध्यमम्[सम्पादयतु]

लोकसभानिर्वाचने तस्य स्पर्धा भवति इति विषयः सामाजिकजालपुटेषु मुख्यः विषयः अभवत्। तेजस्वी सूर्यः भारतस्य नूतनः युवनेता इति ट्विट्टर् मध्ये बहुविधसन्देशाः प्रसृताः।[१३][१४][१५]तं विरुध्य अपि माध्यमेषु अनेके विषयाः प्रवृत्ताः परन्तु तात्कालिकरूपेण तस्य अवरोधः अपि कृतः।[१६]

२०१९ निर्वाचनम्[सम्पादयतु]

२०१९ तमे लोकसभानिर्वाचने तेजस्वीसूर्यः काङ्ग्रेस् अभ्यर्थिनः हरिप्रसादस्य विरुद्धं ३,३१,१९२ मतैः जयं प्राप्तवान्।

२०२१ कोविड् बेड् अव्यवहारः[सम्पादयतु]

मे ५ २०२१ तमे दिनाङ्के रविसुब्रह्मण्यः, उदयगरुडाचार्यः, सतीशरेड्डी इति शासकैः सह कोविड् वैद्यालयान् गतवान् । तत्र वैद्यालये चलतः अव्यवहाराणां विषये प्रश्नः कृतः । पत्रकाराणां गोष्ठ्यां अव्यवहारः विस्तरेण विवृतः । एतस्मिन् विषये मतीयद्वेषं योजयतः जनानां विषये तेजस्वी सूर्यः खेदं प्रकटितवान् [१७] [१८]


उल्लेखाः[सम्पादयतु]

  1. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  2. https://theprint.in/politics/modi-and-i-are-the-two-factors-in-the-bangalore-south-seat-tejasvi-surya/214671/
  3. https://theprint.in/politics/why-bjp-chose-tejasvi-surya-for-bengaluru-south-over-ananth-kumars-widow-tejaswini/212119/
  4. https://www.indiatoday.in/amp/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  5. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  6. https://www.livemint.com/
  7. "संग्रह प्रतिलिपि". Archived from the original on 2019-04-02. आह्रियत 2019-04-03. 
  8. https://www.mynation.com/elections/bengaluru-south-tejasvi-surya-chosen-bjp-candidate-poymft
  9. https://www.dreshare.com/tejaswi-surya/
  10. "संग्रह प्रतिलिपि". Archived from the original on 2019-04-02. आह्रियत 2019-04-03. 
  11. https://www.mynation.com/elections/income-tax-department-raids-dmk-leader-durai-murugan-house-pp6b6u
  12. https://swarajyamag.com/commentary/student-activism-and-the-abvp-part-1
  13. https://www.news18.com/amp/news/buzz/omg-omg-bjp-candidate-tejasvi-suryas-millennial-reaction-to-nomination-is-viral-on-twitter-2078163.html
  14. "संग्रह प्रतिलिपि". Archived from the original on 2019-04-02. आह्रियत 2019-04-03. 
  15. https://www.indiatoday.in/elections/lok-sabha-2019/story/who-is-tejasvi-surya-the-28-year-old-bjp-candidate-from-bangalore-south-1487275-2019-03-26
  16. "संग्रह प्रतिलिपि". Archived from the original on 2019-04-01. आह्रियत 2019-04-03. 
  17. https://kannada.asianetnews.com/state/bjp-mp-tejasvi-surya-press-conference-on-reforms-made-in-bbmp-bed-allocation-system-rbj-qsw64w
  18. https://www.republicworld.com/india-news/politics/tejasvi-surya-denies-making-bengaluru-covid-bed-racket-communal-curse-of-the-country-dot.html

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तेजस्वी_सूर्यः&oldid=482719" इत्यस्माद् प्रतिप्राप्तम्