अष्टाध्याय्याः वृत्तिकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अष्टाध्याय्याः वृत्तिकाराः अनेके अभूवन्। तेषां वृत्तिकाराणां देश-काल-पुस्तकानुसारं विविधेषु ग्रन्थेषु विवरणं प्राप्यते। केचन प्रसिद्धाः वृत्तिकाराः सन्ति - इत्यादि। एते स्वज्ञानानुसारं अष्टाध्याय्याः वृत्तिम् अकुर्वन्।

वृत्ति-व्याख्यानयोः भेदः[सम्पादयतु]

न केवलं चर्चापदानि व्याख्यानं=वृद्धिः आत् ऐच् इति ।

किं तर्हि ? उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति । यद्यपि ग्रन्थस्य व्याख्यानमेव वृत्तिस्तथापि वृत्तिव्याख्यानयोर्भेदः स्पष्टः । व्याख्यानं हि -

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना।

पूर्वपक्षसंमाधानं व्याख्यानं पञ्चधा मतम् ।। इति ।

तत्रापि पदच्छेदः पदार्थोक्तिः समासादिविग्रहः अनुवृत्तिः वाक्ययोजना (वाक्यार्थः), उदाहरणं,प्रत्युदाहरणं, पूर्वपक्षः समाधनञ्चेति विस्तृतविवरणात्मक व्याख्यानं तस्यैव लघुरूपं बृत्तिरिति । तेन हि सूत्रस्य सोदाहरणमर्थविवेचनमेव वृत्तिः । यथा गाड्कुटादिभ्योऽञ्णिन् ङित्[१] इति सूत्रमुगाड्कुटादिभ्यः अञ्णित ङित् इति त्रिपदमिदं सूत्रम् । 'गाडादेशात् कुटादिभ्यश्च परे ञित्-णिभिन्नाः प्रत्ययाः ङिद्वित् स्युः' इति वृत्तिः । तेन हि सोदाहरणं सूत्राशयप्रवर्तकत्वावृत्तेर्वृत्तित्वम्।

पाणिनीयसूत्रोपरि अनेके वृत्तिग्रन्था अनेकैविपश्चिद्भिः कृता इति महाभाष्यादिग्रन्थावलोकनतो ज्ञायते । महाभाष्यादेतदपि ज्ञायते यद् महाभाष्यात्पूर्वमेवाप्यनेको वृत्तयः पाणिनीयसूत्रोपरि प्रणीता आसन् । यथा महाभाष्ये[२]

'यत्तदस्य योगस्य मूर्धाभिषिक्तमुदाहरणं तदपि सङ्गृहीतं भवति ? किं पुनस्तत्- पट्ट्या मृदयेति ।'

तदुपरि कैयटो लिखति-मूर्धाभिषिक्तमपि-‘सर्ववृत्तिषुदाहृतत्वात् । वयन्तु वृत्तिग्रन्थरूपेण प्राचीनत्वेन काशिकामेव द्रष्टुं समर्थाः स्मः । तत्पूर्ववतना वृत्तयो लुप्ती वा सङ्ग्रहालये कृतविश्रामाः सन्ति । तासामवस्थितिस्तु महाभाष्यकाशिकान्यासंपदमञ्जरीवाक्यपदीयप्रभृतिप्राचीनग्नन्थेभ्य एव ज्ञायते । काशिकापूर्ववतिनो वृत्तिकारा हि पाणिनि-श्वोभूति व्याडि-कुणि-माथुर-वररुचि-देवनन्दि-चुल्लिभट्टि-निरचूणिप्रभृतयो नामतः स्मृताः । अज्ञाता वा अग्रहीतनामधेयास्त्वनेके एव । तेष्वपि पाणिनि-श्वोभूति-व्याडि-कुणि-माथुराः पतञ्जलिः पूर्ववतनः । देवनन्दि-चूल्लिभट्टिनिर्लरचूर्णयः जयादित्यपूर्ववतनः। जयादित्य वामनौ वृत्तिकारेषु केन्द्रस्थानीयौ । भतृहरि भर्नीश्वर-जयन्तमट्ट-केशव मैत्रेय-रक्षित-पुरुषोत्तम-शरणदेव' अघननैनार्य-अन्नम्भट्ट-भट्टोजि-अप्पयदीक्षित-नील-कण्ठवाजपेय-विश्वेश्वरसूरि - गोपालकृष्ण-रामचन्द्रभट्ट-गोकुलचन्द्र - ओरम्भट्टप्रभृतयोऽपि काशिकानन्तरवृत्तिकारा ज्ञातकालाः । नारायणसुधी-रुद्रधरउदयन-उदयङ्कर-रामचन्द्र-सदानन्दनाथाश्च अज्ञातकाला वृत्तिकाराः। पापिनीयलघुवृत्ति-पाणिनीयसूत्रलघुविवृत्ति-पाणिनीयसूत्रवृत्ति-पाणिनीयसूत्रविवरण-पोणिनीयसूत्रविवृत्ति-लघुवृत्तिकारिका-पाणिनोयसूत्रव्यख्यानानि च अज्ञातकर्तृका विवृतिग्रन्थाः।

आधुनिककाले हि गुरुप्रसादशास्त्रि-गोपालप्रसाद–लोकमणिदाहालानाञ्च । पाणिनीयसूत्रविवृतयो लभ्यन्ते सरला ऋजुपाणिनीय-शेषराजव्याख्याः । अथैतेषां संक्षेपेण परिचयोऽत्र प्रस्तूयते । काशिकानन्तरवतबृत्तिग्रन्थानां काशिकामहाभाष्यञ्चोपजीव्ययम् ।

पाणिनिः[सम्पादयतु]

पाणिनिः भगवान् स्वोपज्ञाकालकशब्दानुशासनस्य हि स्वयमप्यनेकघा - प्रवचनमकरोदिति महाभाष्यकाशिकादिवचनतो ज्ञायते। यथोक्त महाभाष्ये -

'कथं त्वेतत्सूत्रं पठितव्यम् । किमाकडारादेका संज्ञा, आहोस्वित् प्राक्कडारात्परं कार्यमिति । कुतः पुनरयं सन्देहः ? उभयथा ह्याचार्येण शिष्याः सूत्र प्रतिपादिताः केचिदाकाडारादेका संज्ञेति, केचित् प्राक्कडारात् परं कार्यमिति । यथा वा काशिकायां-[३]

‘शुङ्नाशब्दं स्त्रीलिङ्गमन्ये पठन्ति,ततो ढकं प्रत्युदाहरन्ति शौनेय इति । द्वयमपि चैतत्प्रमाणम्, उभयथा सूत्रप्रणयनात्' इति ।

एवमेव कोशिकायां[४] पूर्वपाणिनीया अपरपाणिनीयाश्चेति पाणिनीयशिष्याणां द्विविधत्वमुक्तमस्ति । तयोः ये खलु पूर्वपाणिनीया इत्युक्तास्ते प्राक्कडारादेका संज्ञा इति पठन्ति । अपरपाणिनीयास्तु प्राक्कडारात्परं कार्यमिति पठन्ति इत्यपि केषञ्चिम्भतम् । केचित्त्वस्य पूर्वपाणिनीय :, शास्त्रसम्बद्धापूर्वप्राणिनीया इत्यपि कथयन्ति तथापि पाणिनेः सूत्राणां द्विविधं व्याख्यानं तु तेनाऽपि.सिध्यत्येव । भतृ हरिश्च ‘इग्यणः सम्प्रसारणम् (१।१।४५ है , इति सूत्रमधिकृत्य महाभाष्यदीपिकायां कथयति -

'उभयथा ह्ययोचार्येण शिष्याः प्रतिपादिताः केचिद्वाक्यस्य केचिद्वर्णस्य च' इति इति । काशिकाकारोऽग्रे तद्धरति वहत्यावहति भारादेशाद्रिभ्यः'[५] इति सूत्रं व्याख्यान् कथयति -

‘सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः। तदुभयमपि ग्राह्यम् । एवमेव तदस्य ब्रह्मचर्यम्' इति[६] सुत्रव्याख्यानेऽपि । गणरत्नमहोदधौ वर्धमानेन ‘पाणिनिस्तु चित संवेदने इत्यस्य चेतंयत , इत्याह इति वचनमपि पाणिनिवृत्तिसम्बद्धमेव तदन्यत्र तदभावात् । एभिन्यैश्च प्रमाणैः पाणिनिना हि भगवती स्वोपज्ञातसूत्राणां स्वयमेव वैतिरुपि प्रोक्ता इति सिध्यति । सूत्रप्रवचनकाले। सूत्राणां वृत्युदाहरण* प्रत्युदाहरणादीनां प्रदर्शनमपरिहार्यं भवति प्रबोधनाय । तेन यदि पाणिनिनाः ‘स्वसूत्राणि स्वंयमेवापि व्याख्यातानीति मन्यते तदा तेन तेषां वृत्तिरपि प्रोक्तेति स्वतः सिद्धैव। सूत्रमात्रस्य प्रवचनासम्भवात् ।

श्वोभूतिः[सम्पादयतु]

श्वोभूतिश्च पाणिन्यपरवर्ती व्याडिपूर्ववर्ती चाचार्यः । केचिदमुं पाणिनेः । साक्षाच्छिष्यं मन्यन्ते । तथासिद्धे सत्यस्य पाणिनिसमकालिकत्वं सिध्यति । श्वोभूतिनां पाणिनिसूत्रोपरि बृत्तिग्रन्थः प्रणींत इतिः ग्रन्थान्तरेषु तस्योल्लेखाज्ज्ञायते । महाभाष्यकारः न्यासकारश्च श्वोभूतिं स्मरतः । काशिकायाः ‘युकः किति'[७] सूत्रव्याख्यानावसरे केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्णयन्ति' इति वचनस्य व्याख्यानावसरे न्यासकार कथयति'केचित्श्वोभूति-व्याडिप्रभृतयः' इत्याचक्षते।' इति । महाभाष्ये ( १॥१॥५६ ) श्वोभूतेरुल्लेखो दृश्यते । श्वोभुतेर्वृत्तिग्रन्थोऽपि सम्प्रति नैवोपलभ्यते।

व्याडिः[सम्पादयतु]

व्याडिनाऽपि पाणिनीयसूत्रोपरि बृत्तिलिखितेति वैयाकरणानां विश्वासः। एवञ्च समुद्रगुप्तस्य ‘दाक्षीपुत्रवचोव्याख्यापदुः' इति वचनेनापि सिद्धयति । किचित् श्वोभूतिव्याडिप्रभृतयः' इति न्यासकारवचनोच्च तस्य वृत्तिकृत्त्वं सिध्यति । वृत्तिकारो व्याडिः संग्रहकार एवेत्यपि निश्चीयते समुद्रगुप्तवचनात् ।

कुणिः[सम्पादयतु]

कुणिनामा कश्चिदाचार्योऽपि पाणिनीयसूत्रोपरि वृत्ति प्रणिनायेति भर्तृहरिकैयटहरदतादिकृतोद्धरणतो ज्ञायते । भर्तृहहि तद्धितश्वासर्वविभक्तिः[८] इति सूत्र सम्बद्धमहाभाष्यव्याख्याने लिखति- ‘अत एषां व्यावृत्यर्थः कुणिनाऽपि तद्धितग्न हणं-कर्तव्यम्' इति ।

तथैव ‘एङ् प्राचां देशे[९] इति सूत्रस्य महाभाष्याव्याख्यानावसे कैयट उल्लिखति -

'कुणिना प्राग्ग्रहणमाचार्यनिर्देशार्थ व्यवस्थितविभाषार्थञ्च व्याख्यानम्। •••भाष्यकारस्तु कुणिदर्शनम शिश्र यत्' इति ।

तत्रैव पदमञ्जरीकारो हरदत्तो लिखति--

‘कुणिना तु प्राचां ग्रहणमाचार्यनिर्देशार्थ व्याख्यातं, भाष्यकारोऽपि तथैवाशिश्रयत्' इति । अनेन हि कुणिना पाणिनीयसूत्रोपरि बृत्तिलिखितेति ज्ञायते । तत्कृतवृत्तिग्रन्थस्तु सम्प्रति नैवोपलभ्यते । स हि उपर्युक्तोद्धरणाद्भाष्यकारात्पूर्ववर्तीति तु ज्ञायते । तदतिरिक्तं तस्यैतिह्य न किमप्यस्माकं ज्ञातमस्ति ।

माथुरः[सम्पादयतु]

माथुरी हि कश्चिद्वैयाकरण, पतञ्जलिपूर्वस्थितिमानपि पाणिनीयसूत्रो-२ परिबृत्तिग्रन्थं प्रणीतवानिति ग्रन्थान्तरसमुद्धरणतो ज्ञायते । महाभाष्ये उक्तम् - 'यत्तेन प्रोक्त न च तेन कृतं माथुरी वृत्तिरिति ।

काशिकायां[१०] च ‘अन्येन कृता माथुरेण प्रोक्ता माथुरी, वृत्तिः' इति निदष्टम् । भाषावृत्तिकारः ‘तदशिष्यं संज्ञाप्रमाणत्वातु[११] इति सूत्रव्याख्याने कथयति-माथुर्यां तु वृत्तौ मशिष्यअहणमापदमनुवर्तते' इति । महाभाष्ये हि कालोपसर्जने चे, तुल्यम्[१२] इति पर्यन्तमशिष्यानुवृत्तिर्मता । माथुरवृत्तौ तु आपादसमाप्तेरेव। महाभाष्ये हि जाति व्यक्तिञ्च पदार्थमेव मत्त्वा १२।७३ सूत्राणां यत्प्रत्याख्यानं कृतं सम्भवति तन्माथुरवृत्याश्रयणेनैव ।

वररुचिः[सम्पादयतु]

वररुचिरपि पाणिनीयसूत्रोपरि वृत्तिग्रन्थं प्रणिनायेति विद्वज्जनश्रुतिः । स हि ने केनाऽप्युद्धृतो वृत्तिकृत्वेन न च तस्य वृत्तिग्रन्थ एव सम्प्रत्युपलभ्यते । वररुचिह विक्रमादित्यस्य सभापण्डित आसीदित्यपि श्रूयते । तैत्तिरीयप्राति शाख्यव्याख्या, निरुक्तसमुच्चयः, सारसमुच्चयः, लिङ्गविशेषविधिः प्रयोगविधिः, कालतन्त्रोत्तरार्धः, प्राकृतप्रकाशः, कोशः, उपसर्गसूत्रम्, पत्रकौमुदी, विद्यासुन्दरप्रसङ्गकाव्यं, च तत्कर्तृत्वेन प्रसिद्धग्रन्थाः ।

देवनन्दी[सम्पादयतु]

पूज्यपादापरनामा देवनन्दी जैनेन्द्रशब्दानुशासनस्य प्रणेता पाणिनीयसूत्रोपरि शब्दावतारन्याससंज्ञकं वृत्तिग्रन्थञ्चकारेति -

‘न्यासं जैनेन्द्रसंज्ञं सकलबुधमतं पाणियीयस्य भूयो ।

न्यासं शब्दावतारं मनुजततिहितं वैद्यशास्रञ्च पूज्यपादः ।।

यस्तत्वार्थस्य टीकां व्यरचयदिहवै मात्यसौ कृत्वा।

स्वामी भूपालवन्द्यः स्वपरहितवचः पूर्णदग्बोधवृत्तः ।। इति कथनाज्ज्ञायते ।

एतदतिरिक्तं देवनन्दिनः कृतित्वेन जैनेन्द्रव्याकरणं, धातुपाठः गणपाठः, लिङ्गानुशासनं, परिभाषापाठः, शिक्षासूत्राणि च प्रसिद्धानि । तस्य च स्थिति.. कालो हि विक्रमानन्तरपञ्चमशतकपूर्वं एवेति युधिष्ठिरमहाभागेन निर्दिष्टमस्ति ।

दुर्विनीतः[सम्पादयतु]

दुर्विनीतनाम्ना ५३९-५६९ मितवैक्रमाब्देषु स्थितिमता विदुषा पाणिनीयव्याकरणस्य ‘शब्दावतार' इति संज्ञिता वृत्तिः प्रणीताऽऽसीदिति ‘श्रीमत्कोङ्कणमहाराज्यधिराजस्याविनीतनाम्नः पुत्रेण शब्दावतारकारेण देवभारतीनिबद्धबृहत्कथेन किरातार्जुनीयपञ्चदशसर्गटीकाकारेण दुविनीतनामधेयेन’ इति पृथिवीकोङ्कणराजस्य दानपत्राज्ज्ञायते । स हि पूज्यपादस्य शिष्य आसीत् ।

चुल्लिभट्टिः[सम्पादयतु]

चुलिभट्टिनाम्ना विदुषाऽपि पाणिनीयसूत्रोपरि वृत्तिग्रन्थः प्रणीत इति । ‘वृत्तिः पाणिनीयसूत्राणां विवरणं चुल्लिभट्टिनिलूरादिविरचितम्' इति काशिका । प्रथमश्लोकव्याख्यायां न्यासकारवचनाज्ज्ञायते । तथैव सव्येष्ठा इति सारथिवचनोऽयम् । अत्र चुल्लिभट्टिवृत्तावपि तत्पुरुषे कृति बहुलमित्यलुगू दृश्यते' इति तन्त्रप्रदीपे[१३] मैत्रेयरक्षितवचनात्, “हृदयङ्गमा वागिति चुल्लिभट्टि', इति हरिनामामृतवृत्तिवचनाच्चापि तस्य वृत्तिप्रणेतृत्वं सिध्यति । तद्ग्रन्थस्तुसम्प्रति नैवोपलभ्यते । तस्य च स्थितिकालः काशिकापूर्वं इत्येवानुमीयते ।

निर्लूरः[सम्पादयतु]

निराऽऽख्येन विदुषाऽपि पाणिनीयसूत्रोपरिवृत्तिः प्रणीताऽऽसीदिति ‘वृत्तिः । पाणिनीयसूत्राणां विवरणं चुल्लिभट्टिनिरादिविरचितम्' इति न्यासकार वचनात् ‘वृत्ताविति सूत्रार्थप्रधानो ग्रन्थो भट्टिनिलूरप्रभृतिभिविरचित::::: इति विद्यासागरवचनाच्च ज्ञायते। तथैव ‘निलूरवृत्तौ चोक्त-भाषायामपि • यङलुगस्तीति'' कातन्त्रपरिशिष्टे श्रीपतिदत्तवचनात् तेन बोभवीति इति सिद्धयतीति नैर्लेरी वृत्तिः' इति ज्ञापकसमुच्चये पुरुषोत्तमदेववचनाच्चतज्ज्ञायते । निर्लरोऽपि काशिकाकारात्प्राचीन इति तु न्यासकारवचनाज्ज्ञायते किन्तु तस्यायमेव स्थितिकाल इति तु न शक्यते इयत्तया वक्तुम्

चूर्णिः[सम्पादयतु]

चूर्णर्नाम्ना विदुषाऽपिसूत्राणां वृत्तिः प्रणीताऽऽसीदिति ‘मतमेतच्चूणिरप्यनुगृह्णाति' इति ‘संयोगावयवव्यञ्जनस्य सजातीयस्यैकस्य बानेकस्योंच्चारणाभेद इति चूणः' इत्यपि कातन्त्र परिशिष्टवचनात् शब्दशक्तिप्रकाशिकोल्लेखाच्च ज्ञायते । तथैव--

हन्तेः कर्म व्युपष्टम्भात् प्राप्तुमर्थे तु सप्तमीम् ।

चतुर्थो बाधिकामाहुश्चूर्णिभागुरिवाग्भटाः ॥

इति शब्दशक्तिप्रकाशिकोद्धारणाच्च तस्य वत्तिकत्वं ज्ञायते । तस्य च ग्रंथप्रकृतिविषये स्थितिकालविषये च नास्माददिकं किञ्चिज्ज्ञातमस्ति ।

जयादित्यः वामनश्च[सम्पादयतु]

जयादित्यस्य वामनस्य च काशिकावृत्तिः पाणिनीयसूत्रवृत्तिषु केन्द्रस्थानीया । सा हि तत्पूर्ववतवृत्ती: संग्रहाति तत्पश्चाद्वतिनीबृत्तिश्नोपजीवयति । सा हि न सर्वत्र महाभाष्यमनुवदीत् अपितु प्राचीना वृत्तीरेवात्मसत्करोति। एषा हि पाणिनीयशब्दानुशासनस्य प्राच्यपाठमनुसरति । तत्रत्यः पाठो वृद्धपाठत्वेन च स्मृतः । सा च क्वचित् जयादित्यनाम्ना क्वचिच्च जयादित्यवामनयोः संयुक्तनाम्ना च स्मृता दृश्यते । तयोश्च कर्तृत्वविभागे ऽपि पण्डिता नैकमत्यं भजन्ते । केचिद्धि विशेषतो बालशास्त्रिप्रभृतयः प्रथमचतुर्णामध्यायानां जयादित्यकृता उत्तरचतुर्णा वामनकृता इति मन्यते । शब्दरत्नकारो हुरिदीक्षितस्तु प्रथमद्वितीयपञ्चमषष्ठाध्यायानां वृत्तिस्तु जयादित्यकृती शेषाणां वामनकृतेति मन्यते । युधिष्ठिरो हि मीमांसकस्तु प्रथमपञ्चाध्यायानां जयादित्यकृता शेषाणाञ्च वामनकृतेति निर्दिशति संप्रमाणम् । केचितु समग्रमेव कृतिमुभयसम्बद्धां मन्यन्ते । यथार्थस्तु युधिष्ठिरमेवानुयाति । रचना• शैलीदृष्ट्यापि तथ्यमेतदेव प्रत्येति । प्रथमपञ्चाध्यायसम्बद्धरचनापेक्षया. शेषाध्यायसम्बद्धा रचना प्रौढा प्राञ्जला च ।

जयादित्यस्य समयो विक्रमानन्तरसप्तमशतकभवः । चीनदेशीयः पर्यटकः इत्सिङ्गनामा जयादित्यस्य निधनं ७१८ मितवैक्रमाब्दे सञ्जातमित्युल्लिखति । स हि काशिकायां[१४] भारवेः ‘संशय कर्णादिषु तिष्ठते यः' इति पद्यांश" मुद्धरति । भारविश्च विक्रमानन्तर पञ्चमशतकपूर्ववर्तीति ५३९-५६९ मितमैक्रमाब्दानभितः स्थितिमता दुविनीतेन किरातार्जुनीयस्य पञ्चदशसर्गस्य व्याख्यानासिध्यति । तेनाऽस्येयमेव पूर्व सीमा ।

संस्कृतसाहित्ये हि वामननाम्नाऽनेके विद्वांसः उल्लिखित दृश्यन्ते। एकश्च वामनो विश्रान्तविद्याधरव्याकरणकर्ता । स च गणरत्नमहोदधौ स्मृतः । अपरश्च काव्यानुशासनसूत्रप्रणेता वामनः काश्मीरको जयापीडामात्यः । अपरश्च हर्षवर्धनान्तरवर्ती लिङ्गानुशासनप्रणेता । वृत्तिकारश्च तद्भिन्न एवेति युधिष्ठिरमीमांसकमतम् । तदनुसारेण हि विश्रान्तविद्याधरकर्ता वामनो वैक्रमतृतीयशतकपूर्वस्थितिमान्, काव्यालङ्कारकारश्च वैक्रमनवमशतकपूर्वार्द्धवंर्ती । ये एव लिङ्गानुशासनकर्ताऽपि सम्भवतः । वृत्तिकारश्च वामनो भागवृत्तिकाले पूर्ववर्ती जयादित्यसमकालिकः । भागवृत्तौ हि जयादित्यवामनावेव यत्र कुत्र समालोचितावपि स्तः । भागवृत्तः कालः ७०२-७०५ मितवैक्रमाब्दाननमित इति वृत्तिकारस्य वामनस्य तत्पूर्ववर्तित्वं सिध्यत्येव ।

जयादित्यवामनौ हि समकालिकौ वा पूर्वापकालिकाविति प्रश्नोऽनिर्णीत एव तिष्ठति । तत्रापि प्रथमं तु तयोः वृत्तिकृत्त्वं संयुक्त वा पृथगेवेति प्रश्न एव निर्णोतव्यः । जिनेन्द्रबुद्धेः काशिकाविवरणपञ्चिका जयादित्यवामनयोः सम्मिलितबृत्तावस्ति किन्तु न्यासकृतोद्धरणतस्तु प्रतीयते यत्ताभ्यां सम्पूर्णाष्टाध्याययामेव पृथगेव वृत्तिः प्रणीतेति । यथा---

‘ग्लाजिस्थश्च स्नुः'[१५] इत्यत्र जयादित्यवृत्तौ ग्रन्थः । श्युकः किति[१६] इत्यत्रापि जयादित्यवृत्तौ गकारोऽप्यत्र चत्वंभूतों, निदश्यते भूष्णुरित्यत्र यथा स्यादिति । वामनस्यत्वेतत् सर्वमनभिमतमु ।' तथाहि तस्यैव सूत्रस्य[१७] तद्विरचितायां वृत्तौ ग्रन्थः केचिदत्र ।'इति। । अनेन । सिध्यति यदष्टाध्याय्याः तृतीयसप्तमाध्याययोर्जयादित्यवामनयो ‘भयोरेव वृत्तिरासीदिति ।

'नास्ति विरोधी भिनकर्तृ कत्वात् । इदं हि जयादित्यवचनं न पुनर्वासनस्य । वामनवृत्तौ[१८] तासिसिचोरिकार उच्चारणार्थो नानुबन्धः पठ्यते । अनेनापि कथनेन तृतीयाध्यायेऽप्युभयोरेव वृत्तिरासीदिति सिध्यति । अनित्यत्वं तु प्रतिपादयिष्यते जयादित्येन' इति[१९] अनेन षष्ठी ध्यायेऽपि वामनस्य वृत्तिरासीदिति । अनेनैतदपि सिध्यति यद्धरदत्तजिनेन्द्रबुद्धिसमयपर्यन्तमपि उभावेव वृत्तिः । ग्रन्थौ उपलभ्यावास्ताम् । तौ च कदा सम्मिलिनवृत्तावेव न्यासंव्याख्यो । प्रणीताऽस्ति । भागवृत्तांवपि सम्मिश्रितवृत्योरेव खण्डनमुपलभ्यते । भागवत प्रणयनकालश्च ७०२-७०५ मितवैक्रमाव्दाः । अतस्तत्पूर्वमेव तयोः सम्मिश्रणं सञ्जातमित्यनुमीयते । सामान्यत इदमेव विश्वस्यते यत्काशिकायाः पूर्वाद्धो हि जयादित्यकृतिरुत्तरार्द्धश्च वामनस्येति । अनेन तयो समकालिकत्वमेवानुमीयते । तत्रापि जयादित्यो वामनात्पूववर्येव ।

काशिका हि अष्टाध्यायीवृत्तिषु केन्द्रवतिनी । तस्याश्च वैशिष्ट्यं विचक्षणैरित्थं सूचितम् -

१. कुणिप्रभृतप्रणीतप्राचीनवृत्तिषु गणपाठ उपेक्षित आसीत् । अस्यां तु सोऽपि यथास्थानं निवेशितः ।

२. अस्यां हि प्राचीना लुप्तप्राया वृत्तयोऽपि सङ्गृहीताः सन्ति ।

३. अत्र ' हि सूत्राणां व्याख्या प्राचीवृत्याधारेण कृताऽस्ति । यत्र यत्र हि | महाभाष्येण सह विरोधस्तत्र तत्र प्राचीना वृत्तयं एवावलम्बिताः सन्ति ।

४. अस्यां हि उदाहरणप्रत्युदाहरणादीनि प्राचीनवृत्तिभ्य एव गृहीतानि , सन्ति येन प्राचीनैतिहासिकतथ्यानां ज्ञाने सम्भवति ।

५. इयं हि पूर्णा वृत्तिः । तदनुर्वातन्योऽन्या वृत्तयः प्रत्यक्षमेव वा परोक्षा रूपेणेमामेवानुजीवन्ति । काशिकायाः पाठश्च नितान्तभ्रष्ट इति युधिष्ठिरमीमांसकः सूचयति । स हि तत्र पाठशोधनस्यावश्यकतामनुभवति ।

इन्दुमित्रः[सम्पादयतु]

'इन्दुमित्रो हि विचक्षणः काशिकावृत्तेरनुन्यासव्याख्यायाः प्रणेता अष्टाध्यायी। सूत्रोपरि इन्दुमतिसंज्ञितं वृत्तिग्रन्थं कृतवानिति प्रक्रियाकौमुद्या विठ्ठलाचार्यस्य प्रसादटीकोल्लेखनती ज्ञायते । स हि तत्रोल्लिखति.: ‘एतच्च इन्दुभित्रमतेनोक्तम् । 'प्रत्ययः इति सूत्रे प्रत्याय्यते त्रायतेऽर्थोऽस्मादिति प्रत्ययः । पुंसि संज्ञायां धः प्रायेण इति शान्तस्य प्रत्ययशब्दस्यान्वर्थस्य निषेधो ज्ञापक इति भावः । तथा च इन्दुमत्यां वृत्तावुक्त प्रतेस्तु व्यञ्जनव्यव हितो य इति भवति निमित्तम् इति केषाञ्चिन्मते प्रतेरपि भवति ।'

परिभाषावृत्तौ सीरदेव उल्लिखति| अनुन्यासकारः-प्रत्ययसूत्रे अनुन्यासकार उक्तवान् प्रतियन्त्यनेनार्थानिति प्रत्ययः । एच्[२०] इत्यच् । पुंसि संज्ञायां धः प्रायेण[२१] इति वा ध इति ।

मैत्रेयः पुनराह–पुंसि संज्ञायामिति घ एव । एरच्[२२] इत्यत्र करणे ल्युटा वाधितत्वान् न शक्यते कर्तुम् । न च वा सरूपविधिरस्ति कृत्यलुडित्यादिवचनात् । अनेन सिध्यति यदिन्दुभित्रो मैत्रेय पूर्ववर्ती अनुन्यासस्य इन्दुमतीवृत्तेश्च प्रणेतेति । इन्दुमती सम्प्रति नैवोपलभ्यते किन्तु विट्ठलाचार्येणावश्यमेव दृष्टा स्यात् ।

मैत्रेयरक्षितः[सम्पादयतु]

धातुप्रदीपकर्ता मैत्रयरक्षितः पाणिनीयसूत्रोपरि दुर्घटवृत्ति प्रणीतवानिति , उणादिवृत्तौ उज्ज्वलदत्तकृतात् ।

श्रीयमित्यपि भवतीति दुर्घटे रक्षितः ।

कृतिकारादिति ङीषि लक्ष्मीत्यपि भवतीति दुर्घटे रक्षितः । इत्याद्युद्धरणात् ज्ञायते ।

शरणदेवेनापि दुर्घटवृत्तिः प्रणीताऽस्ति यस्याहि सर्वरक्षितेन परिष्कारः कुतः । किन्तु उक्तवचनं तत्र नैवोपलभ्यत इति रक्षितशब्देन मैत्र यरक्षितस्यैव ग्रहणमितिः ।

पुरुषोत्तमदेवः पाणिनीयाष्टकमधिकृत्य पुरुषोत्तमदेवस्य भाषावृत्तिः प्रसिद्धा । स हि काशिकापेक्षया लघुत्वाद् लघुवृत्तिरपि संज्ञिताऽस्ति । अत्र हि लौकिकसूत्राणामेव व्याख्याऽस्ति तेनेय भाषावृत्तिरपि । एतदतिरिक्त पुरुषोत्तमदेवस्य दुर्घटवृत्तिरप्यस्तित्वं सर्वानन्देन अमरकोषटीकासर्वस्वे -

‘पुरुषोत्तमदेवेन गुर्वणीत्यस्य दुर्घटेऽसाधुत्वमुक्तम् । इति वचनाज्ज्ञायते । तथैव शरणदेवेन दुर्घटवृत्तौ पुरुषोत्तमदेवनाम्ना अनेके ह्य तादृशा पाठा उद्धृताः । सन्ति ये खलु भाषवृत्तौ नैव सन्ति । भाषावृत्तिमधिकृत्य सृष्टिधरेण भाषाविवृत्यर्थ विवृतिनाम्नी व्याख्या प्रणीताऽस्ति । स हि स्ववृत्यर्थमनेकान् ग्रन्थानुद्धरति मेदिनीकोष–सरस्वतीकण्ठाभर-- मैत्रयरक्षित--केशव-प्रभृतीन् । सृष्टिधरस्य वृत्तिहि बालोपकारिणी । पुरुषोत्तमदेवश्च वैक्रमद्वादशशतकपूर्वभव इति ज्ञायतेऽनेकैः प्रमाणैः ।

शरणदेवः[सम्पादयतु]

शरणदेवेन अष्टाध्याय्या दुर्घटवृत्तिः प्रणीतेति सिद्धेव । सा चाष्टाध्याय्या * विशिष्टसूत्रेष्वेवाधृता । व्यवहारे प्रसिद्धानां किन्तु सामान्यतः प्रचलितव्याकरणनियमेनासिद्धानां शब्दानां साधुत्वंप्रदर्शनाय वृत्ति रेषा प्रणीता दृश्यते । तेनेयमन्वर्थनाम्नी ।

यद्यपि दुर्घटवृत्तेर्खण्डनमपि समुपलभ्यतेऽर्वाचीनग्रन्थेषु तथापि अस्याः महत्वं न तेन हीयते यतः प्रचलितानां किन्तु सामान्यतो व्याकरणनियमैरसिद्धानां शब्दानां साधनप्रयं वृत्तिः सर्वत्र प्राप्तादरैव । संस्कृतव्याकरणपरम्परायां ह्यनेका दुर्घटवृत्तय : समुपलभ्यन्ते । मैत्र यरक्षितस्य दुर्घटवृत्तिः, पुरुषोत्तमदेवस्य दुर्घटवृत्तिः, शरणदेवस्य दुर्घटवृत्तिः सर्वरक्षितस्य परिष्कृता दुर्घटवृत्तिश्च । अपरञ्च शब्दसाधुत्वप्रदर्शनप्रकरणे देर्घटवृत्तौ ह्यनेके प्राचीना आचार्यास्तेषां कुतयश्च प्रकरणानुसारं समुद्धता सन्ति दुर्घटवृत्तौ यतः प्राचीनग्रन्थकारग्रन्थविष पर्याप्तः प्रकाश प्रसरति । सम्प्रति हि शरणदेवस्य दुर्घटवृत्तिरेव समुपलभ्यते । शरणदेबेन ग्रन्थोऽयं १२३० वैक्रमाव्दे पूरितमिति तत्रत्य वचनादेव ज्ञायते ।

अघननैनार्यः[सम्पादयतु]

विक्रमानन्तरपञ्चाशदधिकपञ्चदशशतकमभितः स्थिति मता अधननैनार्येणापि पांणिनीयाष्टकोपरि प्रक्रियादीपिकानाम्नी वृत्तिः प्रणीताऽस्ति युधिष्ठरमहाभागः सूचयति ।

अन्नम्भट्टः[सम्पादयतु]

१५४०-१६०० मितवैक्रमाब्दानभितः स्थितिमता प्रसिद्धनैयायिकेन अन्नम्भट्ट न पाणिनीयसूत्रोपरि पाणिनीयमिताक्षरा नाभ्नी वृत्तिः प्रणीताऽस्ति । सो च न तादृशवैशिष्टयमावहति येन तस्या वैलक्षण्यं प्रस्फुटेदित्याशयो युधिष्ठरमीमांसकस्य एषा वृत्तिः साधारणी' इति कथनस्य ।

भट्टोजिदीक्षितः[सम्पादयतु]

१५७०-१६५० मितवैक्रमाव्दानभितः . स्थितिमता भट्टोजिदीक्षितेन पाणिनीयाष्टकोपरि शब्दकौस्तुभनाम्नी महती वृत्तिः प्रणीताऽस्ति । साऽप्यधुनी सम्पूर्णा नैवोपलभ्यते । वस्तुतस्तु शब्दकौस्तुभो महाभाष्य-प्रदीप-काशिका-पदञ्जरीणां नवावतार एव । स हि दाक्षिणात्यो ब्राह्मणः काशीवासी लक्ष्मीधरस्य पुत्रः ।

वैयाकरणभूषणकर्ता कौण्डभट्टस्तस्य भ्रातृव्यः अमरकोशस्य रामाश्रमीटीका प्रणेता भानुजस्तस्य ज्येष्ठपुत्रः शब्दरत्नाकरो हरिदीक्षितस्तस्य पौत्र इति । स हि शब्दकौस्तुभे शेषकृष्णं तत्त्वकौस्तुभे तु अप्पयदीक्षितं गुरुरिति स्मरति । व्याकरणमधिकृत्य तस्य शब्दकौस्तुभः प्रथमः प्रयासः ततश्च सिद्धान्ते-* कौमुद्याः प्रौढमनोरमाव्याख्या । स एव कथयति कोमुद्या उत्तरकृदन्तप्रकरणान्ते---

इत्थं लोकिकशब्दानां दिङ्मात्रमिह दशतम् ।

विस्तरस्तु यथाशास्त्रं दशतः शब्दकौस्तुभे ।। इति ।

एतदाश्चर्यं यद् दिङ्मात्रदर्शक शास्त्रं. परा ख्यातिमगात्, यथाशास्त्रप्रवर्ततग्रन्थस्तु सम्प्रति लुप्तप्राय एव । तस्य च वेदभाष्यसारः अमरटीका ३ पूर्वोक्त तरग्रन्थाविति । शब्दकौस्तुभस्य च नागेशस्य च विषमपदी, वैद्यनाथपायगुण्डेमहोदयस्य प्रभा, विद्यानाथशुक्लस्य उद्द्योतः, राघवेन्द्राचार्यस्य प्रभा, कृष्णमित्रस्य भावप्रदीपः भास्करदीक्षितस्य शब्दकौस्तुभेदूषणञ्च व्याख्याग्रन्थाः ।

अप्पयदीक्षितः[सम्पादयतु]

१५७५-१६५० मितवैक्रमाब्दानभितः स्थितिमान् अप्पयदीक्षितोऽपि । पाणिनीयाष्टकोपर सूत्रप्रकाशनामव्याख्यां . प्रणीतवान् । सं हि रङ्गराजस्य पुत्रो भारद्वाजगोत्रो महाशैवः । तस्य हि विविधे विषये शतं ग्रन्थाः सन्तीत्युच्यते । यथोक्त -

कालेन शम्भुः किल तावताऽपि कलाश्चतुः षष्टिमिताः प्रणिन्ये ।

द्वासप्ततिं प्राप्यसमाः प्रबन्धाज्छतं . व्यधादप्पयदीक्षितेन्द्रः ॥ इति ।

नीलकण्ठः[सम्पादयतु]

१६००-१६७५ मितवैक्रमाव्दानभितः स्थितमता नीलकण्ठेनापि पाणिनीयसूत्राणां पाणिनीयदीपिका नाम्नी व्याख्या कृताऽऽसीदति तस्यैव ‘अस्मत्कृतपाणिनीयदीपिकायां स्पष्टमिति परिभाषावृत्ताबुल्लेखेन ज्ञायते ।

विश्वेश्वरसूरिः[सम्पादयतु]

विश्वेश्वरस्य व्याकरणासिद्धान्तसुधानिधिः' पाणिनीयोष्टक वृत्तिष्वन्यतमः। एषा शब्दकौस्तुभशैलीमनुसरति । अस्य च स्थितिकाल १६००-१६५० मितवैक्रमाब्दानभितोऽनुमीयते इति ।

विशेश्वरः[सम्पादयतु]

लक्ष्मीधरसूनुना विश्वेश्वराख्येन विचक्षणेन पाणिनीयाष्टकस्य सिद्धान्तसुधानिधिनामको विवेचनात्मको वृत्तिग्रन्थः प्रणीतोऽस्ति । स हि सम्प्रति चतुध्यायस्य प्रथमाध्यायसमाप्तिपर्यन्तमेवोपलभ्यते ।।

गोपालकृष्णः[सम्पादयतु]

१६५०-१७०० मितवैक्रमाब्दानभितः स्थितिमता' गोपालकृष्णेनापि शाब्दिकचिन्तामणिनाम्नी पणिनीग्राष्टकवृत्तिः प्रणीतेति ज्ञायते।

रामचन्द्रभट्टः[सम्पादयतु]

१७५०-१८२५ मितवैक्रमाब्दानभितः स्थितिमान् रामचन्द्रभट्टश्च पाणिनीयाष्टकोपरि पाणिनीयसूत्रबृत्तिनाम्ना, वृत्तिग्रन्थः प्रणीतवानिति युधिष्ठिरभीमांसकलेखतो ज्ञायते ।

गोकुलचन्द्रः[सम्पादयतु]

गोकुलचन्द्राख्येन बुर्धासहपुत्रेण जगन्नाथशिष्येण १८९७ मितवैक्रमाब्दे । पाणिनीयसूत्रोपरि लघुवृत्तिग्रन्थः प्रणीतोऽस्ति । तत्र हि केवल सूत्रसम्बद्धो-' दाहरणान्येव प्रस्तुतानि सन्ति ।

ओरम्भट्टः[सम्पादयतु]

ओरम्भट्टन विदुषाँ पाणिनीयसूत्राणां व्याकरदीपिकाख्या वृत्तिः प्रणीताऽस्ति । तस्य हि काल: विक्रमानन्तरैकोनविंशतिशतकोत्तरार्द्धः ।

दयानन्दस्वामी[सम्पादयतु]

१८८१-१९४० मितवैक्रमाव्दानभितः स्थितिमता स्वामिदयानन्द सरस्वत्याख्येन महाविचक्षणेन पाणिनीयाष्टकोपरि अष्टाध्यायीभाष्यनाम्नी वृहती वृत्तिः प्रणिताऽस्ति ।

नारायणसुधीः[सम्पादयतु]

नारायणाख्येन विदुषा पाणिनीयसूत्राणां शब्दभूषणनाम्ना ख्याता अष्टाध्यायी प्रदीपाभिधाना वृत्तिः प्रणीतांऽस्ति । सुविस्तृता एषा वृत्तिर्वार्तकानपि समावेश्य व्याख्याति तथैवोणादिसूत्राणि फिट्सूत्राणि च अस्य स्थितिकालस्त्वज्ञात एव ।'

रुद्रधरः[सम्पादयतु]

रुद्रधरेणाऽपि अष्टाध्यायी वृत्तिः प्रणीतेति श्रूयते । स हि मैथिलो धर्मशास्त्रज्ञश्च । तस्य स्थितिकालोऽनिर्णीत एव ।

उदयनः[सम्पादयतु]

उदयनस्य पाणिनीयाष्टकोपरि मितवृत्यर्थसङ्ग्रहनाम्नी वृत्तिरस्तीति नः। सूचयति युधिष्ठिरमहाभागः । तस्य हि बृत्तिबृन्तिसार एव । यथा स एव कथयति -

मुनित्रयमतं ज्ञात्वा वृत्तिरालोच्य यत्नतः ।

करोत्युदयनः . साधुमितवृत्यर्थसङ्ग्रहम् ॥ इति ।

उदयङ्करभट्टः[सम्पादयतु]

उदयङ्रेणापि विदुषा 'मितवृत्यर्थं सङ्ग्रहनाम्नी एव पाणिनीयसूवृत्तिः .. प्रणीतेति तस्यैव परिभाषाप्रदीपचरिति संज्ञिते व्याख्या ग्रन्थे -

कृत्वा पाणीनिसूत्राणां मितवृत्यर्थसङ्ग्रहम् ।

परिभाषाप्रदीपाचस्तत्रोपायो निरूप्यते ॥ इति कथनाज्ज्ञायते ।

रामचन्द्रः[सम्पादयतु]

रामचन्द्रेणाऽपि विदुषा पाणिनीयसूत्रोपरि वृत्ति ग्रन्थः प्रणीतोऽस्ति । स हि काशिकायाः सारसंक्षेपरूपः । तस्यैतिह्यमज्ञातमेव ।

सदानन्दनाथः[सम्पादयतु]

सदानन्देनाऽपि पाणिनीयसूत्राणां तत्वदीपिका नाम्नी बृत्तिः प्रणीताति । तद्विषये वयं नातोऽधिकं जानीमहे ।।

देवदत्तशास्त्री[सम्पादयतु]

देवदत्ताख्येन विदुषाऽपि पाणिनीयसूत्राणां संक्षिप्तवृत्तिः प्रणीताऽस्ति । तस्य प्रणयनकालश्च १९४३ मितवैक्रमाब्दः ।।

भीमसेन शर्मा[सम्पादयतु]

१९११-१९७४ मितवैक्रमाब्दानभितः स्थितिमता : भीमसेनाख्यविदुषा प्रत्येक सूत्राणां पदच्छेदपूर्वक बृत्तिग्रन्थः प्रणीतोऽस्ति पाणिनीयसूत्रोपरि।

जीवारामः[सम्पादयतु]

पण्डितवरेण जीवरामशर्मणाऽपि पाणिनीयसूत्राणां बृत्तिग्रन्थः प्रणीतोऽस्ति यस्य प्रणयनकाल: १९६२ मितवैक्रमाब्दः ।

गङ्गादत्तः[सम्पादयतु]

१९२३-१९९० मितवैक्रमाब्दानभितः स्थितिमता गङ्गादत्तेनापि पाणिनीयाष्टकस्य तत्त्वप्रकाशिकानाम्नी वृत्तिः प्रणीताऽस्ति । एषा हि मध्यमा वृत्तिः ।

जानकीलालमाथुरः[सम्पादयतु]

जानकीलालाख्येन विदुषाऽपि पाणिनीयसूत्रोपरि एको वृत्तिग्रन्थः प्रणीतोऽस्ति एषा हि संक्षिप्तबृत्तिः । अस्याः प्रणयनं १९८५ मितवैक्रमाब्दनभितः सज्ज्ञातम् ।

ब्रह्मदत्तजिज्ञासुः[सम्पादयतु]

१९४९-२०२१ मितवैक्रमाब्दानभितः स्थितिमता महाप्राज्ञेण ब्रह्मदत्तेनापि अष्टाध्याया सुविस्तृता वृत्तिः प्रणीताऽस्ति । अस्यां हि सूत्राणां पदच्छेदः समासश्च प्रदर्शितः । ततश्च बृत्तिरुदाहरणप्रत्युदाहरणे च । बहुत्र शब्दसाधनप्रकारमपि निर्दिष्टमस्ति।

गुरुप्रसादशास्त्री[सम्पादयतु]

प्रकाण्डपण्डितेन गुरुप्रसादशास्त्रिणा अप्टाध्याया सरलानाम्नी वृत्तिः | ' प्रणीताऽस्ति । नितान्तसंक्षिप्त यं बृत्ति यंत्रकुत्र तु उदाहरहमपि विस्मरति ।

गोपालशास्त्री[सम्पादयतु]

गोपालशास्त्रिणा ‘बृहदृजुपाणिनीयम्' इति पाणिनीयाष्टकोपरि बृत्तिग्रन्थो लिखितः । तत्रः हि पदच्छेद-समास-बृत्ति-उदाहरणानि प्रतिसूत्रं क्रमेण दत्तानि । एतदतिरिक्तं पाणिनीयप्रबोधः, ऋजुपाणिनीयम् च व्याकरणसम्बद्धग्रन्थौ । अस्य । |च भेट्टिकाव्ये टीका प्रसिद्धा ।

जयदत्तशास्त्री[सम्पादयतु]

जयदत्ताख्येन उप्रेती इत्युपाह्वन विपश्चितोऽपि •काशिकामाश्रित्य लघुआशिकानाम्नी पाणिनीयाष्टकोपरि बृत्तिलिखिताऽस्ति। अस्या हि वैशिष्टयविषये स्वयमेव ग्रंथकारः कथयति -

'परन्विह प्रायशः प्रतिसूत्र' पदच्छेदविभक्तिसमासानुवृत्त्य दाहरणानि विशदं लिखितानि ।' इति । ग्रन्थोऽयं २०२३ मितवैक्रमाब्दे पूर्णतामागादित्यपि तत्रैवोल्लिखितमस्ति । अस्य हि पाणिनीयाष्टकविषयसूचिश्व प्रकरणोपयोगी ग्रन्थः ।

सुदर्शनाचार्यंत्रिपाठी[सम्पादयतु]

सुदर्शनाचार्येणाऽपि पाणिनीयसूत्रोपरि लघुकाशिका नाम्नी वृत्तिः प्रणीताअस्ति ।.असौ वस्तुतः काशिकायो एव लघुरूपम् । ग्रन्थश्चायं २०२९ मितवैक्रभाब्दं पूर्णतामगादिति तत्रत्यलेखाज्ज्ञायेत् ।

हरिशंकरशर्मा[सम्पादयतु]

हरिशङ्कराख्येन विपश्चिताऽपि पाणिनीयर्शब्दानुशासनं सात्विकपाठे सङ्कलय्य प्रतिसूत्रं यथावश्यकोदाहरणमुपस्थाप्य लक्ष्यसुचिभिश्च समलङ्कृत्य प्रकाशितमस्ति । अत्र हि सोदाहरणसूत्राणि, उणांदिप्रकरणं, पाणिनीयशिक्षा, गणपाठः, धातुपाठः लिङ्गानुशासनम्, फिट्सूत्राणि, परिभाषापाठः, अप्टकलक्ष्यसूचिः, उणादिलक्ष्यसूचिः लिङ्गानुशासनलक्ष्यसूचिः, फिट्सूत्रलक्ष्यसूचिः, अष्टाध्यायीसूत्रसूचिः, धातुसूचिश्च क्रमेण समुपस्थापिताः सन्ति । अस्य च वैशिष्ट्ये लक्ष्यसूचिरेव ।।

प्रह्लादगिरिः[सम्पादयतु]

प्रह्लादगिरिणाऽपि पाणिनीयाष्टकस्य सूत्रविवरणात्मकटिप्पणी प्रणीता ऽस्ति । तत्र हि तेन विपश्चिता विशिष्टस्थले विवृतिरपि निर्मता दृश्यते । पदच्छेदादिसामग्रीभिः समलङ्कृतोऽयं ग्रन्थः स्वविषये नवीनप्रयोगस्योदाहरणम् ।। अस्यैव पाणिनीयलिङ्गानुसासनोपरि प्रह्लादव्याख्याऽपि लभ्यते । तत्र हि । पदच्छेदसमाससूत्रार्थोदाहरणादिविषयाः सप्रपञ्च समुस्थापिताः दृश्यन्ते । असौ हि उत्कलाभिजनो वाराणसीवास्तव्यः । अस्य स्थितिकालो विक्रमानन्तरैव वंशतिशतकम्।

सम्बद्धाः लेखाः[सम्पादयतु]

  1. १।२।१
  2. १॥१॥५६
  3. ४।१।११७
  4. ६॥२॥१०४
  5. ५॥१॥५०
  6. ५।१।९४
  7. ७।२।११
  8. १।१।३८
  9. १।१।७५
  10. ४।३।१०१
  11. १॥२॥५७
  12. १॥२॥५७
  13. ८।३।७
  14. १।३।२३
  15. ३।२।१३९
  16. ७।२।११
  17. ७।१।११
  18. ३।१।३३
  19. ६॥४॥२२
  20. ३।३।५९
  21. ३।३।११८
  22. ३।३।५९