अमरावती, आन्ध्रप्रदेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आन्ध्रप्रदेशः

अमरावती
नगरम् ।
कृष्णानदी
कृष्णानदी
राष्ट्रम्  भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलम् गुण्टूरु
Time zone IST
दूरवाणीसङ्केतः २५४

एतत् प्राचीननगरम् द्विसहस्रवर्षेभ्यः प्रागेव बौद्धानां स्थानम् आसीत् । अत्र बौद्धशिल्पानां दर्शनं भवति । २० बौद्धमठाः सन्ति । कृष्णानदीतीरे स्थिते अमरावती नगरे अनेकबौद्धस्मारकाणि(स्थूपाः) सन्ति । पूर्वं सहस्रशः बौद्धभिक्षवः अत्र आसन् । स्थूपेषु भगवतः बुद्धस्य सुन्दरप्रतिमाः सन्ति । अष्टादशशतके सर्वं विनष्टम् अभवत् । इदानीं तस्य अवशेषाः चेन्नैनगरे वस्तुसङ्ग्रहालये सन्ति । पूर्वम् एतत् नगरं शातवाहनसाम्राज्यस्य राजधानी आसीत् । अमरेश्वरदेवालयः अत्र सुप्रसिद्धः अस्ति । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति ।

वाहनमार्गः[सम्पादयतु]

गुण्टूरुतः ३२ कि.मी । विजयवाडा हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

गुण्टूरु, मछलीपट्टणम् मार्गे माचेर्ला निस्थानतः समीपे अस्ति ।