योगाय स्थानविचारः
योगाय स्थानविचारः कश्चन अतीव महत्त्वपूर्णः साधनापक्षः वर्तते। परिवेशः बहुधा सुख-दुःखयोः, विकास-पतनयोः, ज्ञान-अज्ञानयोः, सुविधा-असुविधयोः च निर्धारणं करोति। यदि साधकः योग्यं स्थानं न प्राप्नोति, तर्हि तस्य मार्गः अतीव दुष्करः, दुष्प्राप्यः च भवति। तद्विपर्यये तु साधकः स्वशक्तिं, ध्यानं च केवलं साधनायां निक्षेप्तुं शक्नोति। अनेन तस्य सहजः विकासः भवितुम् अर्हति। अतः सः स्थानविचारः अपि कुर्यात् इति महत्त्वपूर्णम्।
योग
हठप्रदीपिकानुसारं स्थानविचारः
[सम्पादयतु]मठिकायै देशविचारः
[सम्पादयतु]मठिकायाः परिवेशः योगिनं प्रभावयितुं शक्नोति, अतः योगानुकूलः परिवेशः आवश्यकः भवति। अत एव उक्तं यत् -
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।
धनुःप्रमाणपर्यन्तं शिलाऽग्निजलवर्जिते।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना।।१२।।
हठयोगिना एकान्ते, सुराज्ये, धार्मिके-देशे, सुभिक्षे, निरुपद्रवे, मठिकामध्ये, धनुःप्रमाणपर्यन्तं, शिला-अग्नि-जल वर्जिते (स्थाने) स्थातव्यम्।
अर्थात्, हठयोगी एतादृशे एकान्त-स्थाने निवसेत्, यत्र राज्यम् अनुकूलं स्यात्, देशः धार्मिकः स्यात्, धन-धान्येन परिपूर्णः स्यात्, यः सर्वप्रकारकेभ्यः उपद्रवेभ्यः रहितः स्यात्। एतादृशे स्थाने, कस्मिंश्चित् आश्रमे लघ्व्यां मठिकायां निवसेत्, यत्र चतुर्हस्तपरिमिते स्थाने पाषाणः, अग्निः, जलं वा न स्यात्।
अत्र 'सुराज्ये', 'धार्मिके', 'सुभिक्षे', 'निरुपद्रवे' इत्येतेतानि विशेषणानि 'देश'-शब्दाय प्रयुक्तानि सन्ति। योगः कश्चन अतीव गहनः, दुष्प्राप्यः च विषयः वर्तते। एतस्य अभ्यासे व्यर्थप्रयासाः साक्षात् साधनां बाधयन्ति। यतः प्रतिपलं योगी योगविषयकं चिन्तनं करोति उत शरीरेण क्रियां करोति। रात्रौ स्वप्नकाले अपि योगसिद्धान्तम् एव सः अवगन्तुं प्रयतते। सप्तदिनेषु चतुर्विंशतिः होराः यावत् यदि एतदेव कार्यं करणीयम् अस्ति, तर्हि तत्र पूर्णतया ध्यानं दातव्यं भवति। तत्र यदि अप्राकृतिकवातावरणत्वात् योगाय अननुकूलं वातावरणं भवति, यदि अधार्मिकाणां जनानां कारणेन विक्षेपः भवति, यदि पराधिनस्य साधकस्य कृते भीक्षा अनुपलब्धा भवति, यदि समाजे, देशे, प्रदेशे च सर्वदा बाह्येभ्यः उत आभ्यान्तरेभ्यः आततायिभ्यः भयः भवति, तर्हि साधना अतीव दुष्करा भवति। अत एव योगिनः साधनास्थानम् अपि अतीव विचिन्त्य चितं स्थानम् आवश्यकम्।
- 'सुराज्ये' - अनेन अभिप्रायः अस्ति यत्, तत् स्थानं प्राकृतिक-सुषमायुक्तं, वन्य-सम्पदाभिः परिपूर्णं च स्यात्। सुराज्यस्य का परिभाषा भवेत्? सुराज्यम् इत्युक्ते प्राकृतिकतया, राजनैतिकतया, आर्थिकतया, सांस्कृतिकतया च राज्यं सुस्थिरं स्यात्। साधनायाः प्रदेशे निर्मलता, सद्व्यवहारः च अतीव महत्त्वपूर्णः पक्षः भवति। एतत् सर्वमपि राज्यस्य राजव्यवस्थायाः उपरि आधारितं भवति। राजव्यवस्था च राज्ञः व्यवहारैः, बौद्धिक-क्षमताभिः च प्रभाविता भवति। अतः वास्तव्येन सुराज्ये इत्यनेन राज्ञः सुशासनं सङ्केतयति। तेन सह राज्यस्य प्राकृतिक-सम्पदः अपि सङ्केतं करोति।
- 'धार्मिके' – अनेन तात्पर्यम् अस्ति यत्, तत्रस्थानां निवासिनां मनोवृत्तिः धार्मिकी स्यात्। धार्मिकता काचित् आचारप्रक्रिया वर्तते। तस्याः प्रभावः राज्यस्य शीर्षात् प्रजां यावत् गच्छति। बहुधा विपरीततया प्रजायाः राजनं यावत् अपि गच्छति। अतः स्वानुकूलधर्मेण युक्ते देशे साधकः बाधाः न अनुभवति। यतः साधकाय कीदृशं वातावरणम् आवश्यकम् अस्ति इति सर्वे अवगच्छन्ति, सर्वे तस्य सहयोगं च कुर्वन्ति। इतिहासः प्रत्यक्षप्रमाणत्वेन सङ्केतं करोति यत्, यदा योगी तादृशे देशे, शासने च साधनां कर्तुम् इच्छति, यत्र राजा उत प्रजा धर्माचरणे उत अनुकूलधर्मे च नास्ति, तर्हि तेग बहादुर-गुरुः[१] [२] [३], हकीकतरायः च एतस्य उदाहरणम् अस्ति।
- 'सुभिक्षे' – अनेन अभिप्रायः वर्तते यत्, अन्नं, जलं, फलं, मूलादिकं च सर्वथा उपलब्धं स्यात्। एतेषाम् अभावत्वात् मूलभूत-वस्तुभ्यः आयासः करणीयः भवति। साधकः बहुधा धनोपार्जनात् अतीव दूरे तिष्ठति, यतः सांसारिक-विषयेभ्यः सः स्वात्मानं दूरे स्थापयति। एतस्यां स्थित्यां तस्य पार्श्वे धनोपार्जनस्य किमपि साधनं न भवति, न तु सः धनोपार्जनं कर्तुम् इच्छति। एतस्यां स्थित्यां सः भीक्षायाः माध्यमेन स्वस्य आवश्यकतानां पूर्तिं कर्तुम् इच्छति। परन्तु देशे दुष्कालः, अतिवृष्टिः, पाकदोषः, आर्थिक-दरिद्रता, आध्यात्मिक-दरिद्रता च भवति, तर्हि सः योग्यतया स्वस्य मूलभूतानाम् आवश्यकतानां पूर्तिं कर्तुं न प्रभवति। एतादृश्यां स्थित्यां तस्य साधनायां विक्षेपः भवति। अतः सः देशः सुभिक्षः भवेत् इत्युक्तम्।
- 'निरुपद्रवे' - अनेन अभिप्रेतम् अस्ति यत्, तस्मिन् देशे नियमानां, राजव्यवस्थानां च सुचारुरीत्या पालनं भवेत्। स्थिरता एव योगिनः जीवने अतीव आवश्यकः पक्षः भवति। यदि प्रतिदिनं किमपि किमपि बाधापूर्णं भवति, तर्हि तस्य मनसि अनेके विक्षेपाः भ्रमन्ति। सः स्वरक्षायाम् एव स्वमनः निक्षिपेच्चेत् साधनायां समयं कदा दद्यात्? तस्य कृते चौरैभ्यः, लुण्ठकेभ्यः, आक्रान्तृभ्यः च अभयः आवश्यकः भवति। उभयोः देशयोः मध्ये, जनेषु परस्परं, दुःशासनव्यवस्थायाः कारणेन नागरिकेषु च यः कलहः, नगरीयद्वद्वः च भवति, सः साधनायां विक्षेपं जनयति। तथा न भवेत् इत्यपि साधकेन द्रष्टव्यम्।
मठिकायाः परितः
[सम्पादयतु]साधकः देशस्य, प्रदेशस्य च योग्यतया चयनं कृत्वा कुत्रचित् मठिकायाम् एकान्तवासं कुर्यात् इति बोधः तु प्राप्तः। परन्तु सा मठिका कीदृशी, कुत्र च भवेत् इत्यपि स्वामी स्वात्मारामः वदति। यथा -
अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतम् ।
सम्यग्गोमयसान्द्रलिप्तममलं निःशेषजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितम् ।
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ।।१३।।
मठिका तु अल्पद्वारम् अरन्ध्रगर्तविवरं, न अति उच्चं न अतिनीचं, न आयतमं, सम्यक्-गोमय-सान्द्रलिप्तम्, अमलं, निःशेषजन्तूज्झितं, बाह्ये मण्डप-वेदि कूप-रुचिरं (तथा च) प्राकारसंवेष्टितम् (भवितव्यम्) । हठाभ्यासिभिः सिद्धैः योगमठस्य इदं लक्षणं प्रोक्तम् ।
अर्थात्, तस्याः मठिकायाः द्वारं लघु स्यात्, तस्यां कुत्राऽपि छिद्रम् अथवा बिलं (मूषकाणां, सर्पादीनां वा) न स्यात्, तत्रस्था भूमिः असमा (अत्युच्चा, अतिनीचा) न स्यात्, अधिका विस्तृता अपि न स्यात्। सा मठिका गोमयस्य स्थूल-मात्रायां लिप्ता, स्वच्छा, कीटादिभ्यः रहिता च स्यात्। तस्याः बहिः मण्डपः, वेदी, योग्यः कूपः, मठिकायाः बहिस्तनं भागं परितः भित्तिका स्यात्। सिद्धैः हठयोगिभिः योगमठस्य एतादृशं लक्षणम् उक्तम् अस्ति।
यदि उक्तं वर्णनं ध्यानेन पठामः, तर्हि बोधः भवति यत्, अत्र मठिकायाः वर्णनेन सह मठिकां परितः स्थितस्य भागस्य अपि महत्त्वं वर्णितम् अस्ति इति। यतः बोधः भवति यत्, मठिकां परितः स्थिता भूमिः अपि विचिन्तनीयः विषयः वर्तते इति। सा भूमिः एव मठत्वेन स्वीकर्तुं शक्यते। अर्थात्, योग्यदेशे, मठमध्ये च काचित् मठिका रचनीया भवति। परन्तु उक्तवर्णनानुसारं यदि काचित् मठिका नास्ति, तर्हि अपि साधकः स्वानुकूले स्थाने साधनां कर्तुं प्रभवति। उक्तमठिकायाः अभावे सः योगाभ्यासाय अयोग्यः न सिद्ध्यति। उक्तमठिकायां यदि साधकः साधनां करोति, तर्हि तस्य प्रयासः अतीव अल्पः भवति। स्वानुकूले वातावरणे सः अधिकं समयं योगसाधनायां नियोजितुं शक्नोति।
एकान्ते मनोनिग्रहः
[सम्पादयतु]एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः ।
गुरूपदिष्टमार्गेण योगमेव सदाभ्यसेत् ।।१४।।
एवं विधे मठे स्थित्वा (साधकः) सर्वचिन्ताविवर्जितः (सन्) गुरूपदिष्टमार्गेण सदा योगम् एव अभ्यसेत्।
साधनानुकूलं स्थानम् एव पर्याप्तं नास्ति, यतः अनुकूलतायां सत्याम् अपि मनसः योगक्रियायां प्रवृत्तिः अतीव महत्त्वपूर्णा भवति। बहुधा गृध्राः आकाशे डयमानाः अपि सर्वदा दृष्टिं भूमिस्थं मांसम् एव अन्विषन्ति, तथैव यदि कुत्रचित् एकान्ते मठिकामध्ये अनुकूले स्थाने स्थित्वा साधकः विषयाणां चिन्तायाम् एव समयं यापयितुं शक्नोति। तादृश्यां स्थित्यां सर्वप्रयत्नः व्यर्थः भवति। अतः गुरूपदिष्टस्य मार्गस्य एव अनुसरणं कृत्वा मनोनिग्रहपूर्वकं सर्वदा योगाभ्यासः करणीयः इति तात्पर्यम् अस्ति। जीवने अनेके विषयाः सन्ति, ये सन्मार्गं प्रति नयन्ति, अनेकानि कार्याणि सन्ति, यानि कृत्वा साधकः अनुकूलतां प्राप्तुं शक्नोति, परन्तु तेभ्यः सर्वेभ्यः विषयेभ्यः आत्मानं दूरे कृत्वा केवलं गुरूपदिष्टमार्गेण एव योगाभ्यासः करणीयः भवति, ततः एव योगयोग्ये वातावरणे साधना सुफला भवति।
सम्बद्धाः लेखाः
[सम्पादयतु]- हठप्रदीपिका
- हठप्रदीपिकायाः आसनानि
- हठप्रदीपिकायाः प्राणायामाः
- हठप्रदीपिकायाः मुद्राः
- हठप्रदीपिकायाः नादयोगः