हठप्रदीपिका
हठप्रदीपिका स्वामिस्वात्माराम-विरचितः कश्चन हठयोग-सिद्धान्त-प्रतिपादकः ग्रन्थः वर्तते। एतस्य ग्रन्थस्य पञ्च उपदेशाः सन्ति। एषः ग्रन्थः मुख्यतया आसन-प्रणायाम-मुद्रा-नादयोगानाम् उपस्थापनं करोति।
हठप्रदीपिका-ग्रन्थस्य विदुषां, हठयोगिनां च कृते स्वात्मारामस्य हठयोगसम्बद्धस्यास्य अतीव महत्तवम् अस्ति। यद्यपि स्वात्मारामः तासां यौगिकप्रक्रियाणाम् उपरि अधिकं बलं दत्तम् अस्ति, यासु ब्राह्य-आचरणानां स्थानं महत्त्वपूर्णम् अस्ति, तथाऽपि स एव एतत् निर्देशयति यत् यौगिक-प्रक्रियाः कस्यचित् अण्डक्रमस्य रूपेण सन्ति इति। अत एव सः हठयोगं, राजयोगं च योगस्य भिन्नविभागत्वेन न स्वीकरोति, प्रत्युत तस्य अन्योन्याश्रितत्वम् अङ्गीकरोति। उक्तं यथा -
हठं विना राजयोगो राजयोगं विना हठः ।
न सिद्ध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्॥[१]
हठप्रदीपिका हठयोगस्य कश्चन अतिमहत्त्वपूर्णः ग्रन्थः वर्तते, यत्र प्राणायामस्य सम्प्रति सुविज्ञातानां अष्टप्रकारणां विस्तारेण वर्णनं प्राप्यते। स्वात्मारामस्य एतस्याः रचनायाः अनन्तरम् अनेक योगिनः हठयोगविषये लेखितुं प्ररिताः जाताः। अतः तेभ्यः सर्वेभ्यः स्वात्मारामः आदर्शभूतः आसीत्। एतस्य अनुमानं योगचिन्तामणिः, हठरत्नावली, हठसङ्केतचन्द्रिका, हठतत्त्वकौमुदी इत्येतादृशानां पुस्तकानाम् आलोढनेन कर्तुं शक्यते। स्वात्मारामः हठयोगस्य मुनीनां, योगिनां च उभयोः परम्परयोः सफलतापूर्वकं सामञ्जस्यं स्थापयित्वान्, यस्य स्पष्टः उल्लेखः वर्तते। यथा-
वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः ।
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ।।[२]
हठप्रदीपिकायाः नामकरणम्
[सम्पादयतु]एतस्य पुस्तकस्य एतावतां सर्वेषां मुद्रणानां संस्करणेषु नाम "हठयोगप्रदीपिका' एव अस्ति। यद्यपि तेषु द्वयोः संस्करणयोः समाप्तिवाक्ये "योग” इतिशब्दः न प्राप्यते।[३] अपरत्र, अनेकेषु मातृकाग्रन्थेसु पुस्तकस्य नाम "हठयोगप्रदीपिका” नास्ति। स्वात्मारामः अपि प्रस्तुतस्य पुस्तकस्य प्रथमोपदेशस्य तृतीये श्लोके “हठप्रदीपिका” इति उल्लिखति, न तु "हठयोगप्रदीपिका' इति।
रचयिता
[सम्पादयतु]स्वात्मारामः हठप्रदीपिकायाः रचनां कृत्वा योगिजनानां मार्गदर्शनं करोति। तस्य ग्रन्थः हठयोगस्य कश्चन महत्त्वपूर्णः ग्रन्थः वर्तते। १६३१ ई. परितः एतस्य कालः मन्यते।
रचनाकालः
[सम्पादयतु]डा. पी. के. गोडे इत्येषः हठप्रदीपिकायाः समयं १३६० तः १६५० ई. मध्यस्य कालावधौ स्वीकरोति।[४]। “कविकाव्यकालकल्पना” इति निश्चितरूपेण एतस्य रचनाकालः १६३१ ई. मन्यते।
डा. पी. के. गोडे इत्यस्य अनुसारं शिवानन्दसरस्वती-महोदयः एतस्य ग्रन्थस्य रचनाकालं १५०० तः १८६० ई. मध्ये स्वीकरोति । अतः सः एतस्य आधारेण 'हठप्रदीपिका'याः समयस्य अन्तिमां सीमां निर्धारयति, यतः शिवानन्दसरस्वतीरचितायां योगचिन्तामणौ हठप्रदीपिकायाः अनेकानि उद्धरमानि सन्ति।
स्वात्मारामः नित्यनाथम् एकं महासिद्धं (१-७) कथयति। डा. फर्कुहर इति एतस्य आधारेण एव हठप्रदीपिकायाः रचनायाः आरम्भिकां सीमां १३५० ई. निश्चितां करोति। डा. पी. के. गोडे अपि एतस्य तर्कस्य अनुमोदनं करोति। यदि तस्य अनेन तर्केण सह सहमतिः भवेत्, यदि एष एव नित्यनाथः ‘रत्नसमुच्चय'स्य लेखकः अस्ति, यस्य रचनाकालः डा. पी. सी. राय (हिस्ट्री ऑफ केमिस्ट्री, वो. १) इत्यनेन १३०० ई. स्वीकृतः, तर्हि 'हठप्रदीपिका'याः रचनाकालः निश्चयेन १३०० ई. पश्चात् स्वीकर्तव्यः भवति।
योगस्य एतादृशस्य महत्त्वपूर्णस्य ग्रन्थस्य अन्तिमः सीमाकालः अपि चिन्तनीयः महत्त्वपूर्णः विषयः। एतस्मिन् चिन्तने कृते सति ज्ञायते यत्, 'नेशनल लायब्रेरी, कलकत्ता' इत्यत्र संरक्षितायाः 'हठप्रदीपिका'याः मातृग्रन्थसंस्करणं (सं. टी. एच. ३२१) वर्तते, यस्य समयः संवत् १८६८ तदनुसारं १६२९ ई. अस्ति, यः डा. गोडे द्वारा निर्दिष्टेभ्यः पुरातनतमेभ्यः मातृकाग्रन्थेभ्यः अपि ६६ वर्षाणि पुरातनः अस्ति।
अतः अनेके विद्वांसः ग्रन्थस्यास्य रचनाकालं १४ शताब्द्याः मध्यात् आरभ्य १६ शताब्द्याः मध्यकालं यावत् (१३५०-१५५० ई.) स्वीकुर्वन्ति। एवं प्रकारेण १६२९ ई. इत्यस्य मातृकाग्रन्थद्वारा कविकाव्यकालकल्पनायाः १६३१ ई. इत्यस्य खण्डनं भवति।
हठप्रदीपिकायाः परिमाणः
[सम्पादयतु]विविधानां संशोधकानां संशोधनानुसारं वक्तुं शक्यते यत्, हठप्रदीपिकायाः यानि अपि संस्करणानि मातृकाग्रन्थत्वेन प्राप्यन्ते, तेषु प्रायः चत्वारः एव उपदेशाः सन्ति। अतः सामान्यतया एवं विश्वासं कर्तुं शक्यते यत्, हठप्रदीपिकायाः केवलं चत्वारः उपदेशाः सन्ति इति। किन्तु केषाञ्चन संशोधकानां दीर्घकालीनस्य, कष्टसाध्यस्य च शोधस्य अनन्तरं कोऽपि मातृकाग्रन्थः प्राप्तः, यस्य पञ्च अध्यायाः आसन्। परन्तु तेषु मातृकाग्रन्थेषु नवीने पञ्चमे अध्याये कोऽपि विशेषः विषयः न प्राप्यते। पञ्चमाध्याये उक्ताः सर्वेऽपि विषयाः पूर्वोपदेशेषु अन्तर्भूताः एव आसन्। यथा - पञ्चमे उपदेशे 'वज्रोली'-मुद्रायाः निरूपणं वर्तते, तत्र लिखितम् अस्ति यत्, तृतीयोपदेशे निरूपतस्य शक्तिचालनस्य पूर्वम् एतस्याः मुद्रायाः अभ्यासः करणीयः इति।[५]
'इण्डिया ऑफिस लायब्रेरी, लन्दन' इत्यस्य विस्तृतायां पाण्डुलिपि-सूच्यां (भागः ४ पू. ६०० सं. १८३६-१८३७) अपि एवमेव स्वीकृतं स्यात्। अपरत्र पूना-विश्वविद्यालय-पुस्तकालये (सं. २४०२), नासिकनगरस्य च सार्वजनिक-वाचनालये मातृकाग्रन्थे समाविष्टे पञ्चमोपदेशे तेषां रोगाणाम् उपचारस्य निरूपणं कृतम् अस्ति, ये अनुचिततया यौगिक-अभ्यासस्य कारणेन समुत्पन्नाः स्युः। मन्यते यत्, अन्येषु केषुचिदपि मातृकाग्रन्थेषु एतस्य विषयस्य वर्णनं न प्राप्यते। भवतु तत्र चत्वारः उत पञ्च उपदेशाः अपि अन्तर्भूताः स्युः। अतः कालसम्मानितः एषः विचारः यत्, हठप्रदीपिकायाः केवलं चत्वारः उपदेशाः सन्ति इति अप्याप्तसाक्ष्याधारेण सिद्धं भवति।
‘एशियाटिक सोसायटी ऑफ बंगाल, कलकत्ता' इत्यस्य पुस्तकालये संरक्षितस्य मातृग्रन्थस्य, सङ्ख्या जी. १०५२१, सं. १८९२ इत्यस्य समाप्तिवाक्यम् एवम् अस्ति। “इति हठप्रदीपिकायां पंचमोपदेशः”। एतस्मिन् मातृकाग्रन्थे केवलं षट्पत्राणि सन्ति। कश्चन विषयः अस्ति यत्, शरीरस्य छायायाः सूरप्रकाशे दर्शनोत्तरं तस्य मानसिक-चित्रम् (नेत्रम् उद्घाट्य) आकाशे दर्शनात् मनुष्यः स्वस्य जीवनस्य परिणामं ज्ञातुं शक्नोति। अतः एकस्य मातृकाग्रन्थस्य नाम “छाया-पुरुष-दर्शन-विधानम्" इति वर्तते।
भारत इतिहास संशोधक मण्डल, पूना इत्यत्र अपि कश्चन “छाया-पुरुषलक्षण" इति नाम्ना लघुः मातृकाग्रन्थः (सं. २२७) अस्ति। एतस्य मातृकाग्रन्थस्य समाप्तिवाक्य-प्रकारः अस्ति - “इति श्री शांकरीगीतायाम् हरप्रदीपिकायाम् उमामहेश्वरसंवादे कालज्ञाने छायापुरुषलक्षणम् नाम पंचमपटलः” इत्यनेन प्रतीयते यत्, मातृकाग्रन्थस्य विषयवस्तु स्वात्मारामस्य हठप्रदीपिकायाः पञ्चमोपदेशः न भवति। “एशियाटिक सोसायटी" इत्यस्य मातृकाग्रन्थे त्रुट्या 'ठ' इत्यस्य समानतया 'र' लिखम् अस्ति।
'गोरक्षसिद्धान्तसंग्रहे (पृष्ठ ३८) एकत्र हठप्रदीपिकायाः विषये सङ्केतः प्राप्यते यत्, एतस्य दश उपदेशाः सन्ति इति। परन्तु एतावता एतस्य मातृकाग्रन्थस्य पञ्च उपदेशेभ्यः अधिकस्य किमपि संस्करणं न प्राप्तम् स्ति। कैवल्यधाम-संस्थायाः हठप्रदीपिकायाः प्रकाशने ४०९ श्लोकाः सन्ति। "कविकाव्यकालकल्पना”याम् एतस्य ग्रन्थस्य श्लोकसङ्ख्या ५०० विद्यते। “इण्डिया आफिस, लन्दन” इत्यस्य मातृकाग्रन्थे ४०१ श्लोकाः सन्ति। आक्सफोर्ड-सूच्याः २३३ पृष्ठस्य अन्तर्गततया ५६६ नं. इत्यस्य मातृकाग्रन्थे केवलं ३३१ श्लोकाः विद्यन्ते। एवं हठप्रदीपिकायाः श्लोकेषु भेदः प्रकाशनानुसारं दरीदृश्यते।
हठप्रदीपिकायाः मौलिकता
[सम्पादयतु]स्वात्मारामः कांश्चन श्लोकान् अन्यग्रन्थेभ्यः मूललेखकानाम् उल्लेखम् अकृत्वा उद्धृतवान् अस्ति। यथा - १-३६, ४५ । किन्तु केचन प्रसिद्धाः श्लोकाः अपि हठप्रदीपिकायां प्राप्यन्ते, येषाम् उद्गमस्थानविषये कोऽपि सन्देहः न भवति। यथा - ‘सङ्कल्पमात्रकलनैव जगत्समग्रम्' (४-५८), योगवासिष्ठस्य ३, १०१, ३९ इत्यत्र प्राप्यते। एतदतिरिक्ततया एतस्मिन् ग्रन्थे एतादृशाः श्लोकाः अपि सन्ति, ये अतीव प्रसिद्धाः न सन्ति, परन्तु केषुचित् ग्रन्थेषु प्राप्यन्ते। एतत् वक्तुं न शक्यते यत्, ते श्लोकाः स्वात्मारामः अन्यस्य स्वीकृतिं विना स्वीकृतवान् उत तैः लेखकैः स्वात्मारास्य स्वीकृतिं विना ते श्लोकाः अङ्गीकृताः इति। एवम् अपि सम्भवते यत्, हठप्रदीपिकया सह सर्वैः ग्रन्थैः सामान्य-मूलग्रन्थेभ्यः श्लोकाः स्वीकृताः स्युः इति।
मातृकाग्रन्थाः
[सम्पादयतु]सामान्यतः हठप्रदीपिकायाः एकादश-मातृकाग्रन्थाः प्राप्यन्ते। चत्वारि प्रकाशितानि संस्करणानि अपि सन्ति।
1) सं. ६२१ (१८८६-९२) भा. प्रा. वि. शो. सं., पुस्तकालयः, पूना । आकारः ६-१/२" ५”, पृष्ठस्य संङ्ख्या - १६, एतस्य ग्रन्थस्य तृतीयोपदेशे वज्रोलीप्रकरणं नास्ति। तत् पञ्चमे प्रकरणे योजितम् अस्ति। प्रथमोपदेशे श्लोकानां गणना ४५ एव अस्ति, परन्तु आरम्भिक-श्लोके “अथेकस्मिन्नेव दृढे बन्धे सिद्धासने सदा” इत्यस्य अनन्तरं सङ्ख्या न प्रदत्ता अस्ति। एतस्य मातृकाग्रन्थस्य अन्ते अन्यग्रन्थानां केचन श्लोकाः सन्ति। समाप्तिवाक्यं निम्नानुसारम् अस्ति “इति श्री आत्मारामविरचितायाम् हठप्रदीपिकायाम् पंचमोपदेशः इति।
2) सं. २६३ (१८७९-८०) भा. प्रा. वि. शो. सं, पुस्तकालयः, पूना, आकारः ८-१/२" ४-१/२” पृष्ठस्य सङ्ख्या २८ । एतस्मिन् मातृकाग्रन्थे क्रमशः - ६७, ८२, १३०, १४१ श्लोकात्मकाः चत्वारः अध्यायाः सन्ति। समाप्तिवाक्यम् एवं प्रकारेण अस्ति - "इति सहजानन्द सन्तानचिन्तामणि स्वात्मारामयोगिना विरचितायाम् हठप्रदीपिकायाम् चतुर्थोपदेशः इति । हठप्रदीपिकायोगशास्त्रसम्पूर्णम् । श्रीरस्तु ।” पुरोहित देवचन्दजिसुत रूपचन्देन स्वात्मार्थे लिखितम् । संवत् १८०६, शके १६७१ । पौष सुदि ८ गुरौ । श्रीरस्तु । सर्वग्रन्थ श्लोकसंख्या ४२० । श्री, श्री, श्री, श्री, श्री । एतस्मिन् ग्रन्थे अनेके दोषाः सन्ति।
3) सं. ६६५ (१८८३-८३) भा. प्रा. वि. शो. सं. पुस्तकालयः, पूना, आकारः - ८" ४” पृष्ठस्य संख्या ३३ । एतस्यायां मातृकायां चत्वारः उपदेशाः सन्ति, यस्यां क्रमशः ६९, ८१, १३३, १३४ श्लोकाः सन्ति। एतस्य समाप्तिवाक्यस्य स्वरूपम् एवम् अस्ति - "इति श्री सहजानन्द सत्ताम चिन्तामणि स्वात्माराम योगेन्द्रविरचितायां हठप्रदीपिकायाम् चतुर्थोपदेशः समाप्तिहि।”
4) सं. ३१६ (१८९५-९८) भा. प्रा. वि. शो. सं. पुस्तकालयः, पूना आकारः ९” ४” पृष्ठसङ्ख्या ५० । एतस्यां मातृकायां प्रथमस्य, चतुर्थस्य च उपदेशस्य अन्ते श्लोकानाम् आहत्यसंख्या क्रमशः ६३, ११५ च वर्तते। द्वितीयस्य, तृतीयस्य च उपदेशस्य श्लोकानाम् आहत्य संख्यायाः निर्देशः न प्राप्यते। एषः ग्रन्थः अतीव अशुद्धः अस्ति। ग्रन्थस्य अन्ते केचन श्लोकाः सन्ति, ये अन्येषु ग्रन्थेषु न सन्ति। एतस्य समाप्तिवाक्यम् एवम् अस्ति - इति श्री आत्माराम योगेन्द्र विरचितायाम् हठप्रदीपिकायाम् चतुष्टयः।।४।।
5) सं. ६१५ [१८८७-९१] भा. प्रा. वि. शो. सं पुस्तकालयः, पूना आकारः १२" x ६" पृष्ठस्य संख्या १०५, ज्योत्स्नानामिकायाः टीकायाः सहितं मूलग्रन्थः अस्ति। एतस्यां मातृकायां चत्वारः उपदेशाः सन्ति, येषु क्रमशः ६७, ७९, १३२, ११३ श्लोकाः सन्ति। खेमराज-द्वारा प्रकाशितग्रन्थः, अन्ये अपि एतस्य अनुगमनं कुर्वन्ति। एतस्य समाप्तिवाक्यम् एवं प्रकारेण अस्ति - इति श्री सहजानन्द सन्तान चिन्तामणि स्वात्माराम योगीन्द्र विरचितम् हठप्रदीपिकायाम् समाधि लक्षणं नाम चतुर्थोपदेशः ।। ४ ।। मूलग्रन्थस्य अन्तः एवं भवति - इदम् पुस्तकम् मेहदलेत्युपनाम गोविन्दात्मज नारायणेन लेखि । संवत् १९३१ । व्ययनाम संवत्सरे दक्षिणायने हेमन्तौ मार्गशीर्षे मासे कृष्णपक्षे षष्ठ्यां तिथौ इन्दुवासरे सायंकाले गंगाकाशीश्वर सन्निधौ समाप्त: । श्री कृष्णाय नमः । श्री गोपालकृष्णाय नमः ।।
6) सं. १३६३६ प्राच्यविद्यासंस्थानं, पुस्तकालयः, वडोदरा । ज्योत्स्नासहितः मूलग्रंथः, पृष्ठसंख्या ८७ । एषः ग्रन्थः अधिकतया योग्यः अस्ति। मातृकायाः समयसंवत् १९३१ तदनुसारं १७९६ ई.।
7) सं. ८२२ प्राच्यविद्यासंस्थानं, पुस्तकालयः, वडोदरा। केवलं मूलग्रन्थस्य पृष्ठसंख्या १९ । एतस्यायां मातृकायां केवलं प्रथमत्रयः अध्यायाः सन्ति।
8) सं. २४०२ पूना विश्वविद्यालयपुस्तकालयः, आकारः ९" x ४-१/२" पृष्ठसंख्या २७ । एतस्यां मातृकायां पञ्च उपदेशाः सन्ति। श्लोकानां गणना अपि क्रमशः अस्ति। आहत्य श्लोकसंख्या ३९० अस्ति। एषः मूलग्रन्थः अतीव अशुद्धः वर्तते।
9) सार्वजनिकवाचनालयः, नासिकः। एषः मातृकाग्रन्थः पञ्च उपदेशात्मकः अस्ति। एतस्य समयशकं १६२८ वर्तते।
10) सं. ६१७१ प्राज्ञपाठशालापुस्तकालयः, [जिला सतारा] संवत् १७४४ तदनुसारं १६८८ ई. ।
11) सं. ३९९ [१८९५ - ०२] पृ.सं.१६ दिनाङ्कः संवत् १७५१ तदनुसारं १६९५ ई.।
उपर्युक्ताः सर्वाः मातृकाः देवनागर्यां सन्ति। शब्दाः भिन्नाः सन्ति। । व्यंजन-वर्णानाम् अनुसारम् अनुनासिक-ध्वनीनां स्पष्टता नास्ति। अनुस्वारस्य चिन्हम् अव्यवस्थितरूपेण प्रयुक्तम् अस्ति।
मुद्रिताः ग्रन्थाः
[सम्पादयतु]1) ज्योत्स्नानामकटीकया सहितः मूलग्रन्थः । प्रकाशकः - लक्ष्मीवेंकटेश्वर प्रेस, बम्बई, सं.१९८१, शक १८४६ ।
2) आङ्ग्लानुवादेन सह मूलग्रन्थः । द्वितीयं संस्करणं, पंचमसिंह । प्रकाशकः ललितमोहन वसु, इलाहाबाद १९३२ ।
3) आङ्ग्लानुवादेन सहितः मूलग्रन्थः, ज्योत्स्नानामिका टीका च, प्रकाशकः, थियोसोफिकल पब्लिशिंग हाऊस, अडयार, मद्रास १९४९ ।
4) श्री वासुदेव महाशंकर जोशी द्वारा गुजरातीभाषायां टीकया सह मूलग्रन्थः, प्रकाशक-सस्तु साहित्यवर्धक कार्यालय, अहमदाबाद १९६३ ।
उक्तेषु सर्वेषु ग्रन्थेषु केचन पाठभेदाः सन्ति, ये स्पष्टतया लिपिकारस्य दोषाः सन्ति। केवलं पञ्चमोपदेशं विहाय विविधताः दृश्यन्ते।
विषयवस्तु
[सम्पादयतु]स्वात्मारामः एतस्य पुस्तकस्य चतुर्थोपदेशे एतादृशस्य विषयस्य वर्णनम् अकरोत्, यः सामान्यतया 'राजयोगः' इत्युच्यते। तथाऽपि एतस्य ग्रन्थस्य नाम असङ्गतं वक्तुं न शक्यते। यतः स्वात्मारामः हठयोगं, राजयोगं च भेददृष्ट्या न पश्यति। अपि तु सः तौ परस्परं पूरकौ स्तः इति चिन्तयति। तस्य अनुसारं हठयोगः, राजयोगः च योगस्य द्वौ पक्षौ स्तः, ययोः कालान्तरे हठयोगत्वेन प्रसिद्धिः जाता। यदा कश्चन योगी योगपथावलम्बनं करोति, तदा सः प्रप्रथमं शारीरिक-क्रियाद्वारा प्रारम्भं करोति। सम्भवं भवति यत्, तस्यां क्रियायां काऽपि मानसिकी उत आध्यात्मिकी चेतना न प्राप्येत। परन्तु शीघ्रं हि सः क्रमशः योगस्य मानसिकपक्षेण, आध्यात्मिकपक्षेण च सह परिचितः भवेत्।
एवं प्रकारेण वक्तुं शक्यते यत्, योगिक-प्रक्रियाणाम् अखण्डक्रमः तेभ्यः यौगिक-अभ्यासेभ्यः आरभते, यासु शारीरिक-क्रियाः प्रधानाः भवन्ति। ततश्च ताः यौगिक-स्थितौ परिणताः भवन्ति, यत्र आध्यात्मिक-अनुभवानां विशिष्टं स्थानं भवति। अत एव स्वात्मारामः हठयोगं सोपानत्वेन सङ्केतयति।
प्राणायामः
[सम्पादयतु]“नाडीनां सर्वप्रकारकाः मलाः केवलं प्राणायामानाम् अभ्यासेन दूरीकर्तुं शक्यन्ते" एतस्य मतस्य स्पष्टोल्लेखः केवलं स्वात्मारामः अकरोत्। उक्तं यथा –
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति ।
आचार्याणां तु केषांञ्चिद् अन्यत् कर्म न संमतम् ।। [६]
तस्य मतानुसारं क्रियाः (षट्क्रियाः) सर्वेभ्यः अनिवार्याः न सन्ति, अपि तु तासाम् अभ्यासः तेभ्यः एव आवश्यकः अस्ति, येषां शरीरे मेदस्य, श्लेष्मादिकस्य च अधिकता वर्तते।
स्वात्मारामस्य अनुसारं योगस्य केवलं चत्वारि अङ्गानि सन्ति । परन्तु अन्ययोगवित्सु कश्चन षष्ठाङ्गस्य, (गोरक्षः, अमृतनादोपनिषद्), कश्चन सप्ताङ्गस्य (घेरण्डः), कश्चन अष्टाङ्गस्य (पतञ्जलिः, [[मण्डलब्राह्मणोपनिषद्], शाण्डिल्योपनिषद्), कश्चन तु पञ्चदशाङ्गस्य (तेजोबिन्दूषनिषद्) च योगस्य चर्चां करोति।।
पुराणेषु, स्मृतिषु च प्रणायामस्य प्रकारद्वयस्य चर्चा भवति। सगर्भः (मन्त्रयुक्तः), अगर्भः (मन्त्ररहितः) च । किन्तु स्वात्मारामः प्राणायामस्य अभ्यासं मन्त्रोचारणेन सह न योजयति।
स्वात्मारामस्य यमः, नियमश्च
[सम्पादयतु]स्वात्मारामः यमस्य, नियमस्य च गणना योगाङ्गेषु न कृता। किन्तु योगाभ्यासस्य मार्गे तयोः अपेक्षितमहत्त्वं सः स्वीकरोति। यथा –
यमेष्विव मिताहार अहिंसा नियमेष्विव ।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः॥[७]
आश्चर्यस्य विषयः अस्ति यत्, सः अहिंसायाः नियमे. मिताहारस्य यमे च परिगणनाम् अकरोत् इति। अनेन अनुमातुं शक्यते यत्, स्वात्मारामः पतञ्जलेः भिन्नायाः कस्याश्चित् अन्यायाः योगपरम्परायाः अनुसरणं करोति इति। यद्यपि दत्तात्रेयसंहिता (३२-३३), योगतत्त्वोपनिषद् च (२८) अहिंसां नियमेषु, मिताहारं यमेषु एव स्वीकुरुतः। किन्तु आश्चर्यस्य विषयः अस्ति यत्, यमस्य, नियमस्य च किमपि विस्तृतं विवरणं न प्राप्यते इति। अपरत्र एवम् अनुमानं कर्तुं शक्यते यत्, यतः केचन मिताहारस्य यमेषु, अहिंसायाश्च नियमेषु गणनाम् अकुर्वन्, इत्यतः स्वात्मारामः अपि उपर्युक्तानां लेखकानां परम्परायाः अनुसरणं कृतवान् स्यात् इति।
“प्राचीनतमः कारिकायाः भाष्यं प्राप्तवान्, यस्याः चीनीभाषायां अनुवादः परमार्थेन तेषु दिनेषु कृतः, यदा सः चीनदेशे ई. ५५७ तः ५६९ पर्यन्तं प्रायः द्वादशवर्षपर्यन्तं साहित्यनिर्माणे प्रवृत्तः आसीत् ।”[८]
महतः अष्टौ रूपाणि सन्ति, सत्त्वगुणस्य चत्वारः तमोगुणस्य चत्वारश्च । यानि सत्वगुणैः युक्तानि सन्ति, तानि - धर्मः, ज्ञानं, लालसा-राहित्यं, शक्तिः च । धर्मस्य किं रूपम् अस्ति? तर्हि – यमः, नियमश्च । यमस्य पञ्च भागाः सन्ति – अक्रोधः, गुरुशुश्रूषा, शौचः, आहारलाघवम्, अप्रमादश्च। नियमस्य अपि पञ्च भागाः सन्ति - अहिंसा, अस्तेयं, सत्यं, ब्रह्मचर्यम्, अचाटुकारिता (चापलूसी नहीं करना) । एतेषां दशानां पालनम् एव धर्मपालनम् इत्युच्यते।[९] एषः सम्पूर्णः विषयः जर्नल आफ बाम्बे एशियाटिक सोसायटी (१९०५) पृष्ठं ४७, (१९३१), पृष्ठं ६२३-३९ इत्यत्र वर्णितम् अस्ति।
आसनानि
[सम्पादयतु]आसनं तु हठयोगे प्रगत्यै प्रथमं सोपानम् एव अङ्गीकृतम् अस्ति। ताः प्रक्रियाः, याः मानसिकाः सन्ति, परन्तु शिक्षायाः, आध्यात्मिकानुभवानां प्रति नेतुं न शक्यन्ते, यासां पराकाष्ठा परमतत्त्वस्य साक्षात्कारे न भवति - ताः न तु हठयोगे, न तु राजयोगे अन्तर्भन्ति। स्वात्मारामः एतादृशानाम् अभ्यासानाम् एकं परमोचितं नाम "हठकर्म” इति प्रयच्छति। यथा –
राजयोगमजानन्तः केवलं हठकर्मिणः ।
एतानभ्यासिनो मन्ये प्रयासफलवर्जितान्॥[१०]
अर्थात्, राजयोगम् अज्ञात्वा ये केवलं हठ-प्रक्रियायाः एव अभ्यासं कुर्वन्ति, तेषां योगाभ्यासिनां प्रयासान् अहं फलहीनान् मन्ये। एवं प्रकारस्य तथाकथितं योगाभ्यासं निष्फलप्रयासं स्वीकरोति स्वात्माराणः। यथार्थ-योगस्य सम्बन्धे तु एकं मतम् एव सुस्पष्टं कथयति यत्, शताब्दीभ्यः शुद्धिक्रियाः, आसनानि, प्राणायामादयः च आध्यात्मिकतायाः भिन्नतया स्थाप्यन्ते, स्वस्य शारीरिकस्वास्थ्यस्य, रोगनाशक-तत्त्वानां च कारणेन विश्वे अधिकाधिकतया लोकप्रियता लभ्यन्ते। एतस्यां स्थित्याम् अपि संस्कृतस्य “योगः” स्वाभिधानात् भिन्नतया स्थापयितुं न शक्यते। तथाऽपि स्वात्मारामः उक्तवान् अस्ति यत्, “यदि एतेषाम् अभ्यासानां कस्मिँश्चित् अर्थे यौगिक-क्रियासु अन्तर्भावः करणीयः, तर्हि तासां प्रक्रियाणाम् अभ्यासे निश्चितरूपेण आध्यात्मिकपक्षः, मानसिकपक्षः च ध्यातव्यः भवति”।
हठ-राज-योगयोः अभेदः
[सम्पादयतु]यथा यथा अभ्यासकः योगाभ्यासे प्रगच्छति, तथा तथा सः अनुशासनस्य मानसिक-आध्यात्मिक-पक्षेभ्यः अधिकाधिकं परिचितः भवति । तस्य प्रारम्भिकावस्थायामेव अनेकानि सोपानानि सन्ति । अनेकानि आसनानि अपि सन्ति, येषां महत्त्वं आध्यात्मिकदृष्ट्या विविधपरिमाणेषु अस्ति। उक्तं यथा –
आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् ।
सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात् ।
किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति ॥४०॥
प्राणानिले सावधाने बद्धे केवलकुम्भके।
उत्पद्यते निरायासात् स्वयमेवोन्मनी कला ।।४१॥
योगी द्वादशवत्सरं यावत् सदा आत्मध्यायी, मिताहारी (सन्) सिद्धासनाभ्यासात् निष्पत्तिम् (निष्पत्ति-अवस्थाम्) आप्नुयात् । सिद्धासने सिद्धे सति अन्यैः बहुभिः पीठैः किम्? अर्थात्, सिद्धासने सिद्धिप्राप्तौ किमपि न अवशिष्टम् इति॥ प्राणानिले सावधाने केवलकुम्भके बद्धे [सति] निरायासात् उन्मनीकला (उन्मनी-अवस्था) स्वयमेव उत्पद्यते।]
केचन ताः यौगिक-क्रियाः, यासु मानसिकपक्षः प्रधानः अस्ति, शारीरिकपक्षश्च महत्त्वपूर्णां भूमिकां न प्रस्तौति, तासां प्रायः हठयोगात् पृथक्त्वं स्वीकृत्य अपरप्रकारस्य योगत्वेन अङ्गीकुर्वन्ति। किन्तु सः भ्रमः एव वर्तते। स्वात्मारामस्य अनुसारं एतस्य हठयोगस्य एव अङ्गत्वेन ताः क्रियाः सन्ति, यथा आसनानि, प्राणायामाश्च सन्ति। स्वात्मारामः स्वस्य हठप्रदीपिकायाम् एतस्मिन् सन्दर्भे उचितं विवरणं चतुर्थोपदेशे दत्तवान् अस्ति, यस्य विषयवस्तोः वर्णनम् एकस्मिन् स्थाने नादानुसन्धानत्वेन, (१-५६) अपरे स्थाने समाधित्वेन (चतुर्थ उपदेश का समाप्तिवाक्य) कृतम् अस्ति। उक्तं यथा –
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा ।
अथ नादानुसंधानमभ्यासानुक्रमो हठे॥[११]
आसनं, चित्रं कुम्भकं, मुद्राख्यं करणम्, अथ तथा नादानुसन्धानं हठे अभ्यासानुक्रमः (वर्तते)।
सङ्क्षेपपरिचयः
[सम्पादयतु]हठप्रदीपिकायाः पञ्च उपदेशाः सन्ति। प्रथमे आसनानि, द्वितीये प्राणायामाः, तृतीये मुद्रा, चतुर्थे नादयोगः, पञ्चमे रोगनिवारणं च विद्यते।
हठप्रदीपिकायाः मङ्गलाचरणम्
[सम्पादयतु]हठप्रदीपिकायाः मङ्गलाचरणं त्रिषु भागेषु विभक्तं वर्तते। प्रथमे श्लोके ईश्वरवन्दनात्मकं मङ्गलाचरणं वर्तते। २ तः ९ पर्यन्तं गुरुवन्दनात्मकं मङ्गलाचरणं वर्तते। ततः १०, ११ उभौ श्लोकौ हठयोगस्य कृत्याकृत्यं प्रदर्श्य ग्रन्थोद्देश्यम्, उपयोगितां च वर्णयतः।
श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।
विभ्राजते प्रोन्नतराजयोगमारोदुमिच्छोरधिरोहिणीव ।।१।।
अर्थात्, तस्मै श्री आदिनाथाय नमः अस्तु, येन हठयोगविद्या उपदिष्टा । (इयं हठविद्या) प्रोन्नतराजयोगम् आरोढुम् इच्छोः अधिरोहिणी इव विभ्राजते।
अथ हठयोगिभ्यः स्थानविचारः
[सम्पादयतु]योगाय स्थानविचारः कश्चन अतीव महत्त्वपूर्णः साधनापक्षः वर्तते। परिवेशः बहुधा सुख-दुःखयोः, विकास-पतनयोः, ज्ञान-अज्ञानयोः, सुविधा-असुविधयोः च निर्धारणं करोति। यदि साधकः योग्यं स्थानं न प्राप्नोति, तर्हि तस्य मार्गः अतीव दुष्करः, दुष्प्राप्यः च भवति। तद्विपर्यये तु साधकः स्वशक्तिं, ध्यानं च केवलं साधनायां निक्षेप्तुं शक्नोति। अनेन तस्य सहजः विकासः भवितुम् अर्हति। अतः सः स्थानविचारः अपि कुर्यात् इति महत्त्वपूर्णम्। अत एव उक्तं यत् -
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।
धनुःप्रमाणपर्यन्तं शिलाऽग्निजलवर्जिते।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना।।१२।।
हठयोगिना एकान्ते, सुराज्ये, धार्मिके-देशे, सुभिक्षे, निरुपद्रवे, मठिकामध्ये, धनुःप्रमाणपर्यन्तं, शिला-अग्नि-जल वर्जिते (स्थाने) स्थातव्यम्।
योगस्य बाधकतत्त्वानि
[सम्पादयतु]योगस्य बाधकत्त्वानि इत्युक्ते योगसाधनाकाले कानिचन बाधकतत्त्वानि अपि भवन्ति, यानि प्रत्यक्षाप्रत्यक्षतया योगसाधानायां बाधाः उत्पादयन्ति। तेभ्योऽपि साधकः सावधानः भवेत् इति धिया योगस्य बाधकतत्त्वानां विषये चिन्तनं भवति।
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।
जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ।।१५ ।।
सम्बद्धाः लेखाः
[सम्पादयतु]- हठप्रदीपिकायाः मङ्गलाचरणम्
- हठप्रदीपिकायाः आसनानि
- हठप्रदीपिकायाः प्राणायामाः
- हठप्रदीपिकायाः मुद्राः
- हठप्रदीपिकायाः नादयोगः
सन्दर्भाः
[सम्पादयतु]- ↑ हठप्रदीपिका - २-७६
- ↑ हठप्रदीपिका – १/१८
- ↑ थियोसोफिकल पब्लिशिंग हाऊस (मद्रास) और हठयोगप्रदीपिका, पंचमसिंह, इलाहाबाद
- ↑ (स्टडीज इन इण्डियन लिटररी हिस्ट्री, वॉल्यूम १ पृ. ३७९)
- ↑ (भा. प्रा. वि. शो. सं. संख्या ६२१)
- ↑ हठप्रदीपिका – २/३८
- ↑ हठप्रदीपिका १.३८
- ↑ ऑरिजिन एण्ड डिवलेपमेण्ट आफ दी साँख्य सिस्टम आफ थॉट, लेखकः - पुलिन बिहारी चक्रवर्ती, मेट्रोपोलिटन पब्लिशिंग हाऊस लिमिटेड, कलकत्ता, १९५२, पृष्ठ - १५९
- ↑ सांख्यकारिका (परामार्थरचित-चीनीभाषायां) टाकाकुसु-द्वारा सम्पादिता, एस. एस. सूर्यनारायण-शास्त्रिणा च फ्रांसीसीभाषायाः आङ्ग्लानुवादः कृतः (मद्रास १९३१) पृ. ३१ कारिका २३]
- ↑ हठप्रदीपिका ५/७९
- ↑ हठप्रदीपिका – १.५६