सामग्री पर जाएँ

हठप्रदीपिकायाः मङ्गलाचरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हठप्रदीपिकायाः मङ्गलाचरणं त्रिषु भागेषु विभक्तं वर्तते। प्रथमे श्लोके ईश्वरवन्दनात्मकं मङ्गलाचरणं वर्तते। २ तः ९ पर्यन्तं गुरुवन्दनात्मकं मङ्गलाचरणं वर्तते। ततः १०, ११ उभौ श्लोकौ हठयोगस्य कृत्याकृत्यं प्रदर्श्य ग्रन्थोद्देश्यम्, उपयोगितां च वर्णयतः।

ईश्वरस्मरणात्कम्

[सम्पादयतु]

श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।

विभ्राजते प्रोन्नतराजयोगमारोदुमिच्छोरधिरोहिणीव ।।१।।

अर्थात्, तस्मै श्री आदिनाथाय नमः अस्तु, येन हठयोगविद्या उपदिष्टा । (इयं हठविद्या) प्रोन्नतराजयोगम् आरोढुम् इच्छोः अधिरोहिणी इव विभ्राजते।

एवं मन्यते यत्, भगवान् शिवः, यः अत्र आदिनाथः इत्युक्तः, सः सर्वप्रथमं स्वार्धाङ्गिनीं पार्वत्यै हठयोगस्य शिक्षां प्रायच्छत्। ततः अनेके हठयोगस्य, तन्त्रस्य च सम्बद्धाः ग्रन्थाः शिव-पार्वत्योः संवादरूपेण प्रचलिताः जाताः। हठ इतिशब्दः 'ह' एवं 'ठ' इत्येतयोः वर्णयोः योगात् निर्मितः वर्तते। तत्र हकारः सूर्यं, ठकारश्च चन्द्रस्य अर्थं बोधयति। एतस्मै शब्दाय संस्कृते अनेके विग्रहाः सन्ति। हठयोगस्य सर्वेषु ग्रन्थेषु एतेषां सर्वेषां शब्दानां प्रयोगः अनेकवारं जातः अस्ति। बहुधा विषयवस्तोः अभिधानाय एतस्य प्रयोगः दृश्यते। परन्तु योगस्य वर्णनम् एतयोः वर्णयोः ऐक्यत्वादेव मन्यते। स्वात्मारामः हठयोगस्य, राजयोगस्य च मध्ये भेदरेखां न प्रदर्शितवान्। यतः उभौ योगौ सहसंयोगात् प्रचलतः, अतः हठप्रदीपिकायां राजयोगस्य अपि विवरणं प्राप्यते। अत्र केवलम् एकः मुख्यभेदः प्रदर्शितः यत्, एकस्यैव अनुशासनस्य राजयोगः मानसिकपक्षः, हठयोगश्च शारीरिकपक्षः वर्तते इति।

उक्ते मङ्गलाचरणश्लोके राजयोगः किञ्चन उन्नतस्थानत्वेन प्रदर्शितः, यस्य प्राप्तौ काचित् अधिरोहिणी आवश्यकी भवति, सा अधिरोहिणी एव हठयोगः वर्तते। अत्र स्वात्मारामः स्पष्टतया उभयोः योगयोः भेदं करोति। अतः अग्रे राजयोगरूपं लक्ष्यं प्राप्तुम् एव साधनरूपां हठविद्यां वर्णयति इति लेखकः वदति। यथा –

अथ गुरुवन्दना

[सम्पादयतु]

प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना ।

केवलं राजयोगाय हठविद्योपदिश्यते ।।२।।

श्रीगुरुं नाथं प्रणम्य, योगिना-स्वात्मारामेण केवलं राजयोगाय हठविद्या उपदिश्यते।

अत्र स्पष्टतया स्वात्मारामः गुरुवन्दनासहितं तेषां यौगिक-अनुभवानां महत्त्वं बोधयति, येषु मानसिकपक्षः, आध्यात्मिकपक्षः च प्रमुखभूमिकायां भवति। तस्य पक्षस्य अवगमनाय काश्चित् पूर्वक्रियाः आवश्यक्यः भवन्ति, अतः प्रथमोपदेशात् तृतीयं यावत् सः मानसिकपक्ष-सहयोगीः प्रक्रियाः वर्णयति, ततश्च चतुर्थोपदेशे यौगिकानुभवानां मानसिकपक्षम्, आध्यात्मिकपक्षं च उपस्थापयति।

भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् ।

हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ।।३।।

बहुमतध्वान्ते भ्रान्त्या (तथा च) राजयोगम् अजानतां (जनानां कृते) कृपाकरः स्वात्मारामः हठप्रदीपिकां धत्ते ।

हठविद्या हि मत्स्येन्द्रगोरक्षाद्या विजानते ।

स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥४॥

मत्स्येन्द्र-गोरक्षाद्याः हि हठविद्यां विजानते । अथवा तत्प्रसादतः योगी स्वात्मारामः जानीते।

स्वात्मारामः हठयोगस्य सुप्रसिद्धस्य योगिनः मत्स्येन्द्रस्य, गोरक्षस्य च परम्परायाः अनुवर्ती आसीत्। अतः गुरुणा सह सः तेषां सर्वेषां पराम्परानुवर्तिनः योगिनः अपि स्मरति। अर्थात् सः सम्पूर्णगुरुपरम्परायाः स्मरणं करोति। यथा -

अथ गुरुपम्परावन्दना

[सम्पादयतु]

श्रीआदिनाथमत्स्येन्द्र शाबरानन्द भैरवाः ।

चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ।।५।।

मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडि: ।

कोरण्टकः सुरानन्दः सिद्धिपादश्च चर्पटि:।।६।।

कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।

कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः।।७।।

अल्लामः प्रभुदेवश्च घोडाचोली च टिण्टिणिः।

भानुकी नारदेवश्च खण्डः कापालिकस्तथा ।।८।।

इत्यादयो महासिद्धा हठयोगप्रभावतः ।

खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥९॥

श्रीआदिनाथः, मत्स्येन्द्रः, शाबरः, आनन्दभैरवः, चौरङ्गी, मीनः, गोरक्षः, विरूपाक्षः, बिलेशयः, मन्थानः, भैरवयोगी, सिद्धिः, बुद्धः, कन्थडिः, कोरण्टकः, सुरानन्दः, सिद्धिपादः, चर्पटी, कानेरी, पूज्यपादः, नित्यनाथः, निरञ्जनः, कपाली, बिन्दुनाथः, काकचण्डीश्वरः, अल्लामः, प्रभुदेवः, घोडाचोली, टिण्टिणिः, भानुकी, नारदेवः, खण्डः, कापालिकः इत्यादीनां येषां योगिनां नामानि उक्तानि, ते सर्वेऽपि महासिद्धाः हठयोगप्रभावतः कालदण्डं खण्डयित्वा ब्रह्माण्डे विचरन्ति ।

मत्स्येन्द्रं, गोरक्षं च विहाय अन्ये सर्वे पारम्परिकरूपेण स्वीकृतानां योगिनां विषये सूचना तुलनात्मकरूपेण अतीव स्वल्पा अथवा अप्राप्या वर्तते।

अथ हठयोगस्य कृत्याकृत्यानि

[सम्पादयतु]

अशेषतापतप्तानां समाश्रयमठो हठः ।

अशेषयोगयुक्तानामाधारकमठो हठः ।।१०॥

अशेषतापतप्तानां (कृते) हठः समाश्रयमठः (विद्यते) । (तथा च) अशेषयोगयुक्तानां (कृते) हठः आधारकमठः (विद्यते) ।

अर्थात्, सर्वप्रकारकेभ्यः दुःखेभ्यः पीडितजनेभ्यः हठयोगः आश्रयरूपः मठः वर्तते। सर्वप्रकारस्य योगाभ्यासिभ्यः हठयोगः आधारभूतः कच्छपः वर्तते।  पौराणिक-आख्यानम् अस्ति यत्, मेरुपर्वतः, यस्योपयोगः देवताभिः, असुरैः च समुद्रमन्थनस्य मथनीत्वेन स्वीकृतः, कश्चन कच्छपः  आधारः आसीत्, यः साक्षात् विष्णोः अवतारत्वेन परिगण्यते। एवं हठयोगः सर्वेषां योगक्रियाकलापानाम् आधारः अस्ति, सर्वेषां योगिनां च आधारभूतः वर्तते।

हठविद्या परं गोप्या योगिनां सिद्धिमिच्छताम् ।

भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ।।११।।

सिद्धिम् इच्छतां योगिनां (कृते) हठविद्या परं गोप्या। गुप्ता (सति) वीर्यवती भवेत् । प्रकाशिता तु निर्वीर्या (भवेत्) । अर्थात्, योगे सिद्धीच्छुकाः साधकाः एनां हठविद्यां नितान्त-गुप्तां स्थापयेयुः। गुप्ता एषा विद्या शक्तिशालिनी भवति। प्रकटिता सा शक्तिहीना भवति। यौगिकग्रन्थकाराः साधकाः पौनःपुन्येन सावधानेन भवितुं कथयति यत्, योगे सफलताप्राप्त्यै एतत् आवश्यकं वर्तते यत्, स्वस्य अभ्यासाः, प्राप्तयः च सर्वथा गुप्ततया रक्षणीयाः इति। एतस्मिन् सन्दर्भे स्पष्टं सङ्केतं यच्छन्ति यत्, योगसिद्धयः उत तत्सम्बद्धाः विषयाः प्रसिद्धेः साधनरूपाः न सन्ति, अपि तु आत्मविकासस्य साधनानि सन्ति। आत्मविकासाय अन्यपक्षस्य रहस्योद्घाटनस्य आवश्यकता न भवति। प्रसिद्धेः कृतः योगाभ्यासः असफलतां प्रति नयति।

हठविद्या गुप्तविद्या

[सम्पादयतु]

यदि हठविद्या गुप्तविद्या अस्ति, तर्हि कथं तस्याः योगिभिः उपस्थापनं कृतं, ग्रन्थनिर्माणं कृतं, ग्रन्थप्रकाशनं कृतञ्च इति प्रश्नः समुद्भवति। एतस्य प्रश्नस्य अतीव सामान्यः उत्तरः भवितुम् अर्हति यत्, हठविद्या तेभ्यः सर्वेभ्यः रक्षणीया, ये एतस्याः विद्यायाः दुरुपयोगं कृत्वा स्वस्य उत अन्यस्य ज्ञात्वा उत अज्ञात्वा हानिं कर्तुं प्रभवन्ति। हठयोगे तादृश्यः अनेकाः क्रियाः, प्रक्रियाः च सन्ति, याः यदि उचिततया न क्रियन्ते, तर्हि साधकस्य मृत्युः, विकारोद्भवः च भवितुम् अर्हति। स्वामी स्वात्मारामः पञ्चमे उपदेशे प्राणायामकाले अयोग्यभ्यासे सति उत्पद्यमानानां विकाराणाम् उपस्थापनम् अकरोत्, तेषां विकाराणां समाधानम् अपि प्रायच्छत्। यदि नियमानां पालनम् अकृत्वा, योग्यमार्गदर्शनम् अप्राप्य च कश्चन हठयोगाभ्यासं करोति, अन्येषां मार्गदर्शनं च करोति, तर्हि सः निश्चयेन स्वस्य, अन्यस्य च हानिं करोति, अतः एषा विद्या गुप्ता भवेत् इति उक्तम्। एतस्य विषयस्य सम्बद्धाः जनाः एव एतस्य ज्ञानं प्राप्नुयुः इति अर्थः।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]