स्वात्मारामः
स्वात्मारामः हठयोगप्रदीपिकायाः रचयिता अस्ति। सः योगसम्बद्धान् विषयान् स्वस्य ग्रन्थे उपस्थापितवान्। नाथसम्प्रदायस्य परम्परायां सः कश्चन योगाचार्यः मन्यते। तस्य गुरुः मत्स्येन्द्रः विद्यते। स्वस्य ग्रन्थस्य आरम्भे एव सः स्वस्य गुरोः स्मरणं करोति, ततश्च स्वगुरुपरम्परायाः अपि ध्यानं करोति।
स्वात्मारामस्य अद्वैतवादः
[सम्पादयतु]यद्यपि स्वात्मारामः स्वस्य ग्रन्थे स्पष्टतया कस्यापि विशिष्टदार्शनिकविचारस्य निरूपणं नाकरोत्, तथाऽपि हठप्रदीपिकायां कानिचन वक्तव्यानि सन्ति, यानि तस्य दार्शिनिक-पक्षम् अपि प्रकटयन्ति। उक्तञ्च -
मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।। ४-१००
निःशब्दं तत्परं ब्रह्म परमात्मेति गीयते ।। ४-१०१
यस्तत्त्वान्तो निराकारः स एव परमेश्वरः ।। ४-१०२
उक्ताभ्यः पङ्क्तिभ्यः अनुमानं कर्तुं शक्यते यत्, स्वात्मारामः जीवात्म्नः, परमात्म्नः च अभिन्नतां स्वीकरोति स्म इति। तस्य मतानुसारं चित्तवृत्तेः सक्रियतां यावत् तस्याः अभिन्नतायाः अनुभवः कर्तुं न शक्यते।
सृष्टेः प्रक्रियासन्दर्भे अपि स्वात्मारामः अद्वैतवेदिवत् विचारान् धरते। उक्तं च –
सङ्कल्पमात्रकलनैव जगत् समग्रम् सङ्कल्पमात्रकलनैव मनोविलासः।
सङ्कल्पमात्रमतिमुत्सृजं निर्विकल्पम् आश्रित्य निश्चयमवाप्नुहि राम शान्तिम्॥[१]
हे राम ! समग्रं जगत् सङ्कल्पमात्रकलना एव, मनोविलासः सङ्कल्पमात्रकलना एव (अत एव) सङ्कल्पमात्र-मतिम् उत्सृज । निर्विकल्पम् आश्रित्य निश्चयं शान्तिम् अवाप्नुहि ।
मनोदृश्यमिदं सर्वं यत् किञ्चित् सचराचरम्।
मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते॥[२]
यत् किञ्चित् सचराचरं सर्वं इदं मनोदृश्यम्। (तद्) हि मनसः उन्मनी भावात् द्वैतं नैव उपलभ्यते।
उक्तविचाराणाम् अनुसारं जगत् – यथा वयम् एतत् जानीमः – अन्तिमरूपेण सत्यपूर्णं नास्ति। तत्तु कमपि प्रातिभासिकं सत्यं वर्तते। तत् केवलं व्यावहारिकेभ्यः उद्देश्येभ्यः वास्तविकं स्वीकर्तुं शक्यते इति तस्य मतं मन्यते।
स्वात्मारामस्य प्रमादाः
[सम्पादयतु]स्वात्मारामः स्वस्य अमुकाः अवधारणाः स्पष्टतया न प्रादर्शयत्। यथा - हठयोगः, राजयोगः, कुण्डलिनी, नादः, नादानुसन्धानम् इत्यादयः। एतादृशी न्यूनता तु अन्येषु योगग्रन्थलेखकेषु अपि दरीदृश्यते।
हठं विना राजयोगो राजयोगं विना हठः।
न सिद्ध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्॥२.७६॥
राजयोगमजानन्तः केवलं हठकर्मिणः ।
एतानभ्यासिनो मन्ये प्रयासफलवर्जितान्॥४.७९॥
हठप्रदीपिकायाः उक्तयोः श्लोकयोः अनुसारं हठयोगस्य, राजयोगस्य च मध्ये अभेदत्त्वात् यावत्पर्यन्तं पूर्णतया सफलता न प्राप्यते, तावत्पर्यन्तम् एकस्य एव अनुशासनस्य द्वौ पक्षौ स्तः इति स्वीकरणीयं भवति। किन्तु स्वात्मारामः ग्रन्थस्य प्रारम्भे, अन्ते च स्पष्टतया वदति यत्, हठयोगस्य शिक्षा, अभ्यासश्च राजयोगस्य पाप्त्यै करणीयः भवति इति। यथा –
श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।
विभ्राजते प्रोन्नतराजयोगमारोदुमिच्छोरधिरोहिणीव॥१॥
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना।
केवलं राजयोगाय हठविद्योपदिश्यते॥२॥
सर्वे हठलयोपायाः राजयोगस्य सिद्धये ।
राजयोगसमारूढः पुरुषः कालवञ्चकः॥४.१०३॥
साधकेषु भ्रामकी धारणा उद्भवति यत्, उभयोः कश्चन भेदः अस्ति। हठयोगः साधनत्वेन अस्ति, राजयोगश्च साध्यः इति। परन्तु कदाचित् स्वात्मारामस्य आशयः एवम् आसीत् यत्, एकत्र शारीरिकपक्षः अस्ति, अपरत्र च मानसिकः, आध्यात्मिकः च पक्षः अस्ति। तौ उभौ एकस्य एव अनुशासनस्य द्वौ पक्षौ स्तः इति। परन्तु कदाचित् आसनादिभ्यः क्रियाभ्यः - यत्र शारीरिकक्रियाः प्रमुखाः भवन्ति, तत्र हठयोगशब्दस्य प्रयोगः क्रियते। अपरत्र राजयोगशब्दस्य प्रयोगः अतीव दुर्लभानाम् आध्यात्मिकानाम् अनुभवानां कृते क्रियते, यत्र मानसिकपक्षः प्रमुखः वर्तते। एतस्मिन् सन्दर्भे वयं वक्तुं शक्नुमः यत्, हठयोगः राजयोगाय अस्ति, यस्य शिखरस्य मस्तिष्कस्य ग्रहणशक्तेः अपि परे अस्ति इति।
स्वात्मारामस्य हठयोग-विषयक-ग्रन्थे खेचरी, शाम्भवी च मुद्रा, नादानुसन्धानं, समाधिः च विस्तारेण वर्ण्यते। अनेन स्पष्टं भवति यत्, सः हठयोगं, राजयोगं च भिन्नानुशासनत्वेन न स्वीकरोति इति। सः यौगिक-अभ्यासाय निम्नलिखितं क्रमं प्रदत्त्वान् । आसन, प्राणायाम, मुद्रा, नादानुसन्धानं च।
स्वात्मारामः बलपूर्वकं कुण्डलिनी-जागरणस्य प्रशंसां करोति। यद्यपि सः कुण्डलिनीजागरणस्य अनुभवविषये किमपि न उक्तवान्, न तु प्रणास्य अथवा वायोः उत्थाने, कुण्डलनी-जागरणे, पूर्णतीव्रतया ऊर्ध्वगमने च कः भेदः अस्ति इति सः अवर्णयत्। सः नादाभिव्यक्तेः चर्चां नाडीशुद्धेः परिणामत्वेन अकरोत्। यथा –
यथेष्टधारणं वायोरनलस्य प्रदीपनम् ।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ।।२.२०॥
एतस्मिन् सन्दर्भे नादः सा एव अनाहतनाद-संवेदना अस्ति, या दीर्घस्य अथवा अल्पस्य समयस्य कृते योगाभ्यासद्वारा सामान्यतया अनुभूता भवति। एषः कश्चन विशेषप्रकारस्य ध्वनिश्रवणसम्बद्धः अस्ति, यत्र कर्णः कस्याऽपि बाह्योद्दीपकैः तत्त्वैः उद्दीप्तः न भवति। यद्यपि चतुर्थोपदेशे स्वात्मारामः नादस्य, नादानुसन्धानस्य, चित्तस्य च नादे समापत्तिं कस्यचित् उच्चस्तीरयं ध्यानं, विकसित-आध्यात्मिक-अनुभवः च मन्यते।
ब्रह्मग्रन्थेर्भवेद्भेदादानन्दः शून्यसम्भवः ।
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ।।४.७०।।
दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् ।
सम्पूर्णहृदयः शून्यः आरम्भे योगवान् भवेत् ।।४.७१॥
उक्तानां श्लोकानाम् अनुसार साधकाः पूर्वं क्षीण-झणझण-ध्वनिं शृण्वन्ति, ततश्च या अवस्था भवति, तस्याम् उच्चध्वनिवत् श्रूयते।
आदौ जलधिजीमूतभेरीझर्झरसम्भवाः।
मध्ये मर्दलशोत्था घण्टाकाहलजास्तथा।।४.८५।।
अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनाः।
इति नानाविधा नादाः श्रूयन्ते देहमध्यगाः ।।४.८६।।
परन्तु उक्तयोः श्लोकयोः अनुसारं प्रप्रथमं समुद्रस्य, मेघ-गर्जनस्य च ध्वनिः श्रूयते। ततश्च मन्दतया वंशीनादः अथवा भ्रमरगुञ्जनवत् ध्वनिः श्रूयते। एवञ्च –
तस्याः किञ्चिद्रजो नाशं न गच्छति न संशयः ।
तस्याः शरीरनादस्तु बिन्दुतामेव गच्छति ।।९६॥
इत्यस्य अनुसारं नादः, बिन्दुत्वेन परिवर्तितः भवति इति उक्तं, परन्तु ४:१००
अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते ।
ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः ।
मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।। १००।।
अर्थात्, अनाहतस्य शब्दस्य यः ध्वनिः उपलभ्यते, (तस्य) ध्वनेः अन्तर्गतं ज्ञेयं (तथा च) ज्ञेयस्य अन्तर्गतं मनः (ध्वनिः, ज्ञेयवस्तु, मनश्च) लयं याति । तत् विष्णोः परमं पदम् अस्ति।
उक्तस्य श्लोकस्य अनुसारं साधकैः दृश्यमाना ज्योतिः श्रूयमाणे नादे विलियङ्गच्छति। एवं प्रकारेण उपर्युक्ताभिः न्यूनताभिः सह काश्चन असङ्गतयः अपि सन्ति। ततोऽधिकम् एषा अपि वास्तविकताअस्ति यत्, हठप्रदीपिकायाम् उपलब्धाः श्लोकाः अन्येषु ग्रन्थेषु अपि प्राप्यन्ते इति। स्वात्मारामस्य न्यूनता-प्रदर्शनकाले एषः विश्वासः अपि दृढः भवति यत्, एषा कृतिः तस्य मौलिक-कृतिः नास्ति इति। अल्पांशतः अपि एतत् सङ्कलनात्मकं कार्यम् अस्ति। स्वात्मारामस्य मृदु-पारिभाषिक-शब्दानां प्रयोगः एनां धारणां दृढां करोति।
वज्रोल्याः, सहजोल्याः, अमरोल्याः च उल्लेखकाले स्वात्मारामः एतादृशानां शब्दानाम् उपयोगं करोति, येषाम् अर्थद्वयम् उत अर्थत्रयं भवति। अनेन कीथ-महोदयस्य कथनम् अपि वास्तविकं दृश्यते यत्, “आश्चर्यस्य विषयः अस्ति यत्, हठप्रदीपिकायाः शब्दरचना उत्तमा अस्ति, परन्तु तत्र एतादृशाः शब्दाः प्राप्यन्ते, येषाम् एकाधिकाः अर्थाः भवन्ति, ये पाठकं भ्रामयन्ति।" इति।[३]।
सम्बद्धाः लेखाः
[सम्पादयतु]- हठप्रदीपिकायाः मङ्गलाचरणम्
- हठप्रदीपिकायाः आसनानि
- हठप्रदीपिकायाः प्राणायामाः
- हठप्रदीपिकायाः मुद्राः
- हठप्रदीपिकायाः नादयोगः