मेरी क्यूरी
मेरी स्लोडोवेस्क क्यूरी | |
---|---|
मेरी क्यूरी, १९२० | |
जननम् |
1867 वार्सा, पोलेण्ड् साम्राज्यम् (तदातनं रशियन् साम्राज्यम्) |
मरणम् |
1934 पासि, हूट्-सवो, फ्रान्स् |
वासस्थानम् | पोलेण्ड्, फ्रान्स् च |
नागरीकता |
पोलेण्ड् फ्रान्स् |
कार्यक्षेत्राणि | भौतशास्त्रम्, रसायनशास्त्रम् |
संस्थाः | प्यारिस्-विश्वविद्यालयः |
मातृसंस्थाः | प्यारिस्-विश्वविद्यालयः (इ एस् पि सि ऐ) |
संशोधनमार्गदर्शी | हेन्रि बेक्वेरेल् |
शोधच्छात्राः |
अन्ड्रे-लूयिस् डेबियर् आस्कर् मोरेनो मार्गरेट् केथरिन् पियरि |
विषयेषु प्रसिद्धः | रेडियो-आक्टिविटि, पोलोनियम्, रेडियम् |
पतिः/पत्नी | पियरि क्यूरी (१८५९-१९०६) |
धर्मः | Agnostic |
हस्ताक्षरम् | |
विशेषम् विज्ञानस्य विभागद्वये नोबेल्-पुरस्कारं प्राप्तवती अद्वितीया इयम् । |
मेरि क्यूरि (Maria Salomea Skłodowska-Curie) जगत्प्रसिद्धा विज्ञानिनी आसीत् । नोबेल् पुरस्कारप्राप्ता प्रथमा महिला । अस्याः कुटुम्बजनेषु बहवः प्राप्तनोबेल्-पुरस्काराः सन्ति । एषा द्विवारं नोबेल् पुरस्कारं प्राप्तवती । अस्याः पतिः 'पियरि' क्यूरि एकवारं प्राप्तवान् । अस्याः पुत्री ऐरिन् क्यूरि एवम् (ऐरिन्) अस्याः पतिः फ्रेड्रिक्लूलियेट्क्यूरि च नोबेल् पुरस्कारं प्राप्तवन्तौ आस्ताम् । अधुनिकभौतशास्त्रस्य अभिवृद्धये अस्याः महद्योगदानम् अस्ति ।
जननम्, बाल्यञ्च
[सम्पादयतु]मेरि १८६७ तमे संवत्सरे नवेम्बर्मासस्य सप्तमे दिनाङ्के पोलण्डदेशस्य वार्सानगरे जाता । पितरौ अध्यापकौ आस्ताम् । बाल्ये अस्याः नाम 'मेरिस्लोडोवेस्क आसीत्' । अस्याः पत्युः नाम पियरिक्यूरि इति । अस्याः विवाहस्यानन्तरं मेरि क्यूरि इति प्रसिद्धा जाता । अस्याः नवमे ययसि माता मृतवती ।
अध्ययनम्
[सम्पादयतु]मेरिवर्यायाः प्राथमिकम् अध्ययनम् उत्तमम् आसीत् । अध्ययने अस्याः अभिरुचिः आसीत् । अस्याः षोडशे वयसि प्रौढशिक्षणम् समापितवती । प्रौढशिक्षणे स्वर्णपदकं प्राप्तवती । अस्याः अग्रे अध्ययनं कर्तुं गृहजनानाम् अस्याश्च इच्छा आसीत् । किन्तु वार्सा विश्वविद्यालये माहिलानां प्रवेशः निषिद्धः आसीत् । अतः एषा कस्यचन धनिकस्य गृहे पञ्चवर्षाणि शिक्षिकारूपेण कार्यं कृतवती । अर्जितेन धनेन एषा अद्ययनं कर्तुं १८९१ तमे संवत्सरे प्यारिस् विश्वविद्यालयं गतवती । धनस्य अभावः आसीत् तथापि सा अध्ययनं न त्यक्तवती । दिने विश्वविद्यालये कार्यं कृत्वा एषा रात्रौ पठति स्म । एषा अस्मिन् एव विश्वविद्यालये पदवीधरा सञ्जाता ।
वैय्यक्तिकजीवनम्
[सम्पादयतु]१८९५ तमे संवत्सरे 'पियरि’ क्यूरि इति नामकेन वरेण सह एषा विवाहं कृतवती । पियरि प्यारिस् देशस्य सुप्रसिद्धस्य वैद्यस्य पुत्रः आसीत् । "स्कूल् आफ् इन्डस्ट्रीयल् केमेस्ट्रि” नामकस्य प्रयोगालयस्य मुख्यस्थः आसीत् । अधुनिकस्य भौतशास्त्रस्य अभिवृद्धये आनयोः दम्पत्योः महद्योगदानम् अस्ति । एतौ दम्पती धनिकौ न । किन्तु संशोधनकार्ये रतौ आस्ताम् । अस्याः पुत्र्याः नाम ऐरिन् क्यूरि । ऐरिन् १८९७ तमे संवत्सरे जाता । १९०६ तमे संवत्सरे अपघाते अस्याः पतिः 'पियरि’ मृतवान् । तथापि एषा सधैर्येण जीवितवती । प्यारिस्-देशे मेरि रेडियं्म् इन्स्टिट्यूट् स्थापितवती । एषा करुणामयी आसीत् । एषा प्रथमे विश्वमहासमरे (१९१४-१९१८) रोगेण पीडितानां जानानाम् उपचारं कृतवती ।
संशोधनम्
[सम्पादयतु]मेरिवर्यायाः विज्ञानस्य विषये अभिरुचिः आसीत् । अजीवनं संशोधने एव निरता आसीत् । अस्याः भौतशास्त्रे अभिरुचिः अधिका आसीत् । 'विकिरणस्य अथवा रेडियो आक्टिविटि’ विषये 'बेकेरल्’ नामकः संशोधनं कृतवान् आसीत् । अनेन सह एषा संशोधनकार्यम् आरब्धवती । एकस्मिन् दिने बेकेरल् स्वस्य उत्पीठिकायां युरेनियं खण्डान् स्थापितवान् आसीत् । एषा तान् दृष्टवती । छायाचित्रपटलानां प्रक्षालनसमये युरेनियं खण्डानाम् उपयोगं कृतवती । छायाचित्रपटलानां प्रक्षालनानन्तरं तेषाम् उपरि रेखान् दृष्टवती । युरेनियद्रव्यस्य किरणेन उत्पन्नाः इति चिन्तितवती । अस्मिन् विषये स्पष्टं ज्ञातुं संशोधनं कृतवती । तदनन्तरम् एषा पत्या सह यूरोप्-देशस्य भूपटस्य अध्ययनं कृतवती । बोहेमियादेशे पिच्ब्लेण्ड् नामकद्रव्यम् अधिकतया उपलभ्यते इति ज्ञातवती । सर्वकारस्य अनुमतिं प्राप्य पिच्ब्लेण्ड् आनीय संशोधनकार्यम् आरब्धवन्तौ । पिच्ब्लेण्ड्-तः रेडियम्-द्रव्यस्य पृथक् करणस्य संशोधनकार्यस्य आरम्भं कृतवन्तौ । पिच्ब्लेण्ड्-तः प्राप्तं वस्तु अन्धकारयुक्ते लघुप्रकोष्ठे स्थापितम् आसीत् । किञ्चित् कालानन्तरम् अन्धकारयुक्ते लघुप्रकोष्ठे नीलवर्णस्य प्रकाशः प्रसारितः आसीत् । उभौ प्रकाशं दृष्ट्वा आश्चर्यचकितौ सञ्जातौ । तं प्रकाशं रेडियम् इति सम्बोधितवन्तौ । एक्स्-किरणान्, रेडियो किरणान् च वैद्यकीयक्षेत्रे उपयोगार्थं प्रप्रथमतया एषा एव परिचयं कारितवती ।
पुरस्काराः
[सम्पादयतु]- १९०३ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवती ।
- १९०३ तमे संवत्सरे 'डेवि’ पदकं प्राप्तवती ।
- १९०४ तमे संवत्सरे 'मत्त्यूचिपदकं’ प्राप्तवती ।
- १९०९ तमे संवत्सरे इल्लियोट्ट क्रेस्सोन्(Elliott Cresson)पदकं प्राप्तवती ।
- १९११ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवती ।
मरणम्
[सम्पादयतु]एषा (मेरि) १९३४ तमे संवत्सरे जलैमासस्य ४ दिनाङ्के मृतवती । अर्बुदरोगेण पीडिता आसीत् । अस्याः स्मरणार्थं गौरवार्थं च कस्यचित् मूलवस्तुनः 'क्यूरियम्” इति नामाङ्कनं कृतवन्तः विज्ञानलोके ।
बाह्यानुबन्धाः
[सम्पादयतु]- Out of the Shadows – महिलाभौतविज्ञानिनीनाम् अध्ययनम्
- मेरीक्यूरीविषयकम् अधिकृतं जालपुटम्, लूब्लिन् विश्वविद्यालयः, पोलेण्ड् Archived २००८-१२-१७ at the Wayback Machine आङ्ग्लभाषया ।
- Detailed Biography at Science in Poland website; with quotes, photographs, links etc.
- European Marie Curie Fellowships
- Marie Curie Fellowship Association Archived २०११-०७-१७ at the Wayback Machine
- Marie Sklodowska Curie: Her Life as a Media Compendium Archived २००५-०८-३० at the Wayback Machine
- Marie and Pierre Curie and the Discovery of Polonium and Radium Chronology from nobelprize.org
- Annotated bibliography of Marie Curie from the Alsos Digital Library Archived २००५-११-२५ at the Wayback Machine
- Obituary, New York Times, 5 July 1934 Mme. Curie Is Dead; Martyr to Science
- Some places and memories related to Marie Curie
- Marie Curie on the 500 French Franc and 20000 old Polish zloty banknotes. Archived २०११-१२-१३ at the Wayback Machine
- "Marie Curie and the Study of Radioactivity" Archived २०१३-१०-३१ at the Wayback Machine at American Institute of Physics website. (Site also has a short version for kids entitled "Her story in brief!" Archived २०१५-०९-०९ at the Wayback Machine.)
- Works by Marie Curie at Internet Archive
- Works by Marie Curie at Gallica