सामग्री पर जाएँ

देवन मिसिर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
देवन मिसिर
निर्देशकः मिथिलेश सिंहः
निर्माता मिथिलेश सिंहः
लेखकः मिथिलेश सिंहः
अभिनेतारः प्रवीण सप्पू, इन्द्राणी तालुकदार
सङ्गीतनिर्देशकः अजीत कुमार अकेला
वितरणकर्ता प्रयास सिने पेन्थर्स्, श्रीविकम एण्टर्टेन्मेण्ट्
चलच्चित्रमुक्तिदिवसः ६ जुलाई, २०१८
चालनसमयः २ घण्टा ३९ निमेषः
देशः  भारतम्

देवन मिसिर (देवनमिश्र इति) एकं मगधीभाषायाम् ऐतिहासिकं हास्यं च चलच्चित्रमस्ति । २०१८ वर्षस्य ६ जुलै तमे दिनाङ्के चलच्चित्रं प्रदर्शितम् । चलच्चित्रस्य निर्माणार्थम् आधुनिकस्य तन्त्रशास्त्रस्य प्रयोगः कृतः । चलच्चित्रे अभिनेता प्रवीणसप्पु इत्यनेन अभिनीतः देवन मिसिर महोदयः मगधस्य अतीव लोकप्रियः पौराणिकपात्रः आसीत् यस्य कथा अतीव लोकप्रियः लोककथा अस्ति । अस्यैव टिकरीसभायाः विनोदी हास्यसम्राट् देवन मिसिर महोदयस्य नामधेयेन अस्य चलच्चित्रस्य नामकरणं देवन मिसिर इति कृतमस्ति । अस्य चलच्चित्रस्य निर्देशकः लेखकः मिथिलेशसिंहः अस्ति । मुख्यकलाकाराः प्रवीणसप्पु, इन्द्राणी तालुकदार, मनीष महिवाल, दीपश्रेष्ठ, उदय श्रीवास्तव, सुवन्ति बनर्जी, रूपासिंह, अरविन्दकुमार, प्रीति सिन्हा, अनुपमा पाण्डे, रूबी खातून, अजय मिण्टु च सन्ति । अस्य चलच्चित्रस्य निर्माणं कोडरमा-गया-पटना-नगरेषु अभवत् ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=देवन_मिसिर&oldid=489254" इत्यस्माद् प्रतिप्राप्तम्