सामग्री पर जाएँ

शनिशिङ्गणापुरमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य महाराष्ट्रे अहमदनगरमण्डले शिर्डी-समीपे स्थितं प्रमुखं जाग्रतं च क्षेत्रम् इति सम्पूर्णमहाराष्ट्राय शनिशिङ्गणापुरं परिचितमस्ति । शनिमन्दिरस्य कारणात् ग्रामस्य नाम्नि शनिः योजितः । अहिल्यानगरात् ३० कि.मी दूरे स्थिते नेवासातालुकायाः ​​सोनई ग्रामस्य समीपे एव शनेः प्रसिद्धं तीर्थस्थलं शिङ्गणापुरम् अस्ति । अत्र भगवान् शनिः स्वयम्भुपाषाणरूपेण विराजमानः अस्ति। श्री शनैश्वरस्य स्वयंभु जाज्वल्यं देवस्थानमस्ति तथा च शनैश्वरस्य मूर्तिः ५ पाद ९ इन्च उन्नता अस्ति । अस्मिन् मन्दिरस्य शिलास्तम्भं भगवान् शनेः मूर्तिः इति मन्यते । प्रायः सार्धशतवर्षपूर्वमेकस्मिन् जलप्रलये एषा शिला सोनई ग्रामस्य समीपम् आगता । अस्य स्तम्भस्य विशिष्टाकारः नास्ति । तस्यां रात्रौ भगवान् शनिदेवः कस्मैचित् ग्रामवासिनं 'मातुल-भागिनेयः द्वयोः मिलित्वा मां स्थापयेताम्' इति दृष्टान्तं दत्तवान् तथा ग्रामजनाः शिलास्थापनेन तस्याः पूजां कर्तुं प्रवृत्ताः। अत्र अयं देवः चतुष्कोणयुक्ते प्रस्थरे आच्छादरहितः अस्ति।अत्र देवः अस्ति किन्तु मन्दिरं नास्ति इत्यस्य वैशिष्ट्यमस्ति। एकः व्यापारी व्रतं कृतवान् तदा शनिः प्रसन्नः अभूत् इत्यतः शिलायाः परितः चतुष्कोणात्मकं प्रस्थरं निर्मितवान् । मूर्तेः ऊर्ध्वभागे वृक्षः अपि नास्ति। समीपस्थ निम्बवृक्षस्य शाखा यदि विग्रहं स्पृशति तर्हि सा पतति | शनिदेवाय आश्रयः न रोचते अतः शिलायाम् कोपि आश्रयः नास्ति। अत्र चैत्र प्रतिपदि तथा वर्षस्य प्रत्येकमासस्य चतुर्षु शनिवासरेषु च भगवतः यात्रा भवति । अत्र भगवन्तं शनिदेवप्रीत्यर्थं तैलं समर्पयन्ति | प्रतिदिनं सहस्र लीटर् परिमाणात्मकं तैलं शनिदेवाय अर्पयन्ति । अत्र शनि अमावास्या तथा गुढीपाडवा [चैत्र शुक्ल प्रतिपदा] एतत् दिनद्वयं महती यात्रा भवति। अयमुत्सवः शनिजयन्तीदिने (वैशाली अमावस्यायाम्) आचर्यते ।

आख्यायिका

[सम्पादयतु]

अस्याः स्वयंभूमूर्तेः विषये बह्व्यः आख्यायिकाः भक्तानां मध्ये प्रचलिताः सन्ति । अत्रत्य कथा अपि रोचका अस्ति। भगवान् शनिः अत्रैव निवसति इति मन्यते । अतोऽत्र चौर्यं न भवति इत्युच्यते। अतः ग्रामे गृहेषु अपि तालानि न सन्ति | अत्र जनाः गौरवेण वदन्ति यत् एतावन्ति वर्षाणि कदापि गृहेभ्यः एकं कीलकम् अपि न अपहृतम्। अस्य लघुग्रामस्य जनसंख्या प्रायः ३००० स्यात् किन्तु अत्र गृहेषु द्वाराणि न सन्ति इति आश्चर्यम् । शनैश्चिदं शनिपुरं स्वयं शनिना रक्षितम् इति जनाः मन्यन्ते । इदमपि कथ्यते यत् चौर्यं कृत्वा कोऽपि चोरः अस्य ग्रामस्य सीमां जीवितावस्थायां लङ्घयितुं न शक्नोति। तत्र चोर्येण अन्धत्वमायातीत्यपि आख्यायिका भक्तानां मध्ये प्रचलिता अस्ति । अत्र पर्यटकाः बहुसंख्यकाः आयान्ति । शनिदेवस्यमूर्तेः समीपं नीत्वा विषं निवर्तते इति अत्र कथ्यते । इदं मन्दिरं चमत्कारवशात् अतीव प्रसिद्धं जातमस्ति ।

अस्मिन् मन्दिरे दर्शनस्य नियमाः अतीव कठोराः सन्ति । देवदर्शनं दिवसस्य कस्मिन् अपि समये ग्रहीतुं शक्यते। शनिः बालब्रह्मचारी सन् महिलाः दूरादेव दर्शनं स्वीकर्तुं शक्नुवन्ति | स्त्रियः तु चतुष्कोणात्मकप्रस्थरे गत्वा दर्शनं कर्तुं नार्हन्ति । दूरतः दर्शनं कर्तुं शक्यते। दर्शनात्पूर्वं स्नानं कृत्वा शुचिर्भुतः च भवेत्। अद्यापि मन्दिरस्य परिसरे स्नानव्यवस्था अस्ति । पुरुषाः स्नानं कृत्वा आर्द्रवस्त्रैः एव दर्शनं कुर्वन्ति। तदनन्तरं तिलतैलं समर्प्य शनिमूर्तिं प्रदक्षिणां कुर्वन्ति | दर्शनं कृत्वा तत्रत्यापणेभ्यः भक्ताः अश्वस्य शपः तथा कृष्णवस्त्रधारिणीं शनिदेवस्य पुत्तल्लिकां च क्रीणन्ति । गृहात् बहिः अश्वशपं स्थापयित्वा कुदृष्टिः न भवति इति मन्यते । अपि च गृहे सुखसमृद्धिमायाति ।

कथं प्राप्स्यन्ति

[सम्पादयतु]

वायुमार्गाः : शनिशिङ्गणापुरतः समीपस्थं विमानस्थानकं शिर्डी, पुणेतः १६० कि.मी दूरे च अस्ति ।

रैलमार्गाः : नासिकतः अस्य स्थानस्य कृते रैलयानम्, टैक्सीयानम् इत्यादि सुविधाः सन्ति। एताः सुविधाः मुम्बई, पुणे, अहमदाबाद-नगरादपि उपलभ्यन्ते । शिर्डीनगरं गत्वा शनिशिङ्गणापुरं गन्तुं श्रेयस्करम् ।

सन्दर्भः

[सम्पादयतु]

http://www.shanishanapur.com/ .