अन्नदातृचरितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

के बालरामप्पणिक्कर् महोदयेन पञ्चभिरङ्कैः निबद्धं नाटकं भवति अन्नदातृचरितम् । उतियन् नाम्ना चेरराज्ञा कुरुपाण्डवयुद्धे तत्सैनिकेभ्यः कृतम् अन्नदानमेव अस्य नाटकस्य इतिवृत्तम् । अयं राजा अनेन कर्मणा पेरुञ्चोट्टुतियन् इत्यपि स्तूयते । नाटकस्य इतिवृत्तं तावत् तमिळ्भाषायाः पेरियपुराणात् गृहीतं भवति । अस्य सम्पादनं १९४८ तमे संवत्सरे अनन्तशयनेन (तिरुवनन्तपुरम्) कृतम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=अन्नदातृचरितम्&oldid=362679" इत्यस्माद् प्रतिप्राप्तम्