विकिपीडिया:पञ्च स्तम्भाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पञ्च स्तम्भाः नाम तानि सिद्धान्तानि यानि आधृत्य विकिपीडिया प्रचाल्यते:

Blue pillar (1: Encyclopedia)
विकिपीडिया त्वेकः अन्तरजालस्थः विश्वकोशः
अस्यां हि व्यापकानां तथा च विशेषीकृतानां विश्वकोशानां, वार्षिकीनां अथ च स्थानकोशानां तत्त्वानि समाविष्टानि सन्ति।
Green pillar (2: NPOV)
विकिपीडिया तु तटस्थ-दृष्टिना रच्यते
अस्माकमेषः उद्योगः वर्तते यत् एतादृशाः लेखाः अत्र भवेयुः ये तु सर्वाण्यपि प्रमुखानि मतानि निष्पक्षरीत्या ज्ञापयन्ति।
Yellow pillar (3: Free)
विकिपीडियायाः सामग्री तु मुक्ताऽस्ति
यां खलु यः कोऽपि परिवर्तितुं शक्नोति, प्रयोक्तुं शक्नोति, वितरणं च तस्याः कर्त्तुं शक्नोति। प्रतिलिप्याधिकाराणां सर्वथैव आदरः करणीयः।
Orange pillar (4: Code of conduct and etiquette)
सम्पादकेभ्यः परस्परं ससम्मानं भद्रतया च व्यवहरणीयम्
अन्यैः विकिपीडियालेखकैः सह सादरं अपि च विनम्रतया व्यवहर्तव्यम् अपि मतभिन्नतायां सत्याम्।
Red pillar (5: Ignore all rules)
विकिपीडियायाः नियमाः लोहदृढा न विद्यन्ते
विकिपीडियायाः नियमाः शिलाटङ्किता न विद्यन्ते, तेषां च पदान्वयः अर्थान्वयश्च कालेन परिवर्तितुं शक्नुतः। तेषां नियमानां अन्तःसिद्धान्तानि अन्तर्भावनाश्च तेभ्यः नियमेभ्यः वरीयांसः। केषुचिच्च अवसरेषु विकिपीडियायाः उन्नत्यर्थं कस्यचित् नियमस्य अपवादोऽपि आवश्यकः भवति।