अन्तकाले च मामेव...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अन्तकाले च माम् एव स्मरन् उक्त्वा कलेवरम् यः प्रयाति स मद्भावं याति न अस्ति अत्र संशयः ॥ ५ ॥

अन्वयः[सम्पादयतु]

यः अन्तकाले च माम् एव स्मरन् कलेवरं मुक्त्वा प्रयाति सः पुरुषः मद्भावं याति । अत्र न संशयः ।

शब्दार्थः[सम्पादयतु]

अन्तकाले च = मरणसमये
माम् एव = मामेव
स्मरन् = चिन्तयन्
कलेवरम् = देहम्
मुक्त्वा = परित्यज्य
यः प्रयाति = यः गच्छति
सः = सः पुरुषः
मावम् = मद्रूपताम्
याति = प्रयाति
अत्र = अस्मिन् विषये
संशयः = सन्देहः
न अस्ति = न वर्तते ।

अर्थः[सम्पादयतु]

यः अन्तकाले माम् एव चिन्तयन् शरीरं परित्यजति सः पुरुषः अवश्यं मदभेदं प्राप्नोति । अस्मिन् विषये सन्देहः न वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अन्तकाले_च_मामेव...&oldid=418412" इत्यस्माद् प्रतिप्राप्तम्