प्रयाणकाले मनसाचलेन...
दिखावट
श्लोकः
[सम्पादयतु]- प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।
- भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]प्रयाणकाले मनसा अचलेन भक्त्या युक्तः योगबलेन च एव भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥ १० ॥
अन्वयः
[सम्पादयतु]सः भक्त्या युक्तः प्रयाणकाले योगबलेन च एव भ्रुवोः मध्ये प्राणं सम्यक् आवेश्य अचलेन मनसा (स्मरन्) दिव्यं परं तं पुरुषम् उपैति ।
शब्दार्थः
[सम्पादयतु]- सः = सः योगी
- भक्त्या युक्तः = भक्त्या सहितः
- प्रयाणकाले = मरणसमये
- योगबलेन च एव = समाधिबलेन
- भ्रुवोः मध्ये = भ्रुवोः मध्यदेशे
- प्राणम् = प्राणवायुम्
- सम्यक् = साधु
- आवेश्य =स्थापयित्वा
- अचलेन = निश्चलेन
- मनसा = चित्तेन (स्मरन्)
- दिव्यम् = लोकोत्तरम्
- परम् = उत्तमम्
- तं पुरुषम् = प्रसिद्धं पुरुषम्
- उपैति = प्राप्नोति ।
अर्थः
[सम्पादयतु]सः अनन्यभावेन सहितः मरणसमयेे समाधिबलेन भ्रुवोः मध्ये प्राणवायुं सम्यक् स्थापयित्वा निश्चलेन चित्तेन स्मरन् लोकोत्तरम् उत्तमं तमेव पुरुषं प्राप्नोति ।