आब्रह्मभुवनाल्लोकाः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षोडशः (१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आब्रह्मभुवनात् लोकाः पुनरावर्तिनः अर्जुन माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

अन्वयः[सम्पादयतु]

अर्जुन ! आब्रह्मभुवनात् लोकाः पुनरावर्तिनः । कौन्तेय ! माम् उपेत्य तु पुनर्जन्म न विद्यते ।

शब्दार्थः[सम्पादयतु]

अर्जुन = हे अर्जुन !
आब्रह्मभुवनात् = ब्रह्मलोकपर्यन्तम्
लोकाः = भुवनानि
पुनः आवर्तिनः = आवर्तनशीलानि
कौन्तेय = अर्जुन !
माम् उपेत्य = मां प्राप्य (स्थितस्य)
पुनर्जन्म = पुनर्जन्म
न विद्यते = नास्ति ।

अर्थः[सम्पादयतु]

अर्जुन ! आब्रह्मलोकात् सर्वेऽपि लोकाः आवर्तनशीलाः इति हेतोः ते न शाश्वताः । कौन्तेय ! परन्तु मां प्राप्तवतः तु सर्वथा पुनर्जन्म नास्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]