यत्र काले त्वनावृत्तिम्...
दिखावट
श्लोकः
[सम्पादयतु]- यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
- प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य त्रयोविंशतितमः (२३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यत्र काले तु अनावृत्तिम् आवृत्तिं च एव योगिनः प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
अन्वयः
[सम्पादयतु]भरतर्षभ ! योगिनः यत्र काले तु प्रयाताः आवृत्तिम् अनावृत्तिं चैव यान्ति तं कालं वक्ष्यामि ।
शब्दार्थः
[सम्पादयतु]भरतर्षभ = भरतश्रे !
- योगिनः = कर्मिणः (अष्टायोगिनः)
- यत्र = यस्मिन्
- काले तु = समये
- प्रयाताः = मृताः
- आवृत्तिम् = प्रत्यागमनम्
- अनावृत्तिं च = अनागमनं च
- यान्ति = प्राप्नुवन्ति
- तं कालम् एव = तं समयम्
- वक्ष्यामि = वदिष्यामि ।
अर्थः
[सम्पादयतु]भरतश्रे ! कर्मिणः यस्मिन् समये मृताः आवृत्तिं वा अनावृत्तिम् एव यान्ति तं कालं वक्ष्यामि ।