नैते सृती पार्थ जानन्...
दिखावट
श्लोकः
[सम्पादयतु]- नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
- तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य सप्तविंशतितमः (२७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न एते सृती पार्थ जानन् योगी मुह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तः भव अर्जुन ॥ २७ ॥
अन्वयः
[सम्पादयतु]पार्थ ! एते सृती जानन् कश्चन योगी न मुह्यति । तस्मात् अर्जुन ! सर्वेषु कालेषु योगयुक्तः भव ।
शब्दार्थः
[सम्पादयतु]- पार्थ = अर्जुन !
- कश्चन = कोऽपि
- योगी = समाहितचित्तः
- एते = इमे
- सृती = गती
- जानन् = विदन्
- न मुह्यति = भ्रान्तो न भवति
- तस्मात् = ततः हेतोः
- सर्वेषु = निखिलेषु
- कालेषु = समयेषु
- योगयुक्तः = समाधिविशिष्टः
- भव = वर्तस्व ।
अर्थः
[सम्पादयतु]अर्जुन ! एतौ मार्गौ विदन् कोऽपि योगी भ्रान्तो न भवति । तस्मात् सर्वेषु कालेषु समाहितचित्तः भव।