मां हि पार्थ व्यपाश्रित्य...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
- स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वात्रिंशत्तमः (३२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मां हि पार्थ व्यपाश्रित्य ये अपि स्युः पापयोनयः स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति परां गतिम् ॥ ३२ ॥
अन्वयः
[सम्पादयतु]पार्थ ! पापयोनयः ये अपि स्त्रियः वैश्याः तथा शूद्राः स्युः ते अपि मां व्यपाश्रित्य परां गतिं यान्ति हि ।
शब्दार्थः
[सम्पादयतु]- पार्थ = पृथायाः पुत्र !
- पापयोनयः = पापात्मानः
- ये अपि = ये केचन अपि
- स्त्रियः = नार्यः
- वैश्याः = वैश्यकुलजाः
- तथा = एवम्
- शूद्राः = शूद्रकुलजाः
- स्युः = भवेयुः
- ते अपि= ते मानवाः अपि
- मां व्यपाश्रित्य = माम् आश्रित्य
- पराम् = उत्तमाम्
- गतिम् = स्थानम्
- यान्ति हि = निश्चयेन लभन्ते ।
अर्थः
[सम्पादयतु]ये पापाधिक्यवशात् जाताः ते स्त्रियः स्युः, वैश्याः स्युः, शूद्रा वा स्युः ते सर्वेऽपि मां सेवमानाः परमां शान्तिम् अवाप्नुवन्तीति निश्चितम् ।