किं पुनर्ब्राह्मणाः पुण्या...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
- अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]किं पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥ ३३ ॥
अन्वयः
[सम्पादयतु]पुण्याः भक्ताः ब्राह्मणाः तथा राजर्षयः पुनः किम् ? (तस्मात्) इमम् अनित्यम् असुखं लोकं प्राप्य मां भजस्व ।
शब्दार्थः
[सम्पादयतु]- (ये पुनः) पुण्याः = पुण्याधिक्यविशिष्टाः
- भक्ताः = अनुरक्ताः
- ब्राह्मणाः = ब्राह्मणकुलजाः
- तथा = तथा
- राजर्षयः = राजर्षयः
- किं पुनः = तान् अधिकृत्य किं वक्तव्यम्
- (तस्मात्) अनित्यम् = तस्मात् नश्वरम्
- असुखम् = सुखरहितम्
- इमम् = अमुम्
- लोकम् = देहम्
- पाप्य = लब्ध्वा
- मां भजस्व = मां सेवस्व ।
अर्थः
[सम्पादयतु]एवं पापयोनयः स्त्रीवैश्यादयः एव मां भजमानाः परमां शान्तिम् अवाप्नुवन्तीति स्थिते पुण्यवन्तः भक्ताः च ये ब्राह्मणाः राजानश्च ते तादृशीं शान्तिं प्राप्नुवन्तीति पुनः वक्तव्यं किम् ? तस्मात् यावद् अयं देहो भविष्यति तावदेव शीघ्रं मम सेवने प्रवर्तस्व ।