महर्षयः सप्त पूर्वे...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षष्ठः (६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

महर्षयः सप्त पूर्वे चत्वारः मनवः तथा मद्भावाः मानसा जाताः येषां लोके इमाः प्रजाः ॥ ६ ॥

अन्वयः[सम्पादयतु]

सप्त महर्षयः तथा पूर्वे चत्वारः मनवः मद्भावाः मानसाः जाताः येषाम् इमाः प्रजाः लोके ।

शब्दार्थः[सम्पादयतु]

सप्त महर्षयः = सप्त महामुनयः
तथा = एवम्
पूर्वे = पुरातनाः
चत्वारः मनवः = स्वायम्भुवादयः
मद्भावाः = मच्चिन्तनपराः
मानसाः = मानसिकाः
जाताः = उत्पन्नाः
येषाम् = महामुनिप्रभृतीनाम्
इमाः = एताः
प्रजाः = सन्ततयः
लोके = भुवने सन्ति ।

अर्थः[सम्पादयतु]

प्रसिद्धाः सप्त ऋषयः तथा पुरातनाः स्वायम्भुवादयः चत्वारः मनवः मच्चिन्तनपराः सङ्कल्पमात्रेण उत्पन्नाः । तेषामेव सन्ततयः इदानीं भूमौ वर्तन्ते ।

रामानुजभाष्यम्[सम्पादयतु]

सर्वस्य भूतजातस्य सृष्टिस्थित्यों प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह— पूर्वे सप्त महर्षयोऽतीतमन्वन्तरे ये भृग्वादयं सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनसं संभवां नित्यस्थितिप्रवर्तनाय ये च सावर्णिका नाम चत्वारो मनवं स्थिता, येषां संतानमये लोके जाता इमां सर्वां प्रजाम्, प्रतिक्षणमाप्रलयादपत्यानामुत्पादकां पालकाश्च भवन्ति, ते भृग्वादयो मनवश्च मद्भावाम्, मम यो भावं स एव येषां भावस्ते मद्भावाम्, मन्मते स्थितां मत्संकल्पानुवर्तिन इत्यर्थम् ॥१०.६॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महर्षयः_सप्त_पूर्वे...&oldid=418717" इत्यस्माद् प्रतिप्राप्तम्