कोप्पर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोप्पर (Koppar) - कर्णाटकस्य रायचूरुमण्डले विद्यमानं तीर्थक्षेत्रम् एतत् । कृष्णानदीतीरे स्थितं महाक्षेत्रम् एतत् । पूर्वं कर्परमहर्षिः अत्र स्थितवान् । कार्परक्षेत्रमिति च क्षेत्रस्य नाम आसीत् । अत्र देवः श्रीनरासिंहः अश्वत्थवृक्षे सालिग्रामरूपेण अस्ति । मूलवृक्षस्य स्फोटानन्तरं षोडशबाहुः श्रीनरसिंहः आयुधसहितः आविर्भूतः अभवत् । श्रीविजयदासः स्वीये सुळादिपद्ये क्षेत्रमहिमां स्वयं दृष्टवानिव वर्णितवान् अस्ति । अत्र नदीस्नानं देवपूजादिकं सर्वार्थसाधकं भवति । नवरात्रिसमये अत्र वैभवेण उत्सवः प्रचलति ।

मार्गः[सम्पादयतु]

देवदुर्गतः १२ कि.मी ।
रायचूरुतः ४८ कि.मी ।
"https://sa.wikipedia.org/w/index.php?title=कोप्पर&oldid=393482" इत्यस्माद् प्रतिप्राप्तम्