कथं विद्यामहं योगिन्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कथं विद्याम् अहं योगिन् त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥ १७ ॥

अन्वयः[सम्पादयतु]

योगिन् ! अहं सदा त्वां परिचिन्तयन् कथं विद्याम् ? भगवन् ! मया केषु केषु च भावेषु चिन्त्यः असि।

शब्दार्थः[सम्पादयतु]

योगिन् = योगिवर !
अहं सदा = अहं सततम्
त्वां परिचिन्तयन् = त्वां ध्यायन्
कथम् = केन प्रकारेण
विद्याम् = विजानीयाम्
भगवन् = पूजार्ह !
मया केषु केषु च = मया केषु केषु च
भावेषु = वस्तुषु
चिन्त्यः असि = ध्यातव्यः असि ।

अर्थः[सम्पादयतु]

योगिवर ! अहं सततं त्वां ध्यायन् केन प्रकारेण विज्ञातुं शक्नुयाम् ? हे पूजार्ह ! मया केषु केषु पदार्थेषु त्वं ध्यातव्यः भवसि ?

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]