पवनः पवतामस्मि...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
- झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् झषाणां मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ ३१ ॥
अन्वयः
[सम्पादयतु]अहं पवतां पवनः अस्मि, शस्त्रभृतां रामः, झषाणां मकरः अस्मि,स्रोतसां च जाह्नवी अस्मि।
शब्दार्थः
[सम्पादयतु]- पवताम् = पावयितॄणाम्
- पवनः अस्मि = वायुः अस्मि
- शस्त्रभृताम् = आयुधधारिणाम्
- अहं रामः = अहं परशुरामः / दाशरथिः रामः
- झषाणाम् = मत्स्यादीनाम्
- मकरः च अस्मि = नक्रः च अस्मि
- स्रोतसाम् = नदीनाम्
- जाह्नवी अस्मि = गङ्गा अस्मि ।
अर्थः
[सम्पादयतु]पावयितॄणां मध्ये अहं वायुः अस्मि । आयुधधारिषु कुठारकधरः परशुरामः (कोदण्डधरः श्रीरामः) अस्मि । मत्स्यादिषु मकरः अस्मि । नदीषु पवित्रतमा गङ्गा अस्मि ।