दण्डो दमयतामस्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टात्रिंशत्तमः(३८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् मौनं च एव अस्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥ ३८ ॥

अन्वयः[सम्पादयतु]

दमयतां दण्डः अस्मि । जिगीषतां नीतिः अस्मि । गुह्यानां मौनं च एव अस्मि । ज्ञानवतां ज्ञानम् अहम् ।

शब्दार्थः[सम्पादयतु]

दमयताम् = दमयितॄणाम्

दण्डः = दमनम् अस्मि
जिगीषताम् = जेतुमिच्छताम्
नीतिः = नीतिः अस्मि
गुह्यानाम् = गोप्यानाम्
मौनं च एव = मौनमेव अस्मि
ज्ञानवताम् = ज्ञानयुक्तेषु
ज्ञानम् = प्रज्ञानम् अहम् ।

अर्थः[सम्पादयतु]

दमयितॄणां दमनम् अस्मि । जेतुम् इच्छतां नीतिः अस्मि । गोप्यानां मौनम् अपि । ज्ञानिनां प्रज्ञानम् अहम् अस्मि । 

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दण्डो_दमयतामस्मि...&oldid=418596" इत्यस्माद् प्रतिप्राप्तम्