पश्यादित्यान्वसून् रुद्रान्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा ।
- बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुतः तथा बहूनि अदृष्टपूर्वाणि पश्य आश्चर्याणि भारत ॥ ६ ॥
अन्वयः
[सम्पादयतु]भारत ! आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुतः पश्य, अदृष्टपूर्वाणि बहूनि आश्चर्याणि पश्य ।
शब्दार्थः
[सम्पादयतु]- भारत = अर्जुन !
- आदित्यान् = द्वादशादित्यान्
- वसून् = अष्टवसून्
- रुद्रान् = एकादशरुद्रान्
- अश्विनौ = देववैद्यौ
- तथा = तथा
- मरुतः = सप्तमरुतः
- पश्य = अवलोकय
- अदृष्टपूर्वाणि = पूर्वम् अनवलोकितानि
- बहूनि = नानासङ्ख्यानि
- आश्चर्याणि = उतानि
- पश्य = अवलोकय ।
अर्थः
[सम्पादयतु]अर्जुन ! द्वादशादित्यान् अष्टवसून् एकादशरुद्रान् देववैद्यौ तथा सप्तमरुतः पश्य । पूर्वम् अनवलोकितानि नानासङ्ख्याकानि उतानि अत्र पश्य ।