इहैकस्थं जगत्कृत्स्नं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
- मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]इह एकस्थं जगत् कृत्स्नं पश्य अद्य सचराचरम् मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ७ ॥
अन्वयः
[सम्पादयतु]गुडाकेश ! अद्य एकस्थं सचराचरं कृत्स्नं जगत् अन्यत् च यत् द्रष्टुम् इच्छसि (तत्सर्वम्) इह मम देहे पश्य ।
शब्दार्थः
[सम्पादयतु]- गुडाकेश = जितनिद्र !
- अद्य = इदानीम्
- एकस्थम् = एकत्र स्थितम्
- सचराचरम् = स्थावरजम- सहितम्
- कृत्स्नम् = सकलम्
- जगत् = भुवनम्
- अन्यत् च = अपरमपि
- यत् = यत्
- द्रष्टुम् =अवलोकितुम्
- इच्छसि = अभिलषसि
- तत् इह = तत्सर्वम् अत्र
- मम = मे
- देहे = शरीरे
- पश्य = अवलोकय ।
अर्थः
[सम्पादयतु]गुडाकेश ! इदानीम् एकत्रैव वर्तमानं स्थावरजमात्मकं समग्रमपि भुवनं पश्य । अन्यदपि यत् यत् द्रष्टुमिच्छसि तत्सर्वं ममास्मिन् शरीरे पश्य ।