अनेकबाहूदरवक्त्रनेत्रं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
- नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षॉडसः(१६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतः अनन्तरूपम् न अन्तं न मध्यं न पुनः तव आदिं पश्यामि विश्वेश्वर विश्वरूप ॥ १५ ॥
अन्वयः
[सम्पादयतु]विश्वेश्वर, विश्वरूप ! त्वाम् अनेकबाहूदरवक्त्रनेत्रं सर्वतः अनन्तरूपं पश्यामि । तव आदिं न पश्यामि न मध्यं न पुनः अन्तम् ।
शब्दार्थः
[सम्पादयतु]- विश्वेश्वर = जगदीश्वर !
- विश्वरूप = सर्वरूप !
- त्वाम् = भवन्तम्
- अनेकबाहूदरवक्त्रनेत्रम् = बहुहस्तकुक्षिमुखनयनम्
- सर्वतः = सर्वत्र
- अनन्तरूपम् = अनवधिकस्वरूपम्
- पश्यामि = वीक्षे
- तव आदिम् = तव मूलम्
- न पश्यामि = न वीक्षे
- न मध्यम् = न मध्यभागम्
- न पुनः अन्तम् = नापि अवसानम् ।
अर्थः
[सम्पादयतु]जगदीश्वर ! समस्तरूप ! त्वां तव बहुहस्तं बहुकुक्षिं बहुमुखं बहुनयनम् अनन्तं च स्वरूपं पश्यामि । तव मूलं मध्यम् अन्तं च ज्ञातुं न शक्नोमि ।