अनादिमध्यान्तम्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
- पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ॥ १९ ॥
अन्वयः
[सम्पादयतु]अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रं दीप्तहुताशवक्त्रं स्वतेजसा इदं विश्वं तपन्तं त्वां पश्यामि ।
शब्दार्थः
[सम्पादयतु]- अनादिमध्यान्तम् = आदिमध्यान्तरहितम्
- अनन्तवीर्यम् = अप्रमेयपराक्रमम्
- अनन्तबाहुम् = असङ्ख्याकहस्तम्
- शशिसूर्यनेत्रम् = चन्द्रार्कनयनम्
- दीप्तहुताशवक्त्रम् = प्रदीप्ताग्निमुखम्
- स्वतेजसा = आत्मकान्त्या
- इदम् = एतत्
- विश्वम् = जगत्
- तपन्तम् = तापयन्तम्
- त्वाम् = भवन्तम्
- पश्यामि = अवलोकयामि
अर्थः
[सम्पादयतु]तव आदिः मध्यः अन्तश्च नास्ति, तव पराक्रमः परिच्छेत्तुं न शक्यः, तव अनन्ताः हस्ताः सन्ति,सूर्यचन्द्रौ तव नयने स्तः, तव मुखेषु जाज्वल्यमानः अग्निः भासते, त्वं निजवर्चसा समग्रमिदं जगत् तापयन् वर्तसे । एतादृशं त्वामहं पश्यामि ।