नभःस्पृशं दीप्तमनेक...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
- दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥
अन्वयः
[सम्पादयतु]विष्णो ! नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा हि प्रव्यथितारन्तात्मा धृतिं शमं च न विन्दामि ।
शब्दार्थः
[सम्पादयतु]- विष्णो = सर्वव्यापक !
- नभःस्पृशम् = गगनचुम्बिनम्
- दीप्तम् = प्रज्वलितम्
- अनेकवर्णम् = नानावर्णम्
- व्यात्ताननम् = विवृतमुखम्
- दीप्तविशालनेत्रम् = ज्वलितविस्तृतलोचनम्
- त्वां दृष्ट्वा हि= त्वां विलोक्य
- प्रव्यथितान्तरात्मा = खिन्नचित्तः
- धृतिम् = धैर्यम्
- शमं च = शान्तिं च
- न विन्दामि = न लभे ।
अर्थः
[सम्पादयतु]हे विष्णो ! त्वं गगनचुम्बी, नानावर्णोपेतः, उद्घाटितवदनः, ज्वलितविस्तृतलोचनश्च भासि । मम चित्तं प्रकम्पते । तेन अहं धैर्यं शान्तिं च न प्राप्नोमि ।