द्रोणं च भीष्मं च जय...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।
- मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि मा अव्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
अन्वयः
[सम्पादयतु]द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि । मा व्यथिष्ठा: । युध्यस्व । रणे सपत्नान् जेतासि ।
शब्दार्थः
[सम्पादयतु]- अन्यान् अपि = इतरान् अपि
- द्रोणं च भीष्मं च = द्रोणं भीष्मं च
- जयद्रथं च कर्णं च = जयद्रथं कर्णं च
- तथा = तथा
- योधवीरान् = शत्रून्
- हतान् = निहतान्
- जहि = नाशय
- मा व्यथिष्ठा = मा खेदं प्राप्नुहि
- युध्यस्व = युद्धं कुरु
- रणे = युद्धे
- सपत्नान् = शत्रून्
- जेतासि = जेष्यसि ।
अर्थः
[सम्पादयतु]द्रोणः भीष्मः जयद्रथः कर्णः तथा अन्ये सर्वे अपि मया पूर्वमेव निहताः । मया निहतानेव त्वं नाशय । व्यथां मा कुरु । युद्धे प्रवर्तस्व । रणे शत्रून् जेष्यसि ।