न वेदयज्ञाध्ययनैः...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
- एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टचत्वारिंशत्तमः(४८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न वेदयज्ञाध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः एवंरूपः शक्यः अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
अन्वयः
[सम्पादयतु]कुरुप्रवीर ! नृलोके वेदयज्ञाध्ययनैः एवंरूपः अहं द्रष्टुं न शक्यः दानैः न, क्रियाभिः च न, उग्रैः तपोभिः न ।
शब्दार्थः
[सम्पादयतु]- कुरुप्रवीर = कुरुश्रे !
- नृलोके = मनुष्यलोके
- वेदयज्ञाध्ययनैः = निगमयागस्वाध्यायैः
- एवंरूपः अहम् = ईदृशरूपविशिष्टः अहम्
- त्वदन्येन = भवदितरेण
- द्रष्टुम् = वीक्षितुम्
- न शक्यः = न अर्हः
- दानैः न = वितरणैः न द्रष्टुं शक्यः
- क्रियाभिः च न = कर्माचरणैः अपि न
- उग्रैः = तीव्रैः
- तपोभिः = नियमैः न ।
अर्थः
[सम्पादयतु]कुरुश्रे ! मृत्युलोके माम् एतादृशरूपं जनाः वेदानां कल्पसूत्रादीनां वा अध्ययनेन द्रष्टुं न शक्नुवन्ति । न दानेन, न कर्मणा नापि तीव्रेण तपसा । केवलं भवान् माम् ईदृशं दृष्टवान् ।