इत्यर्जुनं वासुदेवः...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
सञ्जय उवाच -
- इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
- आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चाशत्तमः(५०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]इति अर्जुनं वासुदेवः तथा उक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतम् एनं भूत्वा पुनः सौम्यवपुः महात्मा ॥ ५० ॥
अन्वयः
[सम्पादयतु]वासुदेवः इति अर्जुनं तथा उक्त्वा स्वकं रूपं भूयः दर्शयामास । महात्मा सौम्यवपुः पुनः भूत्वा भीतम् एनम् आश्वासयामास च ।
शब्दार्थः
[सम्पादयतु]- वासुदेवः = श्रीकृष्णः
- इति = एवम्
- अर्जुनम् = पार्थम्
- तथा उक्त्वा = तेन प्रकारेण कथयित्वा
- स्वकं रूपम् = स्वीयं रूपम्
- भूयः दर्शयामास = पुनः दर्शितवान्
- महात्मा पुनः = भगवान् तु
- सौम्यवपुः भूत्वा = सौम्यशरीरः भूत्वा
- भीतम् = भयग्रस्तम्
- एनम् = अमुम्
- आश्वासयामास च = सान्त्वयामास च ।
अर्थः
[सम्पादयतु]श्रीकृष्णः एवम् अर्जुनं पूर्वोक्तप्रकारेण कथयित्वा स्वीयम् रूपं पुनः दर्शयामास । ततश्च महानुभावः सः सौम्यशरीरः सन् भयग्रस्तम् एनम् अर्जुनं सान्त्वयामास ।