सन्नियम्येन्द्रियग्रामं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
- ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सन्नियम्य इन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ ४ ॥
अन्वयः
[सम्पादयतु]ये तु इन्द्रियग्रामं सन्नियम्य सर्वत्र समबुद्धयः अनिर्देश्यम् अव्यक्तं सर्वत्रगम् अचिन्त्यं कूटस्थम् अचलं ध्रुवं च अक्षरम् पर्युपासते सर्वभूतहिते रताः ते माम् एव प्राप्नुवन्ति ।
शब्दार्थः
[सम्पादयतु]- ये तु = ये मानवाः तु
- इन्द्रियग्रामम् = करणसमुदायम्
- सन्नियम्य = उपसंहृत्य
- सर्वत्र = सर्वस्मिन् काले
- समबुद्धयः = समानचित्ताः
- अनिर्देश्यम् = अवर्णनीयम्
- अव्यक्तम् = इन्द्रियागोचरम्
- सर्वत्रगम् = सर्वव्यापिनम्
- अचिन्त्यम् = अप्रमेयम्
- कूटस्थम् = निर्विकारम्
- अचलम् = अकम्प्यम्
- ध्रुवं च = नित्यं च
- अक्षरम् = ब्रह्म
- पर्युपासते = सेवन्ते
- सर्वभूतहिते = सकलप्राणिहिते
- रताः = आसक्ताः
- ते = ते जनाः
- मामेव प्राप्नुवन्ति = मामेव लभन्ते ।
अर्थः
[सम्पादयतु]ये पुरुषाः करणसमुदायं सन्नियम्य सर्वस्मिन् काले समानचित्ताः अनिर्वचनीयम् इन्द्रियाणाम् अगोचरं सर्वव्यापिनम् अप्रमेयं मायाध्यक्षम् अकम्प्यं स्थिरं च परमात्मानं सेवन्ते, सकलप्राणिहिते आसक्ताः ते जनाः माम् एव लभन्ते ।