लालबहादुरशास्त्रिजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुम्बईनगरे विद्यमानः लालबहादुरशास्त्रिणः विग्रहः

भारतदेशे अक्टोबरमासस्य द्वितीये दिने श्रीमतः लालबहादुरशास्त्रिमहोदयस्य जन्मदिनम् आचरन्ति । अस्मिन्नेव दिने श्रीमतः महात्मागान्धिमहोदयस्य अपि जन्मदिनम् आचरन्ति । देशे अत्यन्तं पवित्रं दिनम् एतत् इति जनाः भावयन्ति । श्रीलालबहादुरशास्त्रिमहाभागः अत्यन्तं सरलः निष्कपटः स्वाभिमानी च आसीत् । भारतस्य प्रधानमन्त्रिस्थाने विराजमानः अपि निःस्वार्थतया उत्यन्तम् उत्तमं कार्यं कुर्वन् भारतीयेषु रत्नसदृशः इति प्रख्यातः आसीत् । एतेन घोषितं मन्त्रसदृशं वाक्यं ‘’’जय जवान जय किसान्’’’ इत्येतत् सर्वेषां भारतीयानां प्रेरणादायकम् आस्ति ।

बाल्यं यौवनञ्च[सम्पादयतु]

श्रीलालबहादुरशास्त्री उत्तरप्रदेशस्य मोघलसरायी स्थले १९०४ तमे वर्षे अक्टोबर् मासस्य द्वितीये दिने जन्म प्राप्तवान् । अस्य पिता श्रीशारदाप्रसादः आदौ शिक्षकः आसीत् । अनन्तरं रेलविभागे लिपिकः आसीत्। माता श्रीरामदुलारीदेवी सुशीला गुणवती गृहिणी आसीत् । श्री शारदाप्रसादः दुर्दैववशात् १९०६ तमे वर्षे दिवङ्गतः अभवत् । मातामहः श्री हजारीलालः एव लालबहादुरस्य पालनम् अकरोत् । विद्याभ्यासं च कारितवान् ।

भारतदेशे तदा स्वातन्त्र्यान्दोलनं महात्मनः गान्धिनः नेतृत्वे प्रवृत्तमासीत् । असहकारान्दोलनसमये १९२१ तमे वर्षे विद्यार्थिजीवने एव लालाबहादुरः प्रौढशालायां स्थित्वा एव आन्दोलने भागं स्वीकृतवान् । कारागृहवासस्य दण्डनम् अनुभुतवान् । अनन्तरं काशीविद्यापीठे चत्वारि वर्षाणि यावत् अध्ययनं कृत्वा शास्त्त्रिपदवीं प्राप्तवान् । लालबहादूरः लालबहादुररशास्त्री इत्येव प्रख्यातः अभवत् ।

बाल्येऽपि लालबहादुरः साहसी आसीत् । एकदा नदीतरणाय तस्य सकाशे धनं नासीत् । तदा स्वयं तरन् एव नद्याः पारं गतवान् इति अविस्मरणीया घटना भारतीयैः सदा स्मर्यते । १९२७ तमे वर्षे लालबहादुरशास्त्री ललितादेवीं परिणीतवान् । तदा श्वशुरः अस्मै वरदक्षिणारुपेण तन्तुकरणयन्त्रं (चरखा), तन्तुं च दत्तवान् । अत्यन्तं सरलरुपेण विवाहः समभवत् । विवाहकार्येऽपि लालबहादूरशास्त्री आदर्शं परिपालितवान् ।

अग्रे सर्वेन्टस् आफ इण्डिया संस्थायां गान्धिमहाभागस्य आन्दोलनेषु च उत्तमं कार्यं कृत्वा लालबहादुरशास्त्री सर्वेषां भारतीयानां प्रियः अभवत् । लवणसत्याग्रहे भागं स्वीकृतवान् ।१९३६ तमे वर्षे प्रान्तीयसभां प्रविष्टः एषः गृहसचिवरुपेण उत्तमं कार्यं कृतवान् । भारतं त्यजत आन्दोलने सक्रियकार्यकर्ता श्रीलालबहादुरशास्त्री काङ्ग्रेस प्रमुखेषु अन्यतमः आसीत् ।

स्वातन्त्र्यानन्तरम्[सम्पादयतु]

१९४७ तमे वर्षे यदा भारतदेशः स्वतन्त्रः अभवत तदा श्रीजवाहरलालनेहरुमन्त्रिमण्डले श्रीलालबहादुरशास्त्री रेलविभागस्य मन्त्री आसीत् । तमिळ्नाडु राज्ये रेलदुर्घटना सञ्जाता । तदा नैतिकाधारेण स्वकर्तव्यलोपः सञ्जातः इति मन्त्रपदवीं त्यक्तवान् । किन्तु श्रीजवाहरलालनेहरुः पुनः वाणिज्यमन्त्रिपदे श्रीलालबहादुरशास्त्रिणं नियुक्तवान् । १९६४ तमे वर्षे श्रीजवाहरलालनेहरुः दिवङ्गतः अभवत् । तदा सर्वेषां अनुरोधेन दक्षः ऋजुः श्रीलालबहादुरशास्त्री भारतस्य प्रधानमन्त्रीस्थाने नियुक्तः अभवत् । स्वपरिवारार्थं सर्वकारीयं सौलभ्यं न स्वीकृतवान् । एषः अनन्तरं भारतरत्नप्रशास्तिना पुरस्कृतः अभवत् ।

भारतदेशे आहारसमस्या अधिका आसीत् । तदा एव पाकिस्थानदेशस्य आक्रमणमपि अभवत् । धीरः प्रधानमन्त्री श्रीलालबहादुरशास्त्री “ जय जवान जय किसान्” मन्त्रेण भारतीय सैनिकान् तथा कृषकान् प्रोत्साहयन् आहारोत्पादने वर्धनं तथा शत्रूणां मर्दनं च कृतवान् । अत्यन्तं शान्तः अपि भारतस्य रक्षणाविषये दृढः कठोरः उत्तममार्गदर्शकः च आसीत् ।

प्रधानमन्त्रिस्थाने स्थितोऽपि सर्वकारीयं यानं न उपयुज्य अतिरिक्तं व्ययं अपकृत्य निःस्वार्थः एव वासमकरोत् । भारतपाकिस्तानदेशयोः मध्ये युद्धशमनाय रषियादेशे मध्यस्थः रषियादेशाध्यक्षः श्री कोसगिन्महोदयः एकं सन्धानकार्यं कर्तुम् इष्टवान् तदा श्रीलालबहादुररशास्त्री भारततः तथा पाकिस्तानदेशाध्यक्षः श्री अयूबखानः च राषियादेशं गतवन्तौ । १९६६ तमे वर्षे जनवरी ४ तमे दिने सन्धानपत्रे हस्ताक्षरं कृतमभवत् । एतेन भारतपाकिस्तानदेशयोः मध्ये युद्धं शान्तम् अभवत् ।

अन्त्यम्[सम्पादयतु]

किन्तु १९६६ तमे वर्षे जनवरी ३०तमे दिने एव रषियादेशे ताष्केण्ट्नगरे एव श्रीलालबहदूरशास्त्री दिवङ्गतः इति वार्तां श्रृत्वा भारतदेशेन दुःखमनुभूतम् । अष्टादशमासेषु अतीवोत्तमं कार्यं कृत्वा वामनमूर्तिः श्री लालबहदुरशास्त्री अमरः अभवत् । जनाः अद्यापि श्रीलालबहदुरशास्त्रिणः स्मरणं कुर्वन्तः न भूतः न भविष्यति एतत्सदृशः इति अभिमानेन वदन्ति । एतादृशमहानायकस्य स्मरणं अक्टोबरमासस्य द्वितीये दिने भारतीयाः सहर्षं सगौरवं कुर्वन्ति । श्रीलालबहादुरशास्त्रिणः सरलतां निष्कपटतां निःस्वार्थतां च अनुसर्तुं जनाःअपेक्ष्यन्ते। नवभारतनिर्माणकार्ये श्रीलालबहदुरशास्त्रिमहोदयस्य महत्वपूर्णः कार्यविशेषः तथा जीवनविशेषः आदर्शमयः अस्ति ।