भ्रामरीदेवी (त्रिस्रोट)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतदेशस्य पश्चिमबङ्गाल् राज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् । पश्चिमबङ्गाल् राज्ये अन्त्ये जल्पाय्गुडीमण्डले अस्ति त्रिस्रोट्क्षेत्रम् ।

सम्पर्कः[सम्पादयतु]

बोडाविभागस्य साल्बादी ग्रामे तीस्तानद्याः तीरे अस्ति । बस् यानस्य सौकर्यम् अपि अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः वामपादः अस्मिन् स्थाने पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी भ्रामरी नाम्ना पूज्यते । अत्रत्यः शिवः "अम्बरः" "ईश्वरः" इति च पूज्यते । देव्याः दर्शनेन मङ्गलं भवति इति विश्वासः अस्ति । केषाञ्चन मतानुसारं भ्रामर्याः देवालयः बाङ्ग्लादेशस्य राजधान्याः ढाकायाः समीपे पाञ्चघरतः ३४४ की.मी. दूरे अस्ति । अन्ये केचन जल्पाय्गुडी नगरस्य जल्वेशदेवालयस्य समीपे अस्ति ।