मम योनिर्महद्ब्रह्म...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
- सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मम योनिः महत् ब्रह्म तस्मिन् गर्भं दधामि अहम् सम्भवः सर्वभूतानां ततः भवति भारत ॥ ३ ॥
अन्वयः
[सम्पादयतु]भारत ! मम योनिः महत् ब्रह्म । तस्मिन् अहं गर्भं दधामि । ततः सर्वभूतानां सम्भवः भवति ।
शब्दार्थः
[सम्पादयतु]- योनिः = गर्भाधानस्थानम्
- महत् = विस्तृतम्
- ब्रह्म = प्रकृतिः
- गर्भम् = सल्परूपं बीजम्
- दधामि = निक्षिपामि
- ततः = तस्मात्
- सर्वभूतानाम् = सकलजन्तूनाम्
- सम्भवः = प्रभवः ।
अर्थः
[सम्पादयतु]भारत ! या इयम् अत्यन्तं महती प्रकृतिः वर्तते सा वृद्धिहेतुत्वात् ब्रह्म इत्युच्यते । सा प्रकृतिः मम गर्भाधानस्थानम् । तत्र अहं बहु स्याम्’ इत्येवंरूपं सल्पं निक्षिपामि । तेन सर्वेषामपि भूतानाम् उत्पत्तिः भवति ।