रजो रागात्मकं विद्धि...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् ।
- तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]रजः रागात्मकं विद्धि तृष्णासङ्गसमुवम् तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! तृष्णासङ्गसमुवं रजः रागात्मकं विद्धि । तत् कर्मसङ्गेन देहिनम् निबध्नाति ।
शब्दार्थः
[सम्पादयतु]- रागात्मकम् = कामस्वरूपम्
- तृष्णासङ्गसमुवम् = अभिलाषासक्तिसमुत्पन्नम्
- कर्मसङ्गेन = कर्मसम्बन्धेन
- देहिनम् = आत्मानम् ।
अर्थः
[सम्पादयतु]अर्जुन ! अप्राप्ते वस्तुनि अभिलाषः तृष्णा, प्राप्ते वस्तुनि अभिलाषः सङ्गः । आभ्यां यो रागः सम्भवति तदात्मकः अयं रजोगुणः । अयं च आत्मानं कर्मसु प्रवर्तयति । प्रवृत्तश्च सः तत्र बद्धो भवति ।