रजसि प्रलयं गत्वा...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
- तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनः तमसि मूढयोनिषु जायते ॥ १५ ॥
अन्वयः
[सम्पादयतु]रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा तमसि प्रलीनः मूढयोनिषु जायते ।
शब्दार्थः
[सम्पादयतु]- रजसि = रजोगुणे
- प्रलयम् = मृत्युम्
- कर्मसङ्गिषु = कर्मासक्तेषु
- जायते = उद्भवति
- तमसि = तमोगुणे
- प्रलीनः = मृतः
- मूढयोनिषु = निकृष्टयोनिषु ।
अर्थः
[सम्पादयतु]रजोगुणे प्रवृद्धे म्रियमाणः पुरुषः कर्मासक्तेषु मनुष्येषु जायते । तमोगुणे प्रवृद्धे म्रियमाणः तु विवेकरहितेषु पशुप्रभृतिषु जन्म प्राप्नोति ।