समाधिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
योगशास्त्रस्य प्रणेता पतञ्जलिः
ध्यानस्य ध्येयाकारे तदेवार्थमात्रनिर्भासं स्वरुपशून्यमिव समाधिः। (यो.द.- ३/२)

यदा ध्यानं ध्याता ध्येयञ्च एते त्रयः, एकीभूय ध्येयरुपे प्रतियन्ते सा अवस्था भवति समाधिः । समाध्यवस्थायां ध्येयरुपस्यैव भानं भवति, स्वस्वरुपस्य भानं न भवति । ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते (३२) इति उक्तं त्रिशिखाब्राह्मणोपनिषदि । भागवते उक्तं यत्- सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः इति । परिणतिः स्वस्वरुपस्य परीत्यागश्च समाधिर्भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समाधिः&oldid=481059" इत्यस्माद् प्रतिप्राप्तम्