उत्क्रामन्तं स्थितं वापि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

उत्क्रामन्तं स्थितं वा अपि भुञ्जानं वा गुणान्वितम् विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

अन्वयः[सम्पादयतु]

विमूढाः उत्क्रामन्तं स्थितं वा अपि भुञ्जानं गुणान्वितं वा न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति ।

शब्दार्थः[सम्पादयतु]

विमूढाः = अविवेकिनः
उत्क्रामन्तम् = ऊर्ध्वं गच्छन्तम्
स्थितम् = तिष्ठन्तम्
भुञ्जानम् = अनुभवन्तम्
गुणान्वितम् = गुणसहितम्
ज्ञानचक्षुषः = ज्ञाननेत्राः ।

अर्थः[सम्पादयतु]

पूर्वं शरीरं विहाय शरीरान्तरं गच्छन्तम्, तच्छरीरे तिन्तम्, इन्द्रियैः विषयान् अनुभवन्तं वा एनं जीवं मूढाः न कदापि ज्ञातुं शक्नुवन्ति । ज्ञाननेत्राः पुनः अवश्यं तं ज्ञातुं शक्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]