तानहं द्विषतः क्रूरान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य नवदशः (१९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥

अन्वयः[सम्पादयतु]

द्विषतः क्रूरान् अशुभान् तान् नराधमान् संसारेषु आसुरीषु योनिषु एव अजस्रम् अहं क्षिपामि ।

शब्दार्थः[सम्पादयतु]

द्विषतः = शत्रून्
क्रूरान् = उग्रान्
अशुभान् = अपवित्रान्
नराधमान् = नीचमानवान्
संसारेषु = भवेषु
आसुरीषु = राक्षसीषु
अजस्त्रम् = सन्ततम्
क्षिपामि = पातयामि ।

अर्थः[सम्पादयतु]

ये मां द्विषन्ति, क्रूराः अशुभाश्च सन्ति आसुरगुणसम्पन्नाः तादृशान् नरापसदान् अहं सर्वदा संसारे एव पातयामि, तत्रापि आसुरस्वभावेषु एव जन्म कल्पयामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]