मूढग्राहेणात्मनो यत्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य नवदशः (१९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मूढग्राहेण आत्मनः यत् पीडया क्रियते तपः परस्य उत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥

अन्वयः[सम्पादयतु]

मूढग्राहेण आत्मनः पीडया परस्य उत्सादनार्थं वा यत् तपः क्रियते तत् तामसम् उदाहृतम् ।

शब्दार्थः[सम्पादयतु]

मूढग्राहेण = अविवेककृतेन दुराग्रहेण
आत्मनः = स्वस्य
पीडया = बाधया
परस्य = अन्यस्य
उत्सादनार्थम् = विनाशार्थम्
उदाहृतम् = अभिहितम् ।

अर्थः[सम्पादयतु]

अविवेककृतेन दुराग्रहेण, शरीरायासेन, शत्रोः विनाशार्थं च यत् तपः क्रियते तत् तामसम् इत्यभिहितम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]