अदेशकाले यद्दानम्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
- असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अदेशकाले यत् दानम् अपात्रेभ्यः च दीयते असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ २२ ॥
अन्वयः
[सम्पादयतु]अदेशकाले असत्कृतम् अवज्ञातं च अपात्रेभ्यः यत् दानं दीयते तत् तामसम् उदाहृतम् ।
शब्दार्थः
[सम्पादयतु]- अदेशकाले = अनुचिते प्रदेशे समये च
- असत्कृतम् = सत्काररहितम्
- अवज्ञातम् = परिभवसहितम्
- अपात्रेभ्यः = अनर्हेभ्यः ।
अर्थः
[सम्पादयतु]अयोग्ये देशे काले च शमविद्यादिगुणरहिताय अनादरेण तिरस्कारेण च यत् दानं क्रियते तत् तामसमिति भण्यते ।