तस्मादोमित्युदाहृत्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तस्मात् ओम् इति उदाहृत्य यज्ञदानतपःक्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

अन्वयः[सम्पादयतु]

तस्मात् ब्रह्मवादिनां विधानोक्ताः यज्ञदानतपःक्रियाः ओम् इति उदाहृत्य सततं प्रवर्तन्ते ।

शब्दार्थः[सम्पादयतु]

ब्रह्मवादिनाम् = ब्रह्मविदाम्
विधानोक्ताः = शास्त्रविहिताः
यज्ञदानतपःक्रियाः = यागदानतपोरूपाः क्रियाः
उदाहृत्य = उच्चार्य
सततम् = सदा
प्रवर्तन्ते = व्याप्रियन्ते ।

अर्थः[सम्पादयतु]

तस्मात् ब्रह्मविदां शास्त्रविहिताः यज्ञदानतपोरूपाः क्रियाः ओम् इति शब्देनैव आरब्धाः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]